________________
४७२ तत्त्वार्थश्लोकवार्तिके
[सू० ३९ चेन्न, तत्र संसर्गमात्रत्वात् । प्रमादसंमोहाभ्यां सचित्तादिषु वृत्तिर्देशविरतस्योपभोगपरिभोगविषयेषु परिमितेष्वपीत्यर्थः । द्रवो वृष्यं चाभिषवः, असम्यक् पक्को दुःपक्कः । त एतेतिक्रमाः पंच कथमित्याह
तथा तचित्तसंबंधाहाराद्याः पंच सूत्रिताः । तेत्र षष्ठस्य शीलस्य तद्विरोधनहेतवः ॥१॥ सप्तमस्य शीलस्य केतिक्रमा इत्याह;
सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३६॥ सचित्ते निक्षेपः, प्रकरणात् सचित्तेनापिधानं, अन्यदातृदेयार्पणं परव्यपदेशः, प्रयच्छतोप्यादराभावो मात्सर्य, अकाले भोजनं कालातिक्रमः ॥ कुत एतेतिचारा इत्याह;स्मृताः सचित्तनिक्षेपप्रमुखास्ते व्यतिक्रमाः । सप्तमस्येह शीलस्य तद्विघातविधायिनः ॥१॥ अथ सल्लेखनायाः केतिचारा इत्याह;
जीवितमरणाशंसामित्रानुरागसुखानुबंधनिदानानि ॥ ३७ ॥ आकांक्षणमाशंसा, अवश्यहेयत्वे शरीरस्यावस्थानादरो जीविताशंसा, जीवितसंक्लेशान्मरणं प्रति चित्तानुरोधो मरणाशंसा, पूर्व सुहृत्सहपांशुक्रीडनाद्यनुस्मरणं मित्रानुरागः, पूर्वानुभूतप्रीतिविशेषस्मृतिसमन्वाहारः सुखानुबंधः, भोगाकांक्षया नियतं दीयते चित्तं तस्मिंस्तेनेति वा निदानं । त एते संन्यासस्यातिक्रमाः कथमित्याहविज्ञेया जीविताशंसाप्रमुखाः पंच तत्त्वतः । प्रोक्तसल्लेखनायास्ते विशुद्धिक्षतिहेतवः ॥१॥
तदेवं शीलवतेष्वनतिचारैस्तीर्थकरत्वस्य परमशुभनाम्नः कर्मणो हेतुरित्येतस्य पुण्यास्रवस्य प्रपंचतो निश्चयार्थ व्रतशीलसम्यक्त्वभावनातदतिचारप्रपंचं व्याख्याय संप्रति शक्तितस्त्यागतपसी इत्यत्र प्रोक्तस्य व्याख्यानार्थमुपक्रम्यते;
अनुग्रहार्थं स्वस्यातिसर्गों दानम् ॥ ३८ ॥ खपरोपकारोनुग्रहः, स्वशब्दो धनपर्यायवचनः । किमर्थोयं निर्देश इत्याहखं धनं स्यात्परित्यागोतिसर्गस्तस्य नु स्फुटः । तदानमिति निर्देशोतिप्रसंगनिवृत्तये ॥१॥ अनुग्रहार्थमित्येतद्विशेषणमुदीरितं । तेन स्वमांसदानादि निषिद्धं परमापकृत् ॥ २ ॥
न हि परकीय वित्तस्यातिसर्जनं दानं स्वस्यातिसर्ग इति वचनात् । खकीयं हि धनं खमिति प्रसिद्ध धनपर्यायवाचिनः खशब्दस्य तथैव प्रसिद्धेः । न चैवं स्वदुःखकारणं परदुःखनिमित्तं वा सर्वमाहारादिकं धनं भवतीति तस्याप्यतिसर्गो दानमिति प्रसज्यते सामान्यतोनुग्रहार्थमिति वचनात् । खानुग्रहार्थस्य वापरानुग्रहार्थस्य च धनस्यातिसर्गो दानमिति व्यवस्थितेः । तेन च विशेषणेन स्वमांसादिदानं स्वापायकारणं परस्यावधनिबंधनं च प्रतिक्षिप्तमालक्ष्यते, तस्य खपरयोः परमापकारहेतुत्वात् ॥ कुतस्तस्य दानस्य विशेष इत्याह;
विधिद्रव्यदातृपात्रविशेषात्तविशेषः ॥ ३९ ॥ प्रतिग्रहादिक्रमो विधिः, विशेषो गुणकृतः तस्य प्रत्येकममिसंबंधः । तपःखाध्यायपरिवृद्धिहेतुत्वादिद्रव्यविशेषः, अनसूयाऽविषादादिर्दातृविशेषः, मोक्षकारणगुणसंयोगः पात्रविशेषः । एतदेवाहतद्विशेषः प्रपंचेन स्थाद्विध्यादिविशेषतः । दातुः शुद्धिविशेषाय सम्यग्बोधस्य विश्रुतः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org