________________
•
षष्ठोऽध्यायः ।
न्यस्याजीवस्यासंभवात् । इष्टवाचित्वाद्वा परशब्दस्य नानर्थक्यमनिष्टस्य निर्वर्तनादनिष्टजीवाधिकरणत्वस्य निवर्त्यत्वात् । एतदेवाह -
ततोधिकरणं प्रोक्तं परं निर्वर्तनादयः । द्वयादिभेदास्तदस्य स्यादजीवात्मकमेव हि ॥ १ ॥ निर्वर्तना द्विधा, मूलोत्तरभेदात् । निक्षेपश्चतुर्धा, अप्रत्यवेक्षणदुःप्रमार्जनसहसानाभोगभेदात् । त एते निर्वर्तनादयो व्यादिभेदाः परमाद्यजीवाधिकरणादिष्टमधिकरणमस्या जीवात्मकत्वात् ॥ नन्वेवं जीवा - जीवाधिकरणद्वैविध्यात् द्वावेवास्रवौ स्यातां न पुनरिंद्रियादयो बहुप्रकाराः कथंचिदास्रवाः स्युः सर्वाश्च कषायानपेक्षानपि वा जीवाजीवानाश्रित्य ते प्रवर्तेरन्नित्यारे कायामिदमाह -
जीवाजीवान्समाश्रित्य कषायानुग्रहान्वितान् । आस्रवा बहुधा भिन्नाः स्युर्नृणामिंद्रियादयः बहुविधक्रोधादिकषायानुग्रहीतात्मनो जीवाजीवाधिकरणानां बहुप्रकारत्वोपपत्तेस्तदाश्रितानामिंद्रियाद्यावाणां बहुप्रकारत्वसिद्धिः । तत एव मुक्तात्मनोऽकषायवतो वा न तदासवप्रसंग: ॥
कुतस्ते तथा सिद्धा एवेत्याह-
४४९
बाधकाभावनिर्णीतेस्तथा सर्वत्र सर्वदा । सर्वेषां स्वेष्टनात्सिद्धास्तीव्रत्वादिविशिष्टवत् ॥ ३ ॥ यथैव हि तीव्रमंदत्वादिविशिष्टाः सांपरायिका स्रवस्य भेदाः सुनिश्चितासंभवद्बाधकप्रमाणत्वात्सिद्धास्तथा जीवाजीवाधिकरणाः सर्वस्य तत एवेष्टसिद्धेः ॥
एवं भूमा कर्मणामात्रवोयं सामान्येन ख्यापितः सांपरायी । तत्सामर्थ्यादन्यमीर्यापथस्य प्राहुर्ध्वस्ताशेषदोषाश्रयस्य ॥ ४ ॥
यथोक्तप्रकारेण सकषायस्यात्मनः सामान्यतोस्यास्रवस्य ख्यापने सामर्थ्यादकषायस्य तैरर्थ्यापथास्रवसिद्धिरिति न तत्र सूत्रकाराः सूत्रितवंतः, सामर्थ्यासिद्धस्य सूत्रणे फलाभावादतिप्रसक्तेश्च । विशेषः पुनरीर्यापथास्रवस्याकषाययोगविशेषाद्बोद्धव्यः ॥
इति षष्ठाध्यायस्य प्रथममाह्निकम् ।
तत्प्रदोषनिह्नवमात्सर्यांतरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥ १० ॥
1
आस्रवा इति संबंध: । के पुनः प्रदोषादयो ज्ञानदर्शनयोरित्युच्यते — कस्यचित्तत्कीर्तनानंतरमनभिव्याहरतोंतःपैशून्यं प्रदोषः, परातिसंधानतो व्यपलापो निह्नवः, यावद्यथावद्वेषस्य प्रदानं मात्सर्य, विच्छेदकरणमंतरायः, वाक्कायाभ्यामनावर्तनमासादनं, प्रशस्तस्यापि दूषणमुपघातः । न चासादनमेव स्यादूषपि विनयाद्यनुष्ठानलक्षणत्वात् । तदिति ज्ञानदर्शनयोः प्रतिनिर्देश सामर्थ्यादन्यस्याश्रुतेः । ज्ञानदर्शनावरणयोरास्रवास्तत्प्रदोषादयो ज्ञानदर्शनप्रदोषादय इत्यभिसंबंधात् । समासे गुणीभूतयोरपि ज्ञानदर्शनयोरार्थेन न्यायेन प्रधानत्वात् तच्छब्देन परामर्शोपपत्तिः । सामान्यतः सर्वकर्मास्रवस्येंद्रियत्रतादिरूपस्य वचनादिह भूयोपि तत्कथनं पुनरुक्तमेवेत्यारेकायामिदमुच्यते
विशेषेण पुनर्ज्ञानावरणयोर्मताः । तत्प्रदोषादयः पुंसामात्र वास्तेनुभागगाः ॥ १ ॥ सामान्यतोभिहितानामप्यास्रवाणां पुनरभिधानं विशेषतः प्रत्येकं ज्ञानावरणादीनामष्टानामप्यास्रवप्रतिपत्त्यर्थम् । एते वास्रवाः सर्वेनुभागगाः प्रतिपत्तव्याः कषायास्रवत्वात् । पुंसामिति वचनात् प्रधानादिव्युदासः । कथं पुनस्ते तदावरणकर्मास्रवहेतव इत्युपपत्तिमाह-
५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org