________________
तत्वार्थ लोकवार्तिके
[सू०९
कषायैर्भिद्यमानात्मचतुर्भिरिति संग्रहः । कषायस्थानभेदानां सर्वेषां परमागमे ॥ ३ ॥
जीवाधिकरणं संरंभादिभिस्त्रिभिर्भिद्यमानं हिंसास्रवस्य तावत्रिविधं । हिंसायां संरंभः समारंभः आरंभश्चेति । तदेव योगैस्त्रिभिः प्रत्येकं भिद्यमानं नवधावधार्यते कायेन संरंभो वाचा संरंभो मनसा संरंभ इति, तथा समारंभस्तथा चारंभ इति । तदेव नवभेदं कृतादिभिर्भिन्नं सप्तविंशति संख्यं कायेन कृतकारितानुमताः संरंभसमारंभारंभाः, तथा वाचा मनसा चेति । पुनश्चैतत्सप्तविंशतिभेदं कषायैः क्रोधादिभिश्चतुर्भिर्भिद्यमानात्मकं भवेदष्टोत्तरशतं - क्रोधमानमायालोभैः कृतकारितानुमताः कायवाङ्मनसा संरंभसमारंभारंभा इति । तथैवानृतादिष्वत्रतेषु योज्यं । एवं कषायस्थानभेदानां सर्वेषां परमागमे संग्रहः कृतो भवति । तदप्यष्टोत्तरशतं प्रत्येकमसंख्येयैः कषायस्थानैः प्रतिभिद्यमानमसंख्येयमिति जीवाधिकरणं व्याख्यातं । जीव एव हि तथा परिणाम विशेषकर्मणामात्रवतां तत्कारणानां च हिंसादिपरिणामानाधिकरणतां प्रतिपद्यते न पुनः पुद्गलादिस्तस्य तथा परिणामाभावात् । संरंभादीनां वा क्रोधाद्याविष्टपुरुषकर्तृकाणां तदनुरंजनादधिकरणभावो नीलपटादिवत् । न चैषां जीवविवर्तनामास्रवादिभावे जीवस्य तद्व्याघातः सर्वेषां तेषां तद्भेदाभावात् । न हि नीलगुणस्य नीलद्रव्यमेवाधिकरणं तत्रैव नीलप्रत्ययप्रसंगात् । नीलः पट इति संप्रत्ययात्तु पटस्यापि तदधिकरणाभावः सिद्धस्तस्य नीलिद्रव्यानुरंजनान्नीलद्रव्य - त्वपरिणामात्तद्भावोपपत्तेः कथंचिदभेदसिद्धेः । सर्वथा तद्भेदेपि पढे संयुक्तनीलीसमवायान्नीलगुणस्य नील: पट इति प्रत्ययो घटत एवेति चेन्न, आत्माकाशादिष्वपि प्रसंगात् । तैर्नीलीद्रव्यसंयोगविशेषाभावान्न तत्प्रसंग इति चेत्, स कोन्यो विशेषः संयोगस्य तथा परिणामात् । तथाहि परिणामित्वं हि तंतुषु तत्संयुक्तमत्रोपचारात् । न च नीलः पट इत्युपचरितः प्रत्ययोsस्खलदुपचाराच्छुक्लः पट इति प्रत्ययवत् तद्बाधकाभावाविशेषात् । तत्सूक्तं यथा नील्या नीलगुणः पटे नील इति च तस्य तदधिकरणभावस्तथा संरंभादिष्वास्रवो जीवेष्वास्रव इति वास्रवस्य तेधिकरणं जीवपरिणामानां जीवग्रहणेन ग्रहणादधिकरणं जीवा इत्युपपत्तेः अन्यथा तत्परिणामग्रहणप्रसंगादिति ॥
४४८
ततः परमधिकरणमाह; -
निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ ९ ॥
"
अधिकरणमित्यनुवर्तते । निर्वर्तनादीनां कर्मसाधनं भावो वा सामानाधिकरण्येन वैयधिकरण्येन वाघिकरणसंबंधः कथंचिद्भेदाभेदोपपत्तेः । द्विचतुर्द्वित्रिभेदा इति द्वंद्वपूर्वोन्यपदार्थनिर्देशः । कश्चिदाहपरवचनमनर्थकं पूर्वत्राद्यवचनात् पूर्वत्राद्यवचनमनर्थकमिह सूत्रे परवचनात्तयोरेकतरवचनाद्वितीयस्यार्थापत्तिसिद्धेः पूर्वपरयोरन्योन्याविनाभावित्वात् । न चेयमर्थापत्तिरनैकांतिकी क्वचिद्यभिचारचोदनात् सर्वत्र व्यभिचारचोदनायाः प्रयासमात्रत्वात् परस्परापेक्षयोरव्यभिचारात् । पूर्वपरयोरंतराले मध्यमस्यापि संभवान्नाविनाभाव इत्यप्ययुक्तं, मध्यमस्य पूर्वपरोभयापेक्षत्वात् पूर्वमात्रापेक्षया तस्य परत्वोपपत्तेः परमात्रापेक्षया पूर्वत्वघटनादव्यवहितयोः पूर्वपरयोरविनाभावसिद्धिः । परशब्दस्यासंबंधार्थत्वान्नानर्थक्यमित्यपि न साधीयो निवर्त्यभावात् । परसंबंधमधिकरणमिति वचनं हि स्वसंबंधमधिकरणं निवर्तयति न चेह तदस्ति, तथा वचनाभावात् । एतेन प्रकृष्टवाचित्वं परशब्दस्य प्रत्युक्तं तन्निवर्त्यस्याप्रकृष्टस्यावचनात् । इष्टवाचित्वमपि तादृशमेवानिष्टस्य निवर्त्यस्याभावात् । न च प्रकारांतरमस्ति यतोत्र परवचनमनर्थवत्स्या - दिति । सोप्ययुक्तवादी, परवचनस्यान्यार्थत्वात् । परं जीवाधिकरणादजीवाधिकरणमित्यर्थः तेनाद्याजीवाधिकरणादिदमपरं जीवाधिकरणमिति निवर्तितं स्यात् । जीवाजीवप्रकरणात्तत्सिद्धिरिति चेत्, ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org