________________
सप्तमोऽध्यायः ।
कुतोयं विध्यादीनां यथोदितो विशेषः स्यादित्याह ;
विध्यादीनां विशेषः स्यात्स्वकारणविशेषतः । तत्कारणं पुनर्वामांतरं चाप्यनेकधा ॥ २ ॥ विद्रव्यदापात्राणां हि विशेषः, स्वकारणविशेषात् । तच्च कारणं बाह्यमनेकधा द्रव्यक्षेत्रकालभावभेदात् । आंतरं चानेकधा श्रद्धाविशेषादिपरिणामः । कः पुनरसौ विध्यादीनां विशेषः प्रख्यातो यतो दानस्य विशेषतः फलविशेषसंपादनः स्यादित्याह --
पात्रपरिग्रहादिभ्यो विधिभ्यस्तावदास्रवः । दातुः पुण्यस्य संक्केशरहितेभ्योतिशायिनः ||३|| किंचित्संक्लेशयुक्तेभ्यो मध्यमस्योपवर्णितः । बृहत्संक्लेशयुक्तेभ्यः स्वल्पस्येति विभिद्यते ॥ ४ ॥ निकृष्टमध्यमोत्कृष्टविशुद्धिभ्यो विपर्ययः । तेभ्यः स्यादिति संक्षेपादुक्तं सूरिभिरंजसा ॥ ५ ॥ गुणवृद्धिकरं द्रव्यं पापात्रे समर्पितं । दोषवृद्धिकरं पापकारि मिश्रं तु मिश्रकृत् ॥ ६ ॥ दाता गुणान्वितः शुद्धः परं पुण्यमवाप्नुयात् । दोषान्वितस्त्वशुद्धात्मा परं पापमुपैति सः ॥७॥ गुणदोपान्वितः शुद्धाशुद्धभावे समश्नुते । बहुधा मध्यमं पुण्यं पापं चेति विनिश्चयः ॥ ८ ॥ दत्तमन्नं सुपात्राय स्वल्पमप्युरुपुण्यकृत् । मध्यमाय तु पात्राय पुण्यं मध्यममानयेत् ॥ ९ ॥ कनिष्ठाय पुनः स्वल्पमपात्रायाफलं विदुः । पापापापं फलं चेति सूरयः संप्रचक्षते ॥ १० ॥
सामग्रीभेदाद्धि दानविशेषः स्यात् कृप्यादिविशेषाद्वीजविशेषवत् । निरात्मकत्वे सर्वभावानां विध्यादिखरूपाभावः क्षणिकत्वावधिविज्ञानस्य तदभिसंबंधाभावः नित्यत्वाज्ञत्वनिः क्रियत्वाच्च तदभावः । क्रियागुणसमवायादुपपत्तिरिति चेन्न, तत्परिणामाभावात् क्षेत्रस्य वाचेतनत्वात् । स्याद्वादिनस्तदुपपत्तिरनेकांताश्रयणात् । तथाहि—
अपात्रेभ्यो दत्तं भवति सफलं किंचिदपरं न पात्रेभ्यो वित्तं प्रचुरमुदितं जातुचिदिह । अदत्तं पात्रेभ्यो जनयति शुभं भूरि गहनं जनोऽयं स्याद्वादं कथमिव निरुक्तं प्रभवति ॥ ११ ॥ किंचिद्धि वस्तु विशुद्धांतरमपात्रेभ्योपि दत्तं सफलमेव, संक्लेशदुर्गतं तु पात्रेभ्यो दत्तं न प्रचुरमपि सफलं कदाचिदुपपद्यतेऽतिप्रसंगात्, .." मदत्तमपि पात्रेभ्योऽपात्रेभ्यश्च शुभमेव फलं जनयति संक्लेशां गाप्रदानस्यैव श्रेयस्करत्वात् । ततः पात्रायापात्राय वा स्याद्दानं सफलं स्याददानं स्यादुभयं, स्यादवक्तव्यं च स्याद्दानं वा वक्तव्यं चेति स्याद्वादिनयप्रमाणमयज्योतिः प्रतानो अपसारितसकलकुनयतिमिरपटलः सम्यगनेकांतवादिदिनकर एव विभागेन विभावयितुं प्रभवति न पुनरितरो जनः कूपमंडूकवत्पारावारवारिविजृंभितमिति प्रायेणोक्तं पुरस्तात् प्रतिपत्तव्यम् ॥
इति सप्तमाध्यायस्य द्वितीयमाह्निकम् ।
इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे सप्तमोऽध्यायः समाप्तः ॥ ७ ॥
६०
Jain Education International
४७३
For Private & Personal Use Only
www.jainelibrary.org