________________
तत्त्वार्थश्लोकवार्तिके
[ सू० ६
मिथ्यादिकारणाविष्टदृष्टीकरणमत्र यत् । प्रशंसादिभिरुक्तान्या सा मिथ्यादर्शनक्रिया ||२५|| वृत्तमोहोदयात्पुंसामनिवृत्तिः कुकर्मणः । अप्रत्याख्या क्रियेत्येताः पंच पंच क्रियाः स्मृताः २६ ननु चेंद्रियकषायाव्रतानां क्रियाखभावनिवृत्तेः क्रियावचनेनैव गतत्वात् प्रपंचमात्र प्रसंग इति चेन्न, अनेकांतात् । नामस्थापनाद्रव्येंद्रिय कषायात्रतानां क्रियास्वभावत्वाभावात् । द्रव्यार्थादेशात्तेषां क्रियाखभावत्वात् । किं च, द्रव्यभावात्रवत्वभेदाचेंद्रियादीनां क्रियाणां च न क्रियाः तत्प्रपंचमात्रं इंद्रियादयो हि शुभेतरास्रवपरिणामाभिमुखत्वाद्रव्यासवाः क्रियास्तु कर्मादानरूपाः पुंसो भावास्रवा इति सिद्धांतः । कायवाङ्मनःकर्म योगः स आस्रव इत्यनेन भावास्रवस्य कथनात् । द्रव्यास्रव एव योगः कर्मागमनभावासवस्य हेतुत्वादिति चेन्न, आस्रवत्यनेनेत्यास्रव इति करणसाधनतायां योगस्य भावास्रवत्वोपपत्तेः । एव मंद्रियादीनामपि भावास्रवत्वप्रसंग इति चेन्न, तेषां क्रियाकारणत्वेन द्रव्यासवत्वेन विवक्षितत्वात् । आस्रवणमात्रव इति भावसाधनतायां क्रियाणां भावासवत्वघटनात् कार्यकारणभावाच्चेंद्रियादिभ्यः क्रियाणां पृथग्वचनं युक्तं इंद्रियादिपरिणामा हेतवः क्रियाणां तेषु सत्सु भावादसत्खभावादिति निगदितमन्यत्र । इंद्रियग्रहणमेवास्त्विति चेन्न तदभावेप्यप्रमत्तादीनामासवसद्भावात् । एकद्वित्रिचतुरिंद्रियासंज्ञिपंचेंद्रियेषु यथासंभवं चक्षुरादींद्रियमनोविचाराभावेपि क्रोधादिहिंसादिपूर्वक कर्मादानश्रवणात् । कषायाणां सांपरायिकभावे पर्याप्तत्वादन्याग्रहणमिति चेन्न, सन्मात्रेपि कषाये भगवत्प्रशांतस्य कषायस्य तत्प्रसंगात् । न श्च तस्येंद्रियकषायाव्रतक्रियास्रवाः संति, योगास्रवस्यैव तत्र भावात् । चक्षुरादिरूपाद्यग्रहणं वीतरागत्वात् । अत्रतवचनमेवेति चेन्न, तत्प्रवृत्तिनिमित्त निर्देशार्थत्वादिंद्रिय कषायक्रियावचनस्य । तदेवमिंद्रियादय एकान्नचत्वारिंशत्संख्याः सांपरायकस्य भेदा युक्ता एव वक्तुं संग्रहात् ॥
४४६
कुतः पुनः प्रत्यात्मसंभवतामेतेषामात्रवाणां विशेष इत्याह ;
----
तीव्रमंदज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः ॥ ६ ॥
अतिप्रवृद्धक्रोधादिवशात्तीत्रः स्थूलत्वादुद्रिक्तः परिणामः, तद्विपरीतो मंदः, ज्ञानमात्रं ज्ञात्वा वा प्रवृत्तिर्ज्ञातं मदात्प्रमादाद्वा अनवबुद्ध्य प्रवृत्तिरज्ञातं, अधिक्रियतेस्मिन्नर्था इत्यधिकरणं प्रयोजनाश्रयं द्रव्यं, द्रव्यस्यात्मसामर्थ्य वीर्य । भावशब्दः प्रत्येकमभिसंबध्यते भुजिवत्, तीव्रभावो मंदभावो ज्ञातभावो अज्ञात भाव इति । युगपदसंभवाद्भावशब्दस्यायुक्तं विशेषणमिति चेन्न, बुद्धिविशेषव्यापारात्तस्य तद्विशेषणत्वोपपत्तेः । न हि सत्प्रत्ययाविशेषलिंगाभावादेको भावः सत्तालक्षण एवेति युक्तं, भावद्वैवियात् । द्विविधो हि स्याद्वादिनां भावः परिस्पंदरूपोऽपरिस्पंदरूपश्च । तत्रापरिस्पंद रूपोंतर्द्रव्याणामस्तित्वमात्रमनादिनिधनं तदेकं कथंचिदिति मा भूद्विशेषकं, परिस्पंदरूपस्तु व्ययोदयात्मकस्तीत्रादीनां विशेषकः कायादिव्यापारलक्षणः सकृदुपपद्यते, कायादिसत्त्वस्य च तस्याभिमतत्वात् । कायवाङ्मनः कर्मयोगाधिकारात्कथं तस्य विशेषकत्वमिति चेत्, बौद्धाव्यापारात् भेदेनायोद्धारसिद्धेः । आत्मनो व्यतिरेकाद्वा तत्रादीनां भावत्वसिद्धेः । किं च भावस्य भूयस्त्वात् असंख्येयलोकपरिमाणो हि जीवस्यैकैकस्मिन्नपि कषायादिपरिणामो भावः श्रूयते । ततो युक्तं भावस्य युगपत्तीत्रादीनां विशेषकत्वं । एकत्वेपि वा भावस्य परेष्ट्या बुद्ध्यानेकत्वकल्पनान्न चोद्यमेतत् । वीर्यस्य च परिणामत्वान्न पृथग्ग्रहणमिति चेन्न, तद्विशेषवतो व्यपरोपणादिष्वास्रवभेदज्ञापनार्थत्वात् पृथक्त्वं तद्ग्रहणस्य । वीर्यवतो ह्यात्मनस्तीत्रतीव्रतरादिपरिणामविशेषो जायत इति प्राणव्यपरोपणादिष्वासवफलभेदो ज्ञायते । तथा च तीत्रादिग्रहसिद्धिः । इतरथा हि जीवाधिकरणस्वरूपत्वाद्वीर्यवत्तीत्रादीनामपि पृथग्ग्रहणमनर्थकं स्यात् तन्निमित्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org