________________
सप्तमोऽध्यायः ।
४६९ यथा तद्विशुद्धिहेतवस्तत्त्वार्थश्रवणाद्यर्थास्तद्विनाशहेतवो वा दर्शनमोहोदयादयस्तन्मालिन्यहेतवश्चैव ते तस्मात्तदतीचारा इति युक्तिवचनं प्रत्येयं ॥ व्रतशीलेषु कियंतोतीचारा इत्याह;
व्रतशीलेषु पंच पंच यथाक्रमम् ॥ २४ ॥ अतीचारा इत्यनुवृत्तिः । व्रतग्रहणमेवास्त्विति चेन्न, शीलविशेषद्योतनार्थत्वात् शीलग्रहणस्य । दिग्विरत्यादीनां हि व्रतलक्षणस्याभिसंधिकृतनियमरूपस्य सद्भावातत्वेपि तथाभिधानेपि च शीलत्वं प्रकाश्यते, व्रतपरिरक्षणं शीलमिति शीललक्षणोपपत्तेः । सामर्थ्यागृहिसंप्रत्ययः, बंधनादयो यतीचारा वक्ष्यमाणा नानगारस्य संभवंतीति सामर्थ्यावृहिण एव व्रतेषु शीलेषु पंच पंचातीचाराः प्रतीयंते । पंच पंचेति वीप्सायां द्वित्वं व्रतशीलातीचाराणामनयवेन पंचसंख्यया व्याप्यत्वात् । पंचश इति लघुनिर्देशे संभवत्यपि पंच पंचेति वचनमभिवाक्याथै, यथाक्रमवचनं वक्ष्यमाणातीचारक्रमसंबंधनार्थ ॥
अत एवाह:पंच पंच व्रतेष्वेवं शीलेषु च यथाक्रमं । वक्ष्यंतेतः परं शेषे इति सूत्रेतिदिश्यताम् ॥ १॥ तत्राद्यस्याणुव्रतस्य केतीचारा इत्याह;
बंधवधच्छेदातिभारारोपणानपाननिरोधाः ॥२५॥ अभिमतदेशे गतिनिरोधहेतुबैधः, प्राणिपीडाहेतुर्बधः कशाद्यभिघातमात्रं न तु प्राणव्यपरोपणं तस्य व्रतनाशरूपत्वात् , छेदोंगापनयनं, न्याय्यभारातिरिक्तभारवाहनमतिभारारोपणं, क्षुत्पिपासाबाधनमन्नपाननिरोधः । कुतोमी पंचाहिंसाणुव्रतस्यातीचारा इत्याह
तत्राहिंसाव्रतस्यातीचारा बंधादयः श्रुताः । तेषां क्रोधादिजन्मत्वात्क्रोधादेस्तन्मलत्वतः ॥१॥ पूर्ववदनुमानप्रयोगः प्रत्येतव्यः ॥ अथ द्वितीयस्याणुव्रतस्य केतीचाराः पंचेत्याह;मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकार
मंत्रभेदाः ॥ २६ ॥ मिथ्यान्यथाप्रवर्तनमतिसंधापनं वा मिथ्योपदेशः सर्वथैकांतप्रवर्तनवत् सच्छास्त्रान्यथाकथनवत् परातिसंधायकशास्त्रोपदेशवच्च, संवृतस्य प्रकाशनं रहोभ्याख्यानं स्त्रीपुरुषानुष्ठितगुप्तक्रियाविशेषप्रकाशनवत् , परप्रयोगादन्यानुक्तपद्धतिकर्म कूटलेखक्रिया एवं तेनोक्तमनुष्ठितं चेति वचनाभिप्रायलेखनवत् , हिरण्यादिनिक्षेपे अल्पसंख्यानुज्ञावचनं न्यासापहारः शतन्यासे नवत्यनुष्ठानवत् , अर्थादिभिः परगुह्यप्रकाशनं साकारमंत्रभेदः अर्थप्रकरणादिभिरन्याकूतमुपलभ्यासूयादिना तत्प्रकाशनवत् ।। कथमेते अतीचारा इत्याह
तथा मिथ्योपदेशाद्या द्वितीयस्य व्रतस्य ते । तेषामनृतमूलत्वात्तद्वत्तेन विरोधतः ॥१॥
यथाद्यव्रतस्य मालिन्यहेतुत्वाद्वंधादयोतीचारास्तथा द्वितीयस्य मिथ्योपदेशादयस्तदविशेषात् । तन्मालिन्यहेतुत्वं पुनस्तेषां तच्छुद्धिविरोधित्वात् ॥
अथ तृतीयस्य व्रतस्य केतीचारा इत्याह;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org