________________
सप्तमोऽध्यायः।
४७१ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ ३१ ॥ तमानयेत्याज्ञापनमानयनं, एवं कुर्विति विनियोगः प्रष्यप्रयोगः, अभ्युत्कासिकादिकरणं शब्दानुपातः, खविग्रहप्ररूपणं रूपानुपातः, लोष्ठादिपातः पुद्गलक्षेपः । कुतः पंचैते द्वितीयस्य शीलस्य व्यतिक्रमा इत्याहद्वितीयस्य तु शीलस्य ते पंचानयनादयः । स्वदेशविरतेर्वाधा तैः संक्लेशविधानतः ॥२॥ अथ तृतीयस्य शीलस्य केतीचारा इत्याह;कंदर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थ
क्यानि ॥ ३२॥ रागोद्रेकात् प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कंदर्पः, तदेवोभयं परत्र दुष्टकायकर्मयुक्तं कौत्कुच्यं, धार्यप्रायोसंबद्धबहुपलापित्वं मौखर्य, असमीक्ष्य प्रयोजनाधिक्येन करणं असमीक्ष्याधिकरणं, तत्रेधा कायवाङ्मनोविषयभेदात् । यावतार्थेनोपभोगपरिभोगस्यार्थस्ततोन्यस्याधिक्यमानर्थक्यं । उपभोगपरिभोगव्रतेंतर्भावात्पौनरुक्त्यप्रसंग इति चेन्न, तदर्थानवधारणात् ॥ कस्मादिमे तृतीयशीलस्यातीचारा इत्याह;कंदर्पाद्यास्तृतीयस्य शीलस्येहोपसूत्रिताः । तेषामनर्थदंडेभ्यो विरतेर्बाधकत्वतः ॥१॥ अथ चतुर्थस्य शीलस्य केतिक्रमा इत्याह;
योगदुःप्रणिधानानादरस्मृत्यनुपस्थानानि ॥ ३३ ॥ योगशब्दो व्याख्यातार्थः, दुष्टप्रणिधानमन्यथा वा दुःप्रणिधानं, अनादरोनुत्साहः, अनैकाग्र्यं स्मृत्यनुपस्थानं । मनोदुःप्रणिधानं तदिति चेन्न, तद्रतादन्याचिंतनात् । कुतश्चतुर्थस्य शीलस्यातिकमा इत्याह
योगदुःप्रणिधानाद्याचतुर्थस्य व्यतिक्रमाः। शीलस तद्विघातित्वात्तेषां तन्मलतास्थितेः ॥१॥ पंचमस्य शीलस्य केतीचारा इत्याह;अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्य
नुपस्थानानि ॥ ३४॥ प्रत्यवेक्षणं चक्षुषो व्यापारः, प्रमार्जनमुपकरणोपकारः, तस्य प्रतिषेधविशिष्टस्योत्सर्गादिभिः संबंधस्तेनाप्रत्यवेक्षिताप्रमार्जितदेशे क्वचिदुत्सर्गस्तादृशस्य कस्यचिदुपकरणस्यादानं तादृशे च क्वचिच्छयनीयस्थाने संस्तरोपक्रमणमिति त्रीण्यभिहितानि भवंति, तथावश्यकेष्वनादरः, स्मृत्यनुपस्थानं च क्षुदर्दितत्वात् प्रोषधोपवासानुष्ठायिनः स्यादिति । तस्यैते पंचातीचाराः कुत इत्याह
अप्रत्यवेक्षितेत्याद्यास्तत्रोक्ताः पंचमस्य ते । शीलस्यातिक्रमाः पंच तद्विघातस हेतवः॥१॥ यत इति शेषः ॥ षष्ठस्य शीलस्य केतीचारा इत्याह;
सचित्तसंबंधसंमिश्राभिषवदुःपकाहाराः ॥ ३५॥ सह चित्तेन वर्तत इति सचित्तं, तदुपश्लिष्टः संबंधः, तद्व्यतिकीर्णस्तन्मिश्रः । पूर्वेणाविशिष्ट इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org