________________
४७६ तत्त्वार्थश्लोकवार्तिके
[सू० ४ अन्यथा सकषायत्वप्रत्ययस्य विरोधतः । संसारिणां शरीरादिसंबंधस्यैव हानितः ॥ १२ ॥ सोयं सामान्यतो बंधः प्रतिपादितस्तत्प्रकारप्रतिपादनार्थमाह;
प्रकृतिस्थित्यनुभाग(भव)प्रदेशास्तदिधयः ॥३॥ अकर्तरीत्यनुवृत्तेरपादानसाधना प्रकृतिः, भावसाधनौ स्थित्यनुभवौ, कर्मसाधनः प्रदेशशब्दः । । प्रकृतिः स्वभाव इत्यनर्थान्तरं, स्वभावाप्रच्युतिः स्थितिः, तद्रसविशेषोनुभवः, इयत्तावधारणं प्रदेशः । विधिशब्दः प्रकारवचनः । तस्य विधयस्तद्विधयो बंधप्रकाराः प्रकृत्यादय इत्यर्थः ॥ तदेवाह;
तस्य बंधस्य विधयः प्रकृत्याद्याः सुसूत्रिताः । तथाविधत्वसंसिद्धेर्बधव्यानां कथंचन ॥१॥ स्थित्यादिपर्ययोन्मुक्तैः कर्मयोग्यैर्हि पुद्गलैः । प्रकृत्यावस्थितैर्बधः प्रथमोत्र विवक्षितः ॥ २ ॥ प्रतिप्रदेशमेतैर्नु मतो बंधः प्रदेशतः । स्थित्यादिपर्ययाक्रांतैः स स्थित्यादिविशेपितः ॥३॥ बंधस्य भेदादेवं हि बंधो भिद्यते नान्यथा बंधव्यानि च कर्माणि प्रकृत्यावस्थितानि प्रकृतिबंधव्यपदेशं लभंते । तान्येवात्मप्रदेशवृत्तीनि प्रदेशबंधव्यपदेशं । समयादूर्ध्वस्थितिपर्ययाक्रांतानि स्थितिबंधव्यपदेशं फलदानप्रशक्तिलक्षणानुभवपर्ययाक्रांतान्यनुभवबंधव्यपदेशमिति शोभनं सूत्रिताः प्रकृत्यादिविधयो बंधस्य । तत्र योगनिमित्तौ प्रकृतिप्रदेशौ, स्थित्यनुभवौ कषायहेतुकौ । आयो द्वेधा मूलोत्तरप्रकृतिभेदात् ॥ तत्र मूलप्रकृतिबंधं तावदाह;
आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रांतरायाः ॥ ४॥ सामानाधिकरण्ये सति पूर्वोत्तरवचनविरोध इति चेन्न, उभयनयधर्मविवक्षासद्भावात् तयोरेकवचनबहुवचनप्रयोगोपपत्तेः । प्रमाणं श्रोतार इति सामान्यविशेषयोरेकत्वबहुत्वव्यवस्थितेर्यथासंभवं कादिसाधनत्वं ज्ञानावरणादिशब्दानां प्रयोगपरिणामादागच्छदेवाविशिष्टं कर्म ज्ञानावरणादिविशेषैर्विभिद्यते अन्नादेर्वातादिविकारवत् । ज्ञानावरणमेव मोह इति चेन्न, अर्थातरभावात् कार्यभेदे च कारणान्यत्वात् । ज्ञानावरणस्य हि कार्य ज्ञानं, मोहस्य तत्त्वार्थश्रद्धानमचारित्रं चेति । एतेन ज्ञानदर्शनावरणयोरन्यत्वमुक्तं तत्कार्ययोरज्ञानादर्शनयोरन्यत्वात् तदात्रियमाणयोश्च ज्ञानदर्शनयोरन्यत्वं प्रयुक्तं भेदसाधनं । ज्ञानावरणस्याविशेषेपि प्रत्यास्रवं मत्यादिविशेषो जलवत् । एतेनेतराणि व्याख्यातानि दर्शनावरणादीन्यपि प्रत्यासवं मूलोत्तरप्रकृतिविकल्पभांजि विभाव्यते । सकलकर्मप्रकृतीनां कार्यविशेषानुमेयत्वादिंद्रियशक्तिविशेषवत् । तदेवाहकर्मप्रकृतयस्तत्र स्युर्ज्ञानावरणादयः । तादृक्कार्यविशेषानुमेयाः करणशक्तिवत् ॥१॥
कश्चिदाह-पुद्गलद्रव्यस्यैकस्यावरणसुखदुःखादिनिमित्तत्वानुपपत्तिर्विरोधात् इति । स विनिवार्यते न वा, तत्स्वाभाव्याद्वन्हेर्दाहपाकप्रतापप्रकाशसामर्थ्यवत् । अनैकांतिकत्वाच्च द्रव्यस्य नैकत्यादिरूपेणानैकांतिकत्वं यतो विरोधः । पराभिप्रायेणेंद्रियाणां भिन्नजातीयानां क्षीराद्युपभोगे वृद्धिवत् । वृद्धिरेकैवेति चेन्न, प्रतींद्रियं वृद्धिभेदात् । तथैवातुल्यजातीयेनानुग्रहसिद्धिः । तेन चेतनस्यात्मनोऽचेतनं कर्मानुग्राहकं सिद्धं भवति । किमेतावानेव प्रकृतिबंधविकल्पो नेत्याख्यायते-एकादिसंख्येयविकल्पश्च शब्दतः तत्रैकस्तावत्सामान्यात् कर्मबंधो विशेषाणाम विवक्षितत्वात् सेनावचनवत् । स एव पुण्यपापभेदाद्विविधः खामिभृत्यभेदात् सेनावत् । त्रिविधश्चानादिः सांतः, अनादिरनंतः, सादिः सांतश्चेति, भुजाकाराल्पतरावस्थितभेदाद्वा । प्रकृत्यादिभेदाच्चतुर्विधः, द्रव्यादिभेदात् पंचविधः । षड्जीवनकायभेदात् षोढा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org