________________
षष्ठोऽध्यायः।
४४३ भावात् । ततो योगविभाग एव श्रेयान् निःसंदेहार्थत्वात् तदन्यस्यापि योगस्यास्तित्वसंप्रतिपत्तेश्च ॥
कुतः पुनर्यथोक्तलक्षणो योग एवास्रवः सूत्रितो न तु मिथ्यादर्शनादयोपीत्याह;स आस्रव इह प्रोक्तः कर्मागमनकारणं । पुंसोत्रानुप्रवेशेन मिथ्यात्वादेरशेषतः ॥ १॥ मिथ्यादर्शनं हि ज्ञानावरणादिकर्मणामागमनकारणं मिथ्यादृष्टेरेव न पुनः सासादनसम्यग्दृष्ट्यादीनां । अविरतिरप्यसंयतस्यैव कात्स्येनैकदेशेन वा न पुनः संयतस्य, प्रमादोपि प्रमत्तपर्यतस्यैव नाप्रमत्तादेः, कषायश्च सकषायस्यैव न शेषस्योपशांतकषायादेः, योगः पुनरशेषतः सयोगकेवल्यंतस्य तत्कारणमिति स एवास्रवः प्रोक्तोत्र शास्त्रे संक्षेपादशेषास्रवप्रतिपत्त्यर्थत्वान्मिथ्यादर्शनादेरत्रैव योगेनुप्रवेशात् तस्यैव मिथ्यादर्शनाद्यनुरंजितस्य केवलस्य च कर्मागमनकारणत्वसिद्धेः ॥ कीदृशः स योगः पुण्यस्यास्रवः कीदृशश्च पापस्येत्याह;
शुभः पुण्यस्याशुभः पापस्य ॥३॥ सम्यग्दर्शनाद्यनुरंजितो योगः शुभो विशुद्ध्यंगत्वात् , मिथ्यादर्शनाद्यनुरंजितोऽशुभः संक्लेशांगत्वात् । स पुण्यस्य पापस्य च वक्ष्यमाणस्य कर्मण आस्रवो वेदितव्यः । एतेन खस्मिन् दुःखं परत्र सुखं जनयन् च पुण्यस्य, स्वस्मिन् सुखं परस्मिन् दुःखं च कुर्वन् पापस्यास्रव इत्येकांतो निरस्तः । विशुद्धिसंक्लेशात्मकस्यैव स्वपरस्थस्य सुखासुखस्य पुण्यपापास्रवत्वोपपत्तेरन्यथातिप्रसंगात् । तदुक्तं-"विशुद्धिसंक्लेशाप्तं चेत्स्वपरस्थं सुखासुखं । पुण्यपापास्रवो युक्तो न चेद्ध्यर्थस्तवार्हतः ॥” इति । तदेवंशुभः पुण्यस्य विज्ञेयोऽशुभः पापस्य सूत्रितः । संक्षेपाद्विप्रकारोपि प्रत्येकं स द्विधास्रवः ॥१॥
कायादियोगस्त्रिविधः शुभाशुभभेदात् । प्रत्येकं स द्विविधोपि द्विविध एवास्रवो विज्ञेयः । पुण्यपापकर्मणोः सामान्यादाश्रूयमाणयोर्द्विविधत्वेन सूत्रितत्वात् । कुतः पुनः शुभः पुण्यस्याशुभः पापस्यास्रवो जीवस्येति निश्चीयत इत्याह;
शुभाशुभफलानां तु पुद्गलानां समागमः । विशुद्धतरकायादिहेतुस्तत्त्वात्स्वदृष्टवत् ॥ २॥
जीवस्य शुभफलपुद्गलानामास्रवो विशुद्धकायाध्यवसानाद्यतरंगबहिरंगकृतः शुभफलपुद्गलास्रवत्वात्वयं दृष्टशुभफलपथ्याहारादिसमागमवत् । तथैवाशुभफलपुद्गलसमागमो जीवस्याविशुद्धकारणकृतः अशुभफलपुद्गलसमागमत्वात् खयं दृष्टाशुभफलापथ्याहारादिवदित्यनुमानात्तन्निश्चयः । न तावदत्रासिद्धो हेतुः शुभस्य विशुद्धिरूपस्याशुभस्य च संक्लेशात्मनः परिणामस्य खसंवेदनसिद्धस्य कारणानां पुद्गलानां समागमस्य शुभाशुभफलस्य प्रसिद्धेस्तद्भावभावित्वान्यथानुपपत्तेः । ननु चात्मनि शुभाशुभफलपुद्गलसमागमस्यात्मविशेषगुणकृतत्वान्न शुभाशुभकायादियोगकृतत्वं युक्तमिति चेन्न, तस्य विशुद्धिसंक्लेशपरिणामव्यतिरेकेणासंभवात् । धर्माधर्मों तद्व्यतिरिक्तावेवेति चेन्न, भावधर्माधर्मयोर्विशुद्धिसंक्लेशरूपत्वात् । द्रव्यधर्माधर्मयोः पुद्गलखभावत्वात् समागमस्य विशुद्धिसंक्लेशपरिणामानुगृहीतस्य कायादियोगकृतत्वोपपत्तेः । खप्रसिद्धशुभाशुभफलपथ्यापथ्याहारादिपुद्गलसमागमस्य तत्कृतत्वनिश्चयात्तदभावे सर्वथा तदनुपपत्तेः ।
द्वैविध्यात्तत्फलं चैवमास्रवो द्विविधः स्मृतः । कायादिरखिलो योगः सोऽसंख्येयो विशेषतः ज्ञानावरणवीर्यातराययोः कर्मणोरिह । क्षयोपशमतोनंतभेदयोः स्पर्द्धकात्मनोः ॥४॥ प्रादुर्भावादनंतः स्याद्योगोऽनंतनिमित्तकः । अनंतकर्महेतुत्वादनंतात्मास्रवत्वतः ॥५॥ असंख्येयोथ संख्याताध्यवसायात्मकोगिनां । संख्यातश्च यथायोगं संक्षेपाविविधोप्ययं॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org