________________
२६२ तत्त्वार्थश्लोकवार्तिके
[सू० ३२ पुरुष एव नियोग इत्यन्यः । ममेदं कार्यमित्येवं मन्यते पुरुषः सदा । पुंसः कार्यविशिष्टत्वं नियोगः सादबाधितः॥११०॥ कार्यस्य सिद्धौ जातायां तद्युक्तः पुरुषः सदा । भवेत्साधित इत्येवं पुमान् वाक्यार्थ उच्यते१११
सोऽयमेकादशविकल्पो नियोग एव वाक्यार्थ इत्येकांतो विपर्ययः प्रभाकरस्य तस्य सर्वस्याप्येकादशभेदस्य प्रत्येकं प्रमाणाद्यष्टविकल्पानतिक्रमात् । यदुक्तंप्रमाणं किं नियोगः स्यात्प्रमेयमथवा पुनः । उभयेन विहीनो वा द्वयरूपोथवा पुनः॥११२॥ शब्दव्यापाररूपो वा व्यापारः पुरुषस्य वा । द्वयव्यापाररूपो वा द्वयाव्यापार एव वा ११३ तत्रैकादशभेदोपि नियोगो यदि प्रमाणं तदा विधिरेव वाक्यार्थ इति वेदांतवादप्रवेशः प्रभाकरस्य स्यात् प्रमाणस्य चिदात्मकत्वात् , चिदात्मनः प्रतिभासमात्रत्वात्तस्य च परब्रह्मत्वात् । प्रतिभासमात्राद्धि पृथग्विधिः कार्यतया न प्रतीयते घटादिवत् प्रेरकतया वचनादिवत् । कर्मकारणसाधनतया च हि तत्प्रतीतौ कार्यताप्रेरकताप्रत्ययो युक्तो नान्यथा । किं तर्हि, द्रष्टव्योऽरेऽयमात्मा श्रोतव्योऽनुमंतव्यो निदिध्यासितव्य इत्यादि श्रवणादवस्थांतरविलक्षणेन प्रेरितोहमिति जाताकूतेनाकारणैव खयमात्मैव प्रतिभाति स एव विधिरिति वेदांतवादिभिरभिधानात् । प्रमेयत्वं तर्हि नियोगस्यास्तु प्रमाणत्वे दोषाभिधानात् इति कश्चित् । तदसत् , प्रमाणवचनाभावात् । प्रमेयत्वे हि तस्य प्रमाणमन्यद्वाच्यं, तदभावे क्वचित्प्रमेयत्वायोगात् । श्रुतिवाक्यं प्रमाणमिति चेन्न तस्याचिदात्मकत्वे प्रमाणत्वाघटनादन्यत्रोपचारात् । संविदात्मकत्वे श्रुतिवाक्यस्य पुरुष एव तदिति स एव प्रमाणं तत्संवेदनविवर्तश्च । नियुक्तोहमित्यभिधानरूपो नियोगः प्रमेय इति नायं पुरुषादन्यः प्रतीयते यतो वेदांतवादिमतानुप्रवेशोऽस्मिन्नपि पक्षे न संभवेत् । प्रमाणप्रमेयस्वभावो नियोग इतिचेत् सिद्धस्तर्हि चिद्विवर्तोसौ प्रमाणरूपतान्यथानुपपत्तेः । तथा च स एव चिदात्मोभयखभावतयात्मानमादर्शयन् नियोग इति स एव ब्रह्मवादः । अनुभवस्वभावो नियोग इति चेत् तर्हि संवेदनमात्रमेव पारमार्थिकं तस्य कदाचिदहेयत्वात् तथाविधत्वसंभवात् सन्मात्रदेहतया निरूपितत्वादिति वेदांतवाद एव । शब्दव्यापारो नियोग इति चेत् भट्टमतप्रवेशः, शब्दव्यापारस्य शब्दभावनारूपत्वात् । पुरुषव्यापारो नियोग इति चेत्, स एव दोषः तस्यापि भावनारूपत्वात् ; शब्दात्मव्यापाररूपेण भावनाया द्वैविध्याभिधानात् । तदुभयरूपो नियोग इत्यनेनैव व्याख्यातं । तदनुभयव्यापाररूपत्वे तन्नियोगस्य विषयखभावता फलखभावता निःखभावता वा स्यात् ? प्रथमपक्षे यागादिविषयस्याग्निष्टोमादिवाक्यकाले विरहात् तद्रूपस्य नियोगस्यासंभव एव । संभवे वा न वाक्यार्थी नियोगस्तस्य निष्पादनार्थत्वात् निष्पन्नस्य निष्पादनायोगात् पुरुषादिवत् । द्वितीये पक्षेपि नासौ नियोगः फलस्य भावत्वेन नियोगत्वाघटनात् तदा तस्यासंनिधानाच्च । तस्य वाक्यार्थत्वे निरा. लंबनशब्दवादाश्रयणात्कुतः प्रभाकरमतसिद्धिः ? निःस्वभावत्वे नियोगस्यायमेव दोषः । किं च, सन् वा नियोगः स्यादसन् वा ? प्रथमपक्षे विधिवाद एवं द्वितीये निरालंबनवाद इति न नियोगो वाक्यार्थः संभवति; परस्य विचारासंभवात् । तथा वाक्यार्थ इत्येकांतोपि विपर्ययस्तथा व्यवस्थापयितुमशक्तेः । भावना हि द्विविधा शब्दभावना अर्थभावना चेति “शब्दात्मभावनामाहुरन्यामेव लिङादयः । इयं त्वन्यैव सर्वार्था सर्वाख्यातेषु विद्यते” इति वचनात् । अत्र शब्दभावना शब्दव्यापारस्तत्र शब्दव्यापारो भाव्यते पुरुषव्यापारेण धात्वर्थो धात्वर्थेन च फलमिति शब्दभावनावादिनो मतं, तच्च न युज्यते शब्दव्यापारस्य शब्दार्थत्वायोगात् । न ह्यग्निष्टोमेन यजेत खर्गकाम इति शब्दात्तद्व्यापार एव प्रतिभाति खयमेकस्य प्रतिपाद्यप्रतिपादकत्वविरोधात् । प्रतिपादकस्य सिद्धरूपत्वात्प्रतिपाद्यस्य चासिद्धस्य तथात्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org