________________
४४४ तत्त्वार्थश्लोकवार्तिके
[ सू० ४ खामिद्वैविध्याच्च द्विविधो योग इत्याह;
__सकषायाकषाययोः सांपरायिकर्यापथयोः ॥ ४॥ यथासंख्यमभिसंबंधमाह;स सांपरायिकस्य स्यात्सकषायस्य देहिनः । ईर्यापथस्य च प्रोक्तोऽकषायस्पेह सूत्रतः॥ १॥
इह सूत्रे स आस्रवः सकषायस्य जीवस्य सांपरायिकस्य कर्मणः स्यात् , अकषायस्य पुनरीर्यापथस्येत्यास्रवस्योभयस्वामिकत्वात् द्वयोः प्रसिद्धिः ॥
कषणादात्मनां घातात्कषायः कुगतिप्रदः। क्रोधादिः सह तेनात्मा सकषायः प्रवर्तनात्॥२॥ कषायरहितस्तु स्यादकषायः प्रशांतितः । कषायस्य क्षयाद्वेति प्रतिपत्तव्यमागमात् ॥ ३ ॥ समंततः पराभूतिः संपरायः पराभवः । जीवस्य कर्मभिः प्रोक्तस्तदर्थ सांपरायिकं ॥४॥ कर्म मिथ्यागादीनामार्द्रचर्मणि रेणुवत् । कषायपिच्छिले जीवे स्थितिमाप्नुवदुच्यते ॥५॥ ईर्या योगगतिः सैवं यथा यस्य तदुच्यते । कर्मेर्यापथमस्थास्तु शुष्ककुट्येश्मवच्चिरं ॥ ६॥ योगमात्रनिमित्तं तु पुंस्यास्रवदपि स्थितिः । न प्रयात्यनुभागं वा कषायान्सत्त्वतः सदा॥७॥
कषायपरतंत्रस्यात्मनः सांपरायिकास्रवस्तदपरतंत्रस्येर्यापथास्रव इति सूक्तं । कथं पुनरात्मनः कस्यचि. त्पारतंत्र्यमपरस्यापारतंत्र्यं वात्मत्वाविशेषेप्युपपद्यते इत्याह;
कपायहेतुकं पुंसः पारतंत्र्यं समंततः । सत्त्वांतरानपेक्षीह पद्ममध्यगगवत् ॥ ८॥ कषायविनिवृत्तौ तु पारतंत्र्यं निवर्त्यते । यथेह कस्यचिच्छांतकपायावस्थितिक्षणे ॥ ९ ॥
संसारिणो जीवस्य पारतंत्र्यं चिदापन्नं कषायहेतुकं सत्त्वांतरानपेक्षित्वे सति पारतंत्र्यशब्दवाच्यत्वात् पद्ममध्यगभ्रमरस्य तत्पारतंत्र्यवत् । निःकषायस्य यतेदस्युकृतेन रक्षादिपरतंत्रत्वेन व्यभिचार इति चेन्न, तस्य सत्त्वांतरानपेक्षित्वेन विशेषणात् । वीतरागस्याघातिकर्मपारतंत्र्येणानेकांत इति चेन्न, तस्य पूर्वकपायकृतत्वात् । महेश्वरसिसृक्षापेक्षित्वात्संसारिजीवपारतंत्र्यस्य सत्त्वांतरानपेक्षित्वमसिद्धमिति चेन्न, महेश्वरापेक्षित्वस्य संसारिणामपाकृतत्वात् । नित्यशुद्धखभावत्वाज्जीवस्य कर्मपारतंत्र्यमसिद्धमिति चेन्न, तस्य संसाराभावप्रसंगात् । प्रकृतेः संसार इति चेन्न, पुरुषकल्पनावैयर्थ्यप्रसंगात् तस्या एव मोक्षस्यापि घटनात् । न च प्रकृतिरेव संसारमोक्षभागचेतनत्वाद्धटवत् । चेतनसंसर्गविवेकाभ्यां सा तद्भागेवेति चेत् , तर्हि यथा प्रकृतेश्चेतनसंसर्गात्पारतंत्र्यलक्षणः संसारस्तथा चेतनस्यापि प्रकृतिसंसर्गात् तत्पारतंत्र्यं सिद्धं, संसर्गस्य द्विष्ठत्वात् । नन्वेवं प्रकृतिपारतंत्र्येण व्यभिचारस्तस्य कषायहेतुकत्वाभावादिति न मंतव्यं, कापिलानां कषायस्य क्रोधादेः प्रकृतिपरिणामतयेष्टत्वात् । तत्पारतंत्र्यस्य कषायहेतुकत्वसिद्धेः । स्याद्वादिनां तु कषायस्य जीवपरिणामत्वेपि कर्मलक्षणप्रकृतेः पारतंत्र्यस्य तत्प्रकृतत्वोपपत्तेः कथं तेन व्यभिचारः ? कषायपरिणामो हि जीवस्य कर्मणां बंधमादधानो यथा तत्पारतंत्र्यं कुरुते तथा कर्मणोपि जीवनपरतंत्रत्वमिति न व्यभिचारसाधनं कषायहेतुकत्वनिवृत्तौ निवर्तमानत्वादन्यथा मुक्तात्मनोपि पारतंत्र्यप्रसंगात् । जीवन्मुक्तस्यापि हि शांतकषायावस्थाकाले पारतंत्र्यनिवृत्तिरुपलभ्यते । “जीवन्नेव हि विद्वान् संगाशाभ्यां विभुच्यते” इति प्रसिद्धेः साध्यसाधनविकलमुदाहरणमिति च न शंकनीयं, पद्ममध्यगतस्य भंगस्य तद्धलोभकषायहेतुकत्वेन तत्संकोचकाले पारतंत्र्यांतरानपेक्षिणः प्रसिद्धत्वात् । ततोऽनवद्यमिदं साधनं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org