________________
अथ अष्टमोऽध्यायः ॥ ८॥
अथ बंधेऽभिधातव्येऽभिधीयतेस्य हेतवः । निर्हेतुकत्वकूटस्थाकारणत्वनिवृत्तये ॥ १॥
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बंधहेतवः ॥१॥ मिथ्यादर्शनं क्रियाखंतर्भूतं, विरतिप्रतिपक्षभूताप्यविरतिः, आज्ञाव्यापादनानाकांक्षक्रियायामतर्भावः प्रमादस्य, कषायाः क्रोधादयः प्रोक्ताः, योगाः कायादिविकल्पाः प्रक्लुप्ताः । मिथ्यादर्शनं द्वधा नैसर्गिकपरोपदेशनिमित्तभेदात् । तत्रोपदेशनिरपेक्षं नैसर्गिकं, परोपदेशनिमित्तं चतुर्विधं क्रियाक्रियावादाज्ञानिकवैनयिकमतविकल्पात् । चतुरशीतिः क्रियावादा इति कौत्कुल्यकंठविद्धिप्रभृतिमतविकल्पात् । अशीतिशतमक्रियावादानां मरीचिकुमारोलूककपिलादिदर्शनभेदात् । आज्ञानिकवादाः सप्तषष्टिसंख्याः साकल्यवाकल्यप्रभृतिदृष्टिभेदात् । वैनयिकानां द्वात्रिंशत् वशिष्टपराशरादिमतभेदात् । एते मिथ्यादर्श नोपदेशास्त्रीणि शतानि त्रिषष्ट्युत्तराणि बंधहेतवः प्राणिवधनिमित्तत्वादधर्महेतुत्वसिद्धेः । आगमप्रामाण्यात् प्राणिवधो धर्महेतुरिति चेन्न, तस्यागमत्वासिद्धेरनवस्थानात् । परमागमे प्रसिद्धत्वात्तदसिद्धिरिति चेन्न, अतिशयज्ञानाकरत्वात् । अन्यत्राप्यतिशयज्ञानदर्शनादिति चेन्न, अत एव तेषां संभवात् । श्रद्धामात्रमिति चेन्न, भूयसामुपलब्धेः रत्नाकरवत् । तदुद्भवत्वात्तेषामपि प्रामाण्यमिति चेन्न, निस्सारत्वात् कंत्वादिवत् । सर्वेषामविशेषप्रसंगात् । यज्ञकर्मणोन्यत्र वधः पापायेति चेन्न, उभयत्र तुल्यत्वात् । तादात्सर्वस्येति चेन्न, साध्यत्वात् अन्यथोपयोगे दोषप्रसंगात् । मंत्रप्राधान्याददोष इति चेन्न, प्रत्यक्षविरोधात् हिंसादोषाविनिवृत्तेः । नियतपरिणामनिमित्तस्यान्यथा विधिनिषेधासंभवात् कर्तुरसंभवाच्च । पंचविधं वा मिथ्यादर्शनं, अविरतिकषाययोगा द्वादशपंचविंशतित्रयोदशभेदाः, प्रमादोनेकविधः । समुदायावयवयोबैधहेतुत्वं वाक्यपरिसमाप्तेर्वैचित्र्यात् । अविरतेः प्रमादस्याविशेष इति चेन्न, विरतस्यापि प्रमाददर्शनात् । कषायाविरत्योरभेद इति चेन्न, कार्यकारणभेदोपपत्तेः । कुतः पुनर्मिथ्यादर्शनादयः पंच बंधहेतव इत्याह__ स्युर्वधहेतवः पुंसः स्वमिथ्यादर्शनादयः । तस्य तद्भावभावित्वादन्यथा तदसिद्धितः ॥२॥
पुंसो बंधहेतव इति वचनात् प्रधानक्षणिकचित्तस्य संतानस्य च व्यवच्छेदः, खमिथ्यादर्शनादयः इति निर्देशात् प्रधानपरिणामास्ते पुंसो बंधहेतव इति व्युदरतं, कृतनाशाकृताभ्यागमप्रसंगात् बंधस्य मिथ्यादर्शनाद्यन्वयव्यतिरेकानुविधानात्तद्धेतुकत्वसिद्धिः ॥ ननु च मोक्षकारणत्रैविध्योपदेशात् बंधकारणपांचविध्यं विरुद्धमित्याशंकायामाह;तद्विपर्ययतो मोक्षहेतवः पंच सूत्रिताः । सामर्थ्यादत्र नातोस्ति विरोधः सर्वथा गिराम् ॥ ३॥ निर्णीतप्रायं चैतन्न पुनरुच्यते ॥ कोयं बंध इत्याह;
सकषायत्वान्जीवः कर्मणो योग्यान पुद्गलानादत्ते स बंधः ॥ २॥ पुनः कषायग्रहणमनुवाद इति चेन, कर्मविशेषाशयवाचित्वाज्जठराग्निवत् । जीवाभिधानं प्रचोदित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org