________________
तत्त्वार्थश्लोकवार्तिके
[ सू० २३
जरारोगेंद्रियहानिभिरावश्यकपरिक्षय संप्राप्ते यत्तस्य स्वगुणरक्षणे प्रयत्नात् ततो न सल्लेखनात्मबधः प्रयलस्य विशुद्ध्यंगत्वात्तपश्चरणादिवत् । एकयोगकरणं न्याय्यं इति चेन्न कचित्कदाचित्कस्यचित्तां प्रत्याभिमुख्यप्रतिपादनार्थत्वात् वेश्मापरित्यागिनस्तदुपदेशात् । दिग्विरत्यादिसूत्रेण सहास्य सूत्रस्यैकयोगीकरणेपि यथा दिग्विरत्यादयो वेश्मापरित्यागिनः कार्यास्तथा सल्लेखनापि कार्या स्यात् । न चासौ तथा क्रियते कचिदेव समाध्यनुकूले क्षेत्रे कदाचिदेव संन्यासयोग्ये काले कस्यचिदेवासाध्यव्याध्यादेः संन्यासकारणसंनिपातादप्रमत्तस्य समाध्यर्थिनः सल्लेखनां प्रत्याभिमुख्यज्ञापनाच्च सागारानगारयोरविशेषविधिप्रतिपादनार्थत्वाच्च सल्लेखनायां पूर्वत्वादस्य तंत्रस्य पृथग्वचनं न्याय्यं ॥ एतदेवाह –
पृथक्सूत्रस्य सामर्थ्याच्च सागारानगारयोः । सल्लेखनस्य सेवेति प्रतिपत्तव्यमंजसा ॥ ३ ॥ तदेवमयं साकल्येनैकदेशेन च निवृत्तिपरिणामो हिंसादिभ्योनेकप्रकारः क्रमाक्रमखभावविशेषात्मकस्यात्मनोनेकांतवादिनां सिद्धो न पुनर्नित्याद्येकांतवादिन इति ॥ तेषामेव बहुविधत्रतमुपपन्नं नान्यस्येत्युपसंहृत्य दर्शयन्नाह -
४६८
नानानिवृत्तिपरिणामविशेषसिद्धेरेकस्य नुर्बहुविधत्रतमर्थभेदात् ।
युक्तं क्रमाक्रमविवर्तिभिदात्मकस्य नान्यस्य जातु नयवाधितविग्रहस्य || १ ॥ इति सप्तमाध्यायस्य प्रथममाह्निकम् ।
अथ सद्दर्शनादीनां सल्लेखनांतानां चतुर्दशानामप्यतीचारप्रकरणे सम्यक्त्वातिचारप्रतिपादनार्थ तावदाह;
शंकाकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः ॥ २३ ॥
जीवादितत्त्वार्थेषु रत्नत्रयमोक्षमार्गे तत्प्रतिपादके वागमे तत्प्रणेतरि च सर्वज्ञे सदसत्त्वाभ्यामन्यथा वा संशीतिः शंका, सद्दर्शनफलस्य विषयोपभोगस्येहामुत्र चाकांक्षणमाकांक्षा, आप्तागमपदार्थेषु संयमाधारे च जुगुप्सा विचिकित्सा, सुगतादिदर्शनान्यन्यदृष्टयस्तदाश्रिता वा पुमांसस्तेषां प्रशंसासंस्तवौ अन्यदृष्टिप्रशंसासंस्तवौ । त एते सम्यग्दृष्टेर्गुणस्य तद्गते वातीचाराः पंच प्रतिपत्तव्याः । कः पुनः प्रशंसासंस्तवयोः प्रतिविशेषः ? इत्युच्यते - वाङ्मनसविषयभेदात् प्रशंसासंस्तवयोर्भेदः । मनसा मिथ्यादृष्टिज्ञानादिषु गुणोद्भावनाभिप्रायः प्रशंसा, वचसा तद्भावनं संस्तव इति । प्रत्येकं प्रकरणादगार्यवधारणमिति चेन्न, सम्यग्दृष्टिग्रहणस्योभयार्थत्वात् । सत्यप्यगारिप्रकरणे नागारिण एव सम्यग्दृष्टरितीष्टमवधारणं । सामान्यतः सम्यग्दृष्टाधिकारेपि पुनरिह सम्यग्दृष्टिग्रहणस्यागार्थनगार संबंधनार्थत्वात् । एतेनानगारस्यैवेत्यवधारणमपास्तं, उत्तरत्रागा रिग्रहणानुवृत्तेः । दर्शनमोहोदयादतिचरणमतीचारः तत्त्वार्थश्रद्धानातिक्रमणमित्यर्थः । ननु च न पंचातिचारवचनं युक्तमष्टांगत्वात् सम्यग्दर्शनस्यातिक्रमणानां तावत्वमिति चेन्न, अत्रैवांतर्भावात् निःशंकितत्वाद्यष्टांगविपरीताचाराणामष्टविधत्वप्रसंगे त्रयाणां वात्सल्यादिविपरीतानामवात्सल्यादीनामन्यदृष्टिप्रशंसादिना सजातीयानां तत्रैवांतर्भावात् । त्रताद्यतीचाराणां पंचसंख्याव्याख्यानप्रकाराणामपि पंच संख्याभिधानात् । कुतः पुनरमी दर्शनस्यातिचारा इत्याहसम्यग्टटेरतीचाराः पंच शंकादयः स्मृताः । तेषु सत्सु हि तत्त्वार्थश्रद्धानं न विशुद्ध्यति ॥ १ ॥ शंकादयः सद्दर्शनस्यातीचारा एव मालिन्यहेतुत्वात् ये तु न तस्यातीचारा न ते तन्मालिन्यहेतवो
Jain Education International
3
For Private & Personal Use Only
----
L
www.jainelibrary.org