________________
४४५
षष्ठोऽध्यायः । तत्र सांपरायिकास्रवस्य के भेदा इत्याह;इंद्रियकषायाव्रतक्रियाः पंचचतुःपंचपंचविंशतिसंख्याः पूर्वस्य भेदाः ॥५॥
इंद्रियाणि पंचसंख्यानि कषायाश्चतुःसंख्याः अव्रतानि पंचसंख्यानि क्रियाः पंचविंशतिसंख्या इति यथासंख्यमभिसंबंधः ॥ सांपरायिकमत्रोक्तं पूर्व तस्येंद्रियादयः । भेदाः पंचादिसंख्याः स्युः परिणामविशेषतः ॥१॥
न हि जीवस्येंद्रियादिपरिणामांनां विशेषोसिद्धः परिणामित्वस्य वचनात् । कारणविशेषापेक्षत्वाच्च स्पर्शादिषु विषयेषु पुंसः स्पर्शादीनि पंच भावेंद्रियाणि तदुपकृतौ वर्तमानानि द्रव्येद्रियाणि पंचेंद्रियसामान्योपादानादुक्तलक्षणानि प्रत्येतव्यानि । तानि वीर्यातरायेंद्रियज्ञानावरणक्षयोपशमान्नामकर्मविशेषोदयाञ्चोपजायमानानि कायेभ्यो मोहनीयविशेषोदयादुत्पद्यमानेभ्यः कथंचिद्भिद्यते नियत विषयत्वाच्च । कषायाः पुनरनियतविषया वक्ष्यमाणास्ततो भिन्नलक्षणानि हिंसादीन्यव्रतानि च वक्ष्यते । क्रियास्तत्राभिधीयते पंचविंशतिः ॥ तत्र चैत्यश्रुताचार्यपूजास्तवादिलक्षणा । सम्यक्त्ववर्धनी ज्ञेया विद्भिः सम्यक्त्वसत्क्रिया ॥२॥ कुचैत्यादिप्रतिष्ठादियों मिथ्यात्वप्रवर्धनी । सा मिथ्यात्व क्रिया बोध्या मिथ्यात्वोदयसंसृता ३ कायादिभिः परेषां यद्गमनादिप्रवर्तनं । सदसत्कार्यसिद्ध्यर्थं सा प्रयोगक्रिया मता ॥४॥ न कायवामनोयोगानो निवर्तयितुं क्षमाः । पुद्गलास्तदुपादानं स्वहेतुद्वयतोन्यथा ॥५॥ संयतस्य सतः पुंसोऽसंयमं प्रति यद्भवेत् । आभिमुख्यं समादानक्रिया सा वृत्तघातिनी ॥ ६ ईयोपथक्रिया तत्र प्रोक्ता तत्कर्महेतुका । इति पंचक्रियास्तावच्छुभाशुभफलाः स्मृताः॥७॥ क्रोधावेशात्प्रदोषो यः सांतपादोषिकी क्रिया। तत्कार्यत्वात्सहेतुत्वात् क्रोधादन्या ह्यनीदृशात् प्रदुष्टस्योद्यमो हंतुं गदिता कायिकी क्रिया । हिंसोपकरणादानं तथाधिकरणक्रिया ॥९॥ दुःखोत्पादनतंत्रत्वं स्यात्क्रिया पारितापिकी क्रिया सा तावता भिन्ना प्रथमा तत्फलत्वतः।।
....... । कषायाचेति पंचैताः प्रपत्तव्याः क्रियाः पराः॥११॥ रागार्द्रस्य प्रमत्तस्य सुरूपालोकनाशयः । स्यादर्शनक्रिया स्पर्शे स्पृष्टधीः स्पर्शनक्रिया ॥१२॥ एते चेंद्रियतो भिन्ने परिस्पंदात्मिके मते । ज्ञानात्मनःकषायाच तत्फलत्वात्तथावतात् ॥१३॥ अपूर्वप्राणिघातार्थोपकरणप्रवर्तनं । क्रिया प्रात्ययिकी ज्ञेया हिंसाहेतुस्तथा परा ॥ १४ ॥ ख्यादिसंपातिदेशेंतर्मलोत्सर्गः प्रमादिनः । शक्तस्य यः क्रियेष्टेह सा समंतानुपातिकी ॥१५॥ अदृष्टे योप्रमृष्टे च स्थाने न्यासो यतेरपि । कायादेः सा त्वनाभोगक्रिया सैताश्च पंच ताः१६ परनिर्वत्येकायेस्य स्वयं करणमत्र यत् । सा स्वहस्तक्रियावद्यप्रधाना धीमतां मता ॥ १७ ॥ पापप्रवृत्तावन्येपामभ्यनुज्ञानमात्मना । स्थानिसर्गक्रियालस्यादकृतिर्वा सुकर्मणां ॥१८॥ पराचरितसावधप्रकाशनमिह स्फुटं । विदारणक्रिया त्वन्या स्यादन्यत्र विशुद्धितः ॥ १९ ॥ आवश्यकादिषु ख्यातामहेदाज्ञामुपासितुं । अशक्तस्यान्यथाख्यानादाज्ञाव्यापादिकी क्रिया ॥ शाठ्यालस्यवशादहत्प्रोक्ताचारविधौ तु यः । अनादरः स एव स्यादनाकांक्षक्रिया विदां २१ एताः पंच क्रियाः प्रोक्ताः परास्तत्त्वार्थवेदिभिः। कषायहेतुका भिन्नाः कषायेभ्यः कथंचन।। छेदनादिक्रियासक्तचित्तत्वं स्वस्य यद्भवेत् । परेण तत्कृतौ हर्षः सेहारंभक्रिया मता ॥२३॥ परिग्रहाविनाशार्था स्यात्पारिग्रहिकी क्रिया। दुर्वक्तृकवचो ज्ञानादौ सा मायादिक्रिया परा २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org