________________
अथ षष्ठोऽध्यायः ॥ ६॥
कार्यवाड्मनःकर्म योगः ॥१॥ नवजीवपदार्थव्याख्यानानंतरमास्रवे वक्तव्ये किं चिकीर्षुः सूत्रकारः प्रागेव योगं ब्रवीतीत्यारेकायामिदमुपदिश्यते;
अथास्रवं विनिर्देष्टुकामः प्रागात्मनोंजसा । कायवाङ्मनसां कर्म योगोस्तीत्याह कर्मणाम्॥१॥
आत्मनः कर्मणां ज्ञानावरणादीनामास्रवं विनिर्देष्टुकामोंजसा प्रागेव कायवाङ्मनसां कर्मयोगोस्तीत्याहेदं सूत्रं । तत्र योज्यते अनेनात्मा कर्मभिरिति योगो बंधहेतुर्न पुनः समाधिः युजेर्योगार्थस्य ण्यंतस्य प्रयोगात् । प्रेरवौप्यः प्रायेणेति यस्य विधानात् । स च कायवाङ्मनःकर्म, तेनैवात्मनि ज्ञानावरणादिकमभिर्बधस्य करणात् तस्य बंधहेतुत्वोपपत्तेः । प्रधानपरिणामो योग इत्ययुक्तं, तस्यात्मबंधहेतुत्वायोगात् । प्रधानस्यैव बंधहेतुरसाविति चायुक्तं, बंधस्योभयस्थत्वसिद्धेः । तर्हि जीवाजीवपरिणामो बंध इति चेत् , सत्यं; जीवकर्मणोधस्य तदुभयपरिणामहेतुकत्ववचनात् । कायादिक्रियालक्षणयोगपरिणामो जीवस्यानुपपन्नो निष्क्रियत्वादिति न मंतव्यं ॥
कायादिवर्गणालंबप्रदेशस्पंदनं हि यत् । युक्तं कायादिकर्मास्य सक्रियत्वप्रसिद्धितः ॥२॥
जीवस्य सक्रियत्वसाधनादुपपन्नमेव हि कायादि कर्मेष्यते । कायवर्गणालंबिप्रदेशपरिस्पंदनस्यात्मनि कायकर्मत्वाद्वाग्वर्गणालंबिनस्तस्य वाकर्मत्वात् मनोवर्गणापुद्गलालंबिनो मनःकर्मत्वात् । न च तस्यायोगकेवलिनि सिद्धेषु च प्रसक्तिस्तेषां प्रदेशपरिस्पंदनाभावात् । तथाहि-अयोगकेवलिनो न प्रदेशस्पंदः समुच्छिन्नक्रियाप्रतिपातिध्यानाश्रयत्वात् । यस्य तु प्रदेशस्पंदः स्यात् स तथा प्रसिद्धो यथा सयोग इति युक्तिः । सिद्धानामत एव प्रदेशस्पंदाभावस्तेषामयोगव्यपदेशः समुच्छिन्नक्रियाप्रतिपातिध्यानाश्रयत्वासिद्धेरव्यपदेश्यचारित्रमयत्वात् कायादिवर्गणाभावाच्च सिद्धानां न योगोः युज्यते । ततो वीर्यातरायस्य क्षयोपशमे क्षये वा सति कायादिवर्गणालब्धितो जीवप्रदेशपरिस्पंदो योगस्त्रिविधः प्रत्येतव्यः ।
स आस्रवः ॥२॥ स आसव इत्यवधारणात् केवलिसमुद्धातकाले दंडकपाटप्रतरलोकपूरणकाययोगस्यासंबंधव्यवच्छेदः । कायादिवर्गणालंबनस्यैव योगस्यास्रवत्ववचनात् । तत्स्पंदनालंबनत्वात् । कथमेवं च केवलिनः समुद्धातकालेभ्यो बंधः स्यादिति चेत् , कायवर्गणानिमित्तात्मप्रदेशपरिस्पंदस्य तन्निमित्तस्य भावात्स इति प्रत्येयं । कायवाङ्मनःकर्मास्रव इत्येकमेव सूत्रमस्तु लघुत्वादिति चेन्न, योग आस्रव इति सिद्धांतोपदेशप्रत्ययापायप्रसंगात् । तर्हि योग आस्रव इत्यस्तु निरवद्यत्वादिति चेन्न, केवलिसमुद्धातस्याप्यास्रवत्वप्रसंगात् तस्य लोकयोगत्वेन प्रसिद्धेः संदेहाच । कायवाङ्मनःकर्म योग आस्रव इत्यपि न श्रेयः, संदेहप्रसक्तेः । कायवाङ्मनःकर्म योग इत्यपि संकेतं, न चैवं तद्युक्तं तस्य योगलक्षणत्वेन निर्देशात् । संबंधस्यात्मनि निःक्रियेपि भावात्स एवास्रवो युक्त इति चेन्न, आत्मनो निष्क्रियत्वनिराकरणात्तत्र तत्कर्मण एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org