________________
४७०
तत्त्वार्थश्लोकवार्तिके
[सू० ३० स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानो
न्मानप्रतिरूपकव्यवहाराः ॥ २७ ॥ मोषकस्य त्रिधा प्रयोजनं । स्तेनप्रयोगः, चोरानीतग्रहणं तदाहृतादानं, उचितादन्यथा दानग्रहणमतिक्रमः, विरुद्धराज्ये सत्यतिक्रमः विरुद्धराज्यातिक्रमः, कूटप्रस्थतुलादिभिः क्रयविक्रयप्रयोगो हीनाधिक- . मानोन्मानं, कृत्रिमहिरण्यादिकरणं प्रतिरूपकव्यवहारः । कुतोमी तृतीयस्य व्रतस्यातीचारा इत्याह;प्रोक्ताः स्तेनप्रयोगाद्याः पंचास्तेयव्रतस्य ते । स्तेयहेतुत्वतस्तेषां भावे तन्मलिनत्वतः॥१॥ अथ चतुर्थस्याणुव्रतस्य केतीचारा इत्याह;परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानंगकी
डाकामतीव्राभिनिवेशाः ॥ २८ ॥ सद्वेद्यचारित्रमोहोदयाद्विवहनं विवाहः परस्य विवाहस्तस्य करणं परविवाहकरणं, अयनशीलेवरी सैव कुत्सिता इत्वरिका तस्यां परिगृहीतायामपरिगृहीतायां च गमनमित्वरिकापरिगृहीतापरिगृहीतागमनं, अनंगेषु क्रीडा अनंगक्रीडा, कामस्य प्रवृद्धः परिणामः कामतीवाभिनिवेशः। दीक्षितातिबालातिर्यग्योन्यादीनामनुपसंग्रह इति चेन्न, कामतीव्राभिनिवेशग्रह्णात् सिद्धेः । त एते चतुर्थाणुव्रतस्य कुतोतीचारा इत्याह
चतुर्थस्य व्रतस्यान्यविवाहकरणादयः । पंचैतेतिक्रमा ब्रह्मविघातकरणक्षमाः ॥१॥ खदारसंतोषव्रतविहननयोग्या हि तदतीचारा न पुनस्तद्विघातिन एव पूर्ववत् ।। अथ पंचमव्रतस्य केतीचारा इत्याह;क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥ २९ ॥
क्षेत्रवास्त्वादीनां द्वयोर्द्वयोद्वः प्राक् कुप्यात् , तीव्रलोभाभिनिवेशात् प्रमाणातिरेकास्तेषामतिक्रमाः । पंच कुतोतीचारा इत्याह;
क्षेत्रवास्त्वादिषूपात्तप्रमाणातिक्रमाः स्वयं । पंच संतोषनिर्घातहेतवोत्यव्रतस्य ते ॥१॥ संतोषनिर्घातानुकूलकारणत्वाद्धि तदतीचाराः स्युन पुनः समर्थकारणत्वात् पूर्ववत् ॥ अथ दिग्विरतेः केतिक्रमाः परेत्याह;
ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यंतराधानानि ॥ ३०॥ परिमितदिगवधिव्यतिलंघनमतिक्रमः, स त्रेधा ऊर्ध्वाधस्तिर्यग्विषयभेदात् । तत्र पर्वताद्यारोहणादूर्ध्वातिक्रमः, कूपावतरणादेरधोतिवृत्तिः, बिलप्रवेशादेस्तिर्यगतीचारः, अभिगृहीताया दिशो लोभावेशादाधिक्याभिसंबंधः क्षेत्रवृद्धिः । इच्छापरिमाणेतर्भावात्पौनरुत्त्यमिति चेन्न, तस्यान्याधिकरणत्वात् तदतिक्रमः । प्रमादमोहव्यासंगादिभिः अननुस्मरणं स्मृत्यंतराधानं । कस्मात् पुनरमी प्रथमस्य शीलस्य पंचातीचारा इत्याहऊर्ध्वातिक्रमणाद्याः स्युः शीलस्याद्यस्य पंच ते । तद्विरत्युपधातित्वात्तेषां तद्धि मलत्वतः ॥१॥
अथ द्वितीयस्य केतीचारा इत्याह;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org