________________
२६० तत्त्वार्थश्लोकवार्तिके
[सू० ३२ साध्ये वस्तुनि निर्णीतो व्याख्यातः प्रतिपद्यतां । पक्षत्रितयहानिस्तु यस्यानैकान्तिको मतः ५६ केवलव्यतिरेकादिस्तस्यानैकान्तिकः कथं । व्यक्तात्मनां हि भेदानां परिणामादिसाधनम् ५७ एकं कारणपूर्वत्वे केवलव्यतिरेकिनः । कारणत्रयपूर्वत्वात्कार्येणानन्वयागतेः ॥ ५८ ॥ पुरुषैर्व्यभिचारीष्टं प्रधानपुरुषैरपि । विना सपक्षसत्त्वेन गमकं यस्य साधनम् ॥ ५९ ॥ अन्यथानुपपन्नत्वात्तस्य साधारणो मतः । साध्ये च तदभावे च वर्तमानो विनिश्चितः॥६॥. संशीत्याक्रान्तदेहो वा हेतुः कात्यैकदेशतः । तत्र कार्येन निर्णीतस्तावत्साध्यविपक्षयोः६१ यथा द्रव्यं नमः सत्त्वादित्यादिः कश्चिदीरितः । विश्ववेदीश्वरः सर्वजगत्कर्तृत्वसिद्धितः॥६२ इति संश्रयतस्तत्राविनाभावस्य संशयात् । सति ह्यशेषवेदित्वे संदिग्धा विश्वकर्तृता ॥६३ ॥ तदभावे च तन्नायं गमको न्यायवेदिनाम् । नित्योर्थो निमर्त्तत्वादिति स्यादेकदेशतः ॥६४॥ स्थितस्तयोर्विनिर्दिष्टपरोऽपीढक्तदा तु कः । यत्रार्थे साधयेदेकं धर्म हेतुर्विवक्षितम् ॥ ६५ ॥ तत्रान्यस्तद्विरुद्धं चेद्विरुद्ध्या व्यभिचार्यसौ । इति केचित्तदप्राप्तमनेकान्तस्य युक्तितः ॥६६॥ सम्यग्घेतुत्वनिर्णीतेर्नित्यानित्यत्वहेतुवत् । सर्वथैकान्तवादे तु हेत्वाभासोऽयमिष्यते ॥ ६७॥ सर्वगत्वे परसिंश्च जातेः ख्यापितहेतुवत् । स च सप्रतिपक्षोत्र कश्चिदुक्तः परैः पुनः ॥६८॥ अनैकान्तिक एवेति ततो नास्य विभिन्नता । स्वेष्टधर्मविहीनत्वे हेतुनान्येन साध्यते ॥ ६९।। साध्याभावे प्रयुक्तस्य हेतो भावनिश्चयः । धर्मिणीति स्वयं साध्यासाध्ययोवृत्तिसंश्रयात् ७० नानैकान्तिकता बाध्या तस्य तल्लक्षणान्वयात् । यः स्वपक्षसपक्षान्यतरवादः स्वनादिषु ॥७॥ नित्यत्वे भंगुरत्वे वा प्रोक्तः प्रकरणे समः । सोऽप्यनैकान्तिकान्नान्य इत्यनेनैव कीर्तितम् ७२ स्वसाध्ये सति सम्भूतिः संशया सविशेषतः। कालात्ययापदिष्टोऽपि साध्यमानेन बाधिते ७३ यः प्रयुज्येत हेतुः स्यात्स नो नैकान्तिकोऽपरः । साध्याभावे प्रवृत्तो हि प्रमाणैः कुत्रचित्स्वयम्७४ साध्ये हेतुर्न निर्णीतो विपक्षविनिवर्त्तनः । विपक्षे बाधके वृत्ते समीचीनो यथोच्यते ॥७५॥ साध्यके सति किन्न स्यात्तदा हासस्तथैव सः । साध्याभावे प्रवृत्तेन किं प्रमाणेन बाध्यते ७६ हेतुः किं वा तदेतेनेत्यत्र संशीतिसम्भवः । साध्यस्याभाव एवायं प्रवृत्त इति निश्चये ॥७७॥ विरुद्धो हेतुरुद्भाव्योऽतीतकालो न चापरः । प्रमाणबाधनं नाम दोषः पक्षस्य वस्तुतः॥७८॥ क तस्य हेतुभिस्त्राणोऽनुत्पन्नेन तपोहतः । सिद्धे साध्ये प्रवृत्तोत्राकिंचित्कर इतीरितः॥७९॥ कैश्चिद्धेतुर्न संचिंत्यः स्याद्वादनयशालिभिः । गृहीतग्रहणात्तस्याप्रमाणत्वं यदीष्यते ॥ ८०॥ स्मृत्यादेरप्रमाणत्वं स्मृत्यादेश्चेत्कथं तु तैः । सिद्धेर्थे वर्तमानस हेतोः संवादिता न ते॥८१॥ प्रयोजनविशेषस्य सद्भावान्मानता यदि । तदाल्पज्ञानविज्ञानं हेतोः किं न प्रयोजनम् ॥८२॥ प्रमाणसंप्लवस्त्वेवं स्वयमिष्टो विरुध्यते । सिद्धे कुतश्चनार्थेन्यप्रमाणस्याफलत्वतः ॥ ८३॥ मानेनैकेन सिद्धेर्थे प्रमाणांतरवर्तने । यानवस्थोच्यते सापि नाकांक्षाक्षयतः स्थितेः ॥ ८४ ॥ सरागप्रतिपत्तॄणां स्वादृष्टत्वमतः कचित् । स्यादाकांक्षाक्षयः कालदेशादेः स्वनिमित्ततः ॥८५।। वीतरागाः पुनः स्वार्थान् वेदनरपरापरैः। परिक्षेत्रं प्रवर्तते सदोपेक्षापरायणा ॥ ८६॥ प्रमाणसंप्लवे चैवमदोषे प्रत्युपस्थिते । गृहीतग्रहणात् क स्यात् केवलस्याप्रमाणता ॥ ८७ ॥ ततः सर्वप्रमाणानामपूर्वार्थत्वसन्नये । स्यादकिंचित्करो हेत्वाभासो नैवान्यथार्पणात् ॥८८॥ तत्रापि केवलज्ञानं नाप्रमाणं असह्यते । साद्यपर्यवसानस्य तस्यापूर्वार्थता स्थितेः ॥ ८९॥ । प्रादुर्भूतिक्षणादू परिणामित्वविच्युतिः । केवलस्सैकरूपित्वादिति चोचं न युक्तिमत् ॥९०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org