________________
२६१
प्रथमोऽध्यायः। परापरेण कालेन संबंधात्परिणामि च । . .(१)ज्ञातृत्वेनैकमेव हि ॥ ९१ ॥ एवं व्याख्याननिःशेषहेत्वाभाससमुद्भवं । ज्ञानं स्वार्थानुमाभासं मिथ्यादृष्टेविपर्ययः ॥९२॥
यथा श्रुतज्ञाने विपर्यासस्तद्वत्संशयोऽनध्यवसायश्च प्रतिपत्तव्यः । सामान्यतो विपर्ययशब्देन मिथ्याज्ञानसामान्यस्याभिधानात् ।
संप्रति वाक्यार्थज्ञानविपर्ययमाहार्य दर्शयन्नाह;नियोगो भावनैकांताद्धात्वर्थो विधिरेव च । यत्रारूढादिव्यर्थोन्यापोहो वा वचसो यदा ॥१३॥ कैश्चिन्मन्येत तज्ज्ञानं श्रुताभं वेदनं तदा । तथा वाक्यार्थनिर्णीतेर्विधातुं दुःशकत्वतः॥९४॥
कः पुनरयं नियोगो नाम नियुक्तोहमनेन वाक्येनेति निरवशेषो योगो नियोगस्तत्र मनागप्ययोगाशंकायाः संभवाभावात् । स चानेकधा, केषांचिल्लिङादिप्रत्ययार्थः शुद्धोऽन्यनिरपेक्षः कार्यरूपो नियोग इति मतम् ॥
प्रत्ययार्थो नियोगश्च यतः शुद्धं प्रतीयते । कार्यरूपश्च तेनात्र शुद्धं कार्यमसौ यतः ॥ ९५ ॥ विशेषणं तु यत्तस्य किंचिदन्यत्प्रतीयते । प्रत्ययार्थो न तद्युक्तः धात्वर्थः स्वर्गकामवत्॥१६॥ प्रेरकत्वं तु यत्तस्य विशेषणमिहेष्यते । तस्याप्रत्ययवाच्यत्वात् शुद्धे कार्ये नियोगता ॥ ९७ ॥ परेषां शुद्धा प्रेरणा नियोग इत्याशयः ।। प्रेरणैव नियोगोत्र शुद्धा सर्वत्र गम्यते । नाप्रेरितो यतः कश्चिनियुक्तं स्वं प्रबुध्यते ॥ ९८ ॥ प्रेरणासहितं कार्य नियोग इति केचिन्मन्यते । ममेदं कार्यमित्येवं ज्ञानं पूर्व यदा भवेत् । स्वसिद्ध्यै प्रेरकं तत्स्यादन्यथा तन्न सिद्ध्यति॥१९॥ कार्यसहिता प्रेरणा नियोग इत्यपरे ॥ प्रेर्यते पुरुषो नैव कार्येणेह विना कचित् । ततश्चेत्प्रेरणा प्रोक्ता नियोगः कार्यसंगता ॥१०॥ कार्यस्यैवोपचारतः प्रवर्तकत्वं नियोग इत्यन्ये । प्रेरणाविषयः कार्य न तु तत्प्रेरकं स्वतः । व्यापारस्तु प्रमाणस्य प्रमेय उपचर्यते ॥ १०१॥ कार्यप्रेरणयोः संबंधो नियोग इत्यपरे । प्रेरणा हि विना कार्य प्रेरिका नैव कस्यचित् । कार्यप्रेरणयोर्योगो नियोगस्तेन सम्मतः॥१०२ तत्समुदायो नियोग इति चापरे । परस्पराविनाभूतं द्वयमेतत्प्रतीयते । नियोगः समुदायोसात्कार्यप्रेरणयोर्मतः ॥ १०३ ॥ तदुभयस्वभावनिर्मुक्तो नियोग इति चान्ये । सिद्धमेकं यतो ब्रह्मगतमाम्नायतः सदा । सिद्धत्वेन च तत्कार्य प्रेरकं कुत एव तत् ॥१०४॥ यंत्रारूढो नियोग इति कश्चित् । कामी यत्रैव यः कश्चिन्नियोगे सति तत्र सः । विषयारूढमात्मानं मन्यमानः प्रवर्तते॥१०५॥ भोग्यरूपो नियोग इत्यपरः ॥ ममेदं भोग्यमित्येवं भोग्यरूपं प्रतीयते । ममत्वेन च विज्ञानं भोक्तर्येव व्यवस्थितम् ॥१०६॥ स्वामित्वेनाभिमानो हि भोक्तुर्यत्र भवेदयं । भोग्यं तदेव विज्ञेयं तदेवं खं निरुच्यते ॥१०७॥ साध्यरूपतया येन ममेदमिति गम्यते । तत्प्रसाध्येन रूपेण भोग्यं खं व्यपदिश्यते ॥१०८॥ सिद्धरूपं हि योग्यं न नियोगः स तावता । साध्यत्वेनेह भोग्यस्य प्रेरकत्वानियोगता१०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org