________________
षष्ठोऽध्यायः।
४४७ त्वाच्छरीराद्यानंत्यसिद्धिः । कथं? अनुभागविकल्पादास्रवस्यानंतत्वात्तत्कार्यशरीरादीनामनंतत्वोपपत्तेः । कुतः ।
पुनः सांपरायिकास्रवाणां विशेषः किंहेतुकेभ्यश्च प्रपंच्यत इत्याहतीव्रत्वादिविशेषेभ्यस्तेषां प्रत्येकमीरितः । बंधः कषायहेतुभ्यो विशेषो व्यासतः पुनः ॥१॥ न युक्तः सूत्रितश्चित्रः कर्मबंधानुरूपतः । तच्च कर्म नृणां तस्मादिति हेतुफलस्थितिः ॥२॥
जीवस्य भावास्रवो हि स्वपरिणाम एवेंद्रियकषायादिस्तीवत्वादिविशेषात् । प्रपंचतः पुनः कषायविशेषकारणाद्विशिष्टो ज्ञातः । स च कर्मबंधानुसारतोनेकप्रकारो युक्तः सूत्रितः । कर्म पुनर्नृणामनेकप्रकारं कषायविशेषाद्भावकर्मण इति हेतुफलव्यवस्था । परस्पराश्रयान्न तव्यवस्थेति चेन्न, बीजांकुरवदनादित्वात्कार्यकारणभावस्य तत्र सर्वेषां संप्रतिपत्तेश्च ॥ किं पुनरत्राधिकरणमित्याह;
अधिकरणं जीवाजीवाः ॥ ७ ॥ द्विवचनप्रसंग इति चेन्न, पर्यायापेक्षया बहुत्वनिर्देशात् । न हि जीवद्रव्यसामान्यमजीवद्रव्यसामान्य वा हिंसाधुपकरणभावेन सांपरायिकास्रवहेतुस्तेनाधिकरणत्वं प्रतिपद्यते केनचित्पर्यायेण विशिष्टेनैव तस्य तथाभावप्रतीतेः । सामानाधिकरण्यं तदभेदार्पणाय जीवाजीवास्तदधिकरणमिति । सर्वथा तद्भेदेऽभेदे च सामानाधिकरण्यानुपपत्तिः । तत्त्वेभिर्निर्धारणार्थः सूत्रे सामर्थ्यान्निर्देशः । तेषु तीव्रमंदज्ञाताज्ञातभावाधिकरणवीर्यविशेषेषु यदधिकरणं तस्य जीवाजीवात्मकत्वेन निर्धारणात् । तदेव दर्शयति;
तत्राधिकरणं जीवाजीवा यस्य विशेषतः । सांपरायिकभेदानां विशेषः प्रतिसूत्रितः ॥१॥ तदधिकरणं जीवाजीवा इति प्रतिपत्तव्यं । तत्राद्यं कुतो भिद्यते इत्याह;आद्यं संरंभसमारंभारंभयोगकृतकारितानुमतकषायविशेषै
स्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ८॥ आद्यग्रहणमनर्थकमुत्तरसूत्रे परवचनसामर्थ्यात्सिद्धेरिति चेन्न, विशिष्टार्थत्वात्तस्य । तदग्रहणे हि प्रतिपत्तिगौरवप्रसंगः । परवचनसामर्थ्यादनुमानासंप्रत्ययात्परशब्दस्येष्टवाचिनोपि भावात्तद्वचनादाद्यसंप्रत्ययात्सिद्ध्येत्सूक्तमिह ग्रहणं । प्रमादवतः प्रपन्नावेशः प्राणव्यपरोपणादिषु संरंभः, क्रियायाः साधनानां समभ्यासीकरणं समारंभः, प्रथमप्रवृत्तिरारंभश्चादय आद्यकर्मणि द्योतनत्वात् । संरंभणं संरंभः, समारंभणं समारंभः, आरंभणमारंभ इति भावसाधनाः संरंभादयो, योगशब्दो व्याख्यातार्थः कायवाअनःकर्म योग इति । कृतवचनं कर्तुः खातंत्र्यप्रतिपत्त्यर्थ, कारिताभिधानं परप्रयोगापेक्षं, अनुमतशब्दः प्रयोक्तुर्मानसव्यापारप्रदर्शनार्थः, क्वचिन्मौनव्रतिकवत्तस्य वचनप्रयोजकत्वासंभवात् कायव्यापारेऽप्रयोक्तृत्वान्मानसव्यापारसिद्धेः । कत्यात्मानमिति कषायाः प्रोक्तलक्षणाः विशेषशब्दस्य प्रत्येकं परिसमाप्तिर्भुजिवत् , तेन संरंभादिविशेषैर्योगविशेषैः कृतादिविशेषैः कषायविशेषैरेकशः प्रथममधिकरणं भिद्यत इति सूत्रार्थो व्यवतिष्ठते । एतदेवाह
जीवाजीवाधिकरणं प्रोक्तमाद्यं हि भिद्यते । संरंभादिभिराख्यातैर्विशेषैस्त्रिभिरेकशः ॥१॥ योगैस्तनवधा भिन्नं सप्तविंशतिसंख्यकं । कृतादिभिः पुनश्चैतद्भवेदष्टोत्तरं शतं ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org