________________
तत्त्वार्थश्लोकवार्तिके
Jain Education International
४७८
अथ दर्शनावरणं नवभेदं कथमित्याह ;
चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ॥ ७ ॥
चक्षुरादीनां दर्शनावरणसंबंधाद्भेदनिर्देशः । चक्षुरचक्षुरवधिकेवलानां दर्शनावरणानीति । मदखेदक्लमविनोदनार्थः खापो निद्रा, उपर्युपरि तद्वृत्तिर्निद्रानिद्रा, प्रचलयत्यात्मानमिति प्रचला, पौनःपुन्येन सैवाहितवृत्तिः प्रचलाप्रचला, स्वप्ने यया वीर्यविशेषाविर्भावः सा स्त्यानगृद्धिः स्त्याने खमे गृध्यति दीप्यते रौद्रबहुकर्म करोति यदुदयादित्यर्थः । नानाधिकरणाभावाद्वीप्सानुपपत्तिरिति चेन्न, कालादिभेदेन तद्भेदसिद्धेः, पटुर्भवान् पटुदेशीवत् पटुतर एष स इति यथा । देशभेदादपि मथुरायां दृष्टस्य पुनः पाटलिपुत्रे दृश्यमानस्य तत्त्वत्वत् । तत्रैकस्मिन्नप्यात्मनि कालदेशभेदात् नानात्वभाजि वीप्सा युक्ता निद्रानिद्रा प्रचलाप्रचलेति । आभीक्ष्ण्ये वा द्वित्वप्रसिद्धिः यथा गेहं गेहमनुप्रवेशमास्त इति । निद्रादिकर्म सद्योदयात् निद्रादिपरिणामसिद्धिः । निद्रादीनामभेदेनाभिसंबंध विरोध इति चेन्न, विवक्षातः संबंधात् । चक्षुरचक्षुर्दर्शनावरणोदयाच्चक्षुरादींद्रियालोचनविकलः, अवधिदर्शनावरणोदयादवधिदर्शनविप्रयुक्तः, केवलदर्शनावरणोदयादनाविर्भूत केवलदर्शनः, निद्रानिद्रानिद्रोदयात्तमो महातमोवस्था, प्रचला - प्रचलाप्रचलोदयाच्चलनातिचलनभावः । एतदेवाह -
चतुर्णां चक्षुरादीनां दर्शनानां चतुर्विधं । निद्रादयश्च पंचेति नव प्रकृतयोस्य ताः ॥ १ ॥ चतुर्णां हि चक्षुरादिदर्शनानामावरणाच्चतुर्विधमवबोध्यं तदात्रियमाणभेदात् तद्भेदसिद्धेः । निद्रादयश्च पंच दर्शनावरणानीति भेदाभेदाभ्यामभिसंबंधोत्राविरुद्ध एवेत्युक्तं ॥
अथ तृतीयस्योत्तरप्रकृतिबंधस्य भेदप्रदर्शनार्थमाह ;सदसद्ये ॥ ८ ॥
यस्योदयाद्देवादिगतिषु शारीरमानससुखप्राप्तिस्तत्सद्वेद्यं यत्फलं दुःखमनेकविधं तदसद्वेद्यं । तदेवो - पदर्शयति
द्वेधातु सदसद्वे सातेतरकृतादिमे । प्रकृती वेदनीयस्य नान्यथा तद्व्यवस्थितिः ॥ १ ॥ अथ चतुर्थस्योत्तरप्रकृतिबंधस्य भेदोपदर्शनार्थमाह ;दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिदिन वषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकपायकपाय हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानसंज्वलन विकल्पाचैकशः क्रोधमानमायालोभाः ॥ ९ ॥ दर्शनादिभिस्त्रिद्विनवषोडशभेदानां यथासंख्येन संबंध: । दर्शनमोहनीयं त्रिभेदं, चारित्रमोहनीयं द्विभेद, अकषायवेदनीयं नवविधं, कपायवेदनीयं षोडशविधमिति । तत्र दर्शनमोहनीयं त्रिभेदं सम्यक्त्वमिथ्यात्वतदुभयानीति । तद्वंधं प्रत्येकं भूत्वा सत्कर्म प्रतीत्य त्रेधा । चारित्रमोहनीयं द्वेधा, अकषायकषायभेदात् । कषायप्रतिषेधप्रसंग इति चेत् न, ईषदर्थत्वान्नञः । अकषायवेदनीयं नवविधं हास्यादिभेदात् । कषायवेदनीयं षोडशविधमनंतानुबंध्यादिविकल्पात् ॥ कुतो मोहस्याष्टाविंशतिः प्रकृतयः सिद्धा इत्याह
[सू०९
For Private & Personal Use Only
www.jainelibrary.org