________________
अष्टमोऽध्यायः।
४७५ त्वात् , जीवस्य हि कथममूर्तेन कर्मणा बंध इति परैः प्राचोदि ततो जीव इत्यभिधीयते । जीवनाविनिर्मुक्तत्वाद्वा, जीवनं ह्यायुस्तेनाविनिर्मुक्त एवात्मा कर्मपुद्गलानादत्तेऽतश्च जीवाभिधानं युक्तं । कर्मणो योग्यान् पुद्गलानादत्त इति पृथग्विभक्त्युच्चारणं वाक्यांतरज्ञापनार्थ तेन कर्मणो जीवः सकषायो भवति पूर्वोपात्तादित्येकं वाक्यं सकषायत्वात् पूर्वमकर्मकस्य मुक्तवत्सकषायत्वायोगात् । तथा कर्मणो योग्यान् पुद्गलानादत्ते जीवः सकषायत्वात् इति द्वितीयं वाक्यं कर्मयोग्यपुद्गलादानात्पूर्वमकषायस्य क्षीणकषायादिवत्तदघटनात् । ततो जीवकर्मणोरनादिबंध इत्युक्तं भवति बीजांकुरवत् । सकपायत्वकर्मयोग्यपुद्गलादानयोर्भावद्रव्यबंधस्वभावयोनिमित्तनैमित्तिकभावव्यवस्थानात् । पुद्गलवचनं कर्मणस्तादात्म्यख्यापनार्थ पुद्गलात्मकं द्रव्यकर्म न पुनरन्यस्वभावं । तदसिद्धमिति चेन्न, अमूर्तेरनुग्रहोपघाताभावात् । न ह्यमूर्तिरात्मगुणो जीवस्यामूर्तेरनुग्रहोपघातौ कर्तुमलं कालवदाकाशादीनां । मूर्तिमतस्तु पौद्गलिकस्य कर्मणोनुग्रहोपघातकरणममूर्तेप्यात्मनि कथंचिन्न विरुध्यते, तदनादिबंध प्रति तस्य मूर्तिमत्त्वप्रसिद्धेरन्यथा बंधायोगात् । आदत्ते इति प्रतिज्ञातोपसंहारार्थ । तथाहि-यो यः शुभाशुभफलदायिद्रव्ययोग्यान् पुद्गलानादत्ते स स सकषायो यथा तादृशः स स कर्मणो योग्यान् पुद्गलानादत्ते यथोभयवादिप्रसिद्धः शुभाशुभफलग्रासादिपुद्गलादायी रक्तो द्विष्टो वा सकषायश्च विवादापन्नः संसारी तस्मात् कर्मणो योग्यान् पुद्गलानादत्ते इति प्रतिज्ञातोपसंहारः प्रतिपत्तव्यः । अतस्तदुपश्लेषो बंधः तद्भावो मदिरापरिणामवत् । सवचनमन्यनिवृत्त्यर्थ, कर्मणो योग्यानां सूक्ष्मैकक्षेत्रावगाहिनामनंतानामादानादात्मनः कषायाद्रीकृतस्य प्रतिप्रदेशं तदुपश्लेषो बंधः स एव बंधो नान्यः संयोगमात्रं स्वगुणविशेषसमवायो वेति तात्पर्यार्थः । कषायार्दीकृते जीवे कर्मयोग्यपुद्गलानां कर्मपरिणामस्य भावानुडोदकधातकीकुसुमाद्याभाजनविशेष मदिरायोग्यपुद्गलानां मदिरापरिणामवत् । करणादिसाधनो बंधशब्दः तस्योपचयापचथसद्भावः कर्मण आयव्ययदर्शनात् ब्रीहिकोष्ठागारवत् । कर्मणामायव्ययदर्शनात् तत्फलायव्ययानुभवनात् सिद्धं ततोनुमितानुमानं । एतदेवाह
पुद्गलानां नुरादानं बंधो द्रव्यात्मकः स्मृतः । योग्यानां कर्मणः स्वेष्टानिष्टनिर्वर्तनात्मनः ॥१॥ कथं पुनः पुद्गलाः कर्मपरिणामयोग्याः केचिदुपपद्यते इत्याह;पुद्गलाः कर्मणो योग्याः केचिन्मूर्थियोगतः। पच्यमानत्वतः शालिवीजादिवदितीरितं ॥२॥
पुद्गला एव कर्मपरिणामभाजो मूर्तद्रव्यसंबंधेन विपच्यमानत्वाच्छालिबीजादिवदित्युक्तं पुरस्तात् । ततः कर्मणो योग्याः पुद्गलाः केचित्संत्येव ॥
तानादत्ते स्वयं जीवः सकषायत्वतः स तु । यो नादत्ते प्रसिद्धो हि कपायरहितः परः ॥३॥ सकषायः सकर्मत्वजीवः स्यात्पूर्वतोन्यतः । कषायेभ्यः सकर्मेति नान्यथा भवभागयं ॥४॥ जीवः संबंध इति वा सकषायत्वतोन्यथा । तस्य मुक्तात्मवत्तत्त्वानुपपत्तेः प्रसिद्धितः ॥ ५ ॥ सकषायत्वमध्यक्षात्स्वसंवेदनतः स्वयं । कोपवानहमित्येवं रूपात् सिद्धं हि देहिनां ॥६॥ प्रधानं सकपायं तु स्यान्नैवाचेतनत्वतः । कुंभादिवत्ततो नेदं संबंधमिति निर्णयः ॥ ७ ॥ कर्मणः सकपायत्वं जीवस्येति न शाश्वतं । सहेतुकस्य कौटस्थ्यविरोधात् कुटकादिवत् ॥ ८ ॥ ततो नु मुक्त्यभावो नु कुतश्चित्कर्मणः क्षये । सकषायत्वविध्वंसाविध्वंसकृतसिद्धितः ॥९॥ जीवो हि कर्मणो योग्यानादत्ते पुद्गलान स्वयं । सकषायस्ततः पूर्व शुद्धस्य तदसंभवात् ॥१०॥ तद्रव्यकर्मभिर्वधः पुद्गलात्मभिरात्मनः । सिद्धो नात्मगुणेरेवं कषायैभोवकर्मभिः ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org