________________
•
अष्टमोऽध्यायः ।
४७७
रागद्वेषमोह क्रोधमानमायालोभहेतुभेदात् सप्तविधः । ज्ञानावरणादिविकल्पादष्टविधः । एवं संख्येया विकल्पाः शब्दतो योजनीयाः । चशब्दादवस्थायाः स्थानविकल्पादसंख्येयाः प्रदेशस्कंधपरिणामभेदादनंताः ज्ञानावरणाद्यनुभवाविभागपरिच्छेदापेक्षया वा । क्रमयोजनज्ञानेनात्मनोधिगमाद् ज्ञानावरणं सर्वेषामादावुक्तं । ततो दर्शनावरणमना कारोपलब्धेः । तदनंतरं वेदनीयवचनं तदव्यभिचारात् । ततो मोहाभिधानं तद्विरोधात् । आयुर्वचनं तत्समीपे तन्निबंधनत्वात् । तदनंतरं नामवचनं तदुदयापेक्षत्वात् प्रायो नामोदयस्य । ततो गोत्रवचनं प्राप्तशरीरादिलाभस्य संशब्दनाभिव्यक्तेः । परिशेषादंते अंतरायवचनं ॥ अथोत्तरप्रकृतिबंधं प्रतिपिपादयिषुस्तत्संख्याभेदान् सूत्रयन्नाह ;
पंचनवद्यष्टाविंशतिचतुर्द्विचत्वारिंशद्विपंचभेदा यथाक्रमम् ॥ ५ ॥
पंचादिपंचांतानां द्वंद्वपूर्वोन्यपदार्थनिर्देशः । द्वितीयग्रहणमिति चेन्न, परिशेषात्सिद्धेः । पूर्वत्राद्यवचनात् । इह हि परिशेषादेव द्वितीय उत्तरप्रकृतिबंध इति सिद्ध्यति । भेदशब्दः प्रत्येकं परिसमाप्यते । यथाक्रमं यथानुपूर्वं तेन ज्ञानावरणं पंचभेदमिति । आद्यसंबंधः परिपाट्या द्रष्टव्यः । एतदेवाह — ते च पंचादिभेदाः स्युर्यथाक्रममितीरणात् । कार्यप्रभेदतः साध्याः सद्भिः प्रकृतयोपराः ॥ १ ॥ तत्र केषां ज्ञानानां पंचानामात्रियमाणा नामावृतिकार्यभेदात्पंचभेदं ज्ञानावरणमित्याह ;
मतिश्रुतावधिमनः पर्यय केवलानाम् ॥ ६ ॥
मत्यादीन्युक्तलक्षणानि । मत्यादीनामिति पाठो लघुत्वादिति चेन्न, प्रत्येकमभिसंबंधार्थत्वात् । तेन पंच ज्ञानावरणानि सिद्धानि भवति । पंचवचनात्पंच संख्याप्रतीतिरिति चेन्न, प्रत्येकं पंचत्वप्रसंगात् । प्रतिपदं पठेत् । मतेरावरणं श्रुतस्यावरणमित्याद्यभिसंबंधात् प्रत्येकं पंचावरणानि प्रसज्यंते । कश्चिदाहमत्यादीनां सत्त्वासत्त्वयोरावृत्यभाव इति तं प्रत्याह, नवात्रादेशवचनात् सतश्चावरणदर्शनात् नभसोंभोधरपटलवत् । मत्यादीनां सत्त्वैकांते वासत्त्वैकांते च क्षायोपशमिकत्वविरोधात् कथंचित्सतामेवावरणसंभवः । अर्थातराभावाच्च प्रत्याख्यानावरणवत् । यस्योदये ह्यात्मनः प्रत्याख्यान परिणामो नोत्पद्यते तत्प्रत्याख्यानावरणं न पुनरर्थीतरं प्रत्याख्यानमावृतस्याभावात् । तद्वदात्मनो यत्क्षयोपशमे सति मतिज्ञानादिरूपतयोत्पत्तिस्तन्मत्याद्यावरणं न पुनरर्थीतरं मत्यादिज्ञानमावृतस्यासंभवात् । अपर आह - अभव्यस्योत्तरावरणद्वयानुपपत्तिस्तदभावात् । न च उक्तत्वात् । किमुक्तमिति चेत्, आदेशवचनात् सतश्चावरणदर्शनात् भावांतराभावाच्चेति । द्रव्यार्थादेशात् सतोरपि मन:पर्ययकेवलज्ञानयोरावरणोपगमे स्याद्वादिनां नाभव्यस्य भव्यत्वप्रसंगः, कदाचित्तदावरणविगमासंभवात् । पर्यायार्थादेशादसतोरपि तयोरावरणघटनादुत्पत्तिप्रतिबंधिनोप्यावरणत्वप्रसिद्धेः तयोरभाव्यादर्थांतरयोरभावाच्चं न कश्चिद्दोषः । न च मनःपर्ययादिसदसत्त्वमात्रात् द्रव्यतो भव्येतरविभागः । किं तर्हि ? सम्यक्त्वादिव्यक्तिभावाभावाभ्यां भव्याभव्यत्वविकल्पः, कनकेतरपाषाणवत् । न च ज्ञानावरणोदयादज्ञोतिदुःखितस्ततोनादिरेव परमनिर्वृत्तिरिति दर्शनमुपपन्नं । कुतः पुनर्मत्याद्यावरणसिद्धिरित्याह; —
मत्यादीनां हि पंचानां ज्ञानानां पंच वेदितं । कर्मावरणमन्यस्य हेतोर्भावेप्यभावतः ॥ १ ॥ सत्यप्यात्मन्युपादानहेतौ कालाकाशादौ समाने विषये च योग्य देशवर्तिन्याहार परोपदेशाभ्यासादौ च कस्यचिन्मत्यादिज्ञानविशेषाणामभावात् । ततोन्यत्कारणमदृष्टमनुमीयते तत्तदावरणमेव भवितुमर्हतीति निश्चयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org