________________
प्रथमोऽध्यायः।
२५९ स्मृतिसंज्ञाचिन्तानामिव खविषये तिमिरादिकारणवशादुपगम्यते इति पर्यनुयोगे समासव्यासतो हेत्वाभासमुपदर्शयति;
हेत्वाभासस्तु सामान्यादेकः साध्याप्रसाधनः । यथा हेतुःस्वसाध्येनाविनाभावी निवेदितः२४ त्रिविधोऽसावसिद्धादिभेदात्कश्चिद्विनिश्चितः । स्वरूपाश्रयसंदिग्धज्ञातासिद्धश्चतुर्विधः ॥२५॥ तत्र स्वरूपतोसिद्धो वादिनः शून्यसाधने । सर्वो हेतुयेथा ब्रह्मतत्त्वोपप्लवसाधने ॥ २६ ॥ सत्त्वादिः सर्वथा साध्ये शब्दभंगुरतादिके । स्याद्वादिनः कथंचिन सर्वथैकान्तवादिनः॥२७॥ शब्दाद्विनश्वराद्धेतुसाध्ये चाऽकृतकादयः । हेतवोऽसिद्धतां यान्ति बौद्धादेः प्रतिवादिनः २८ जैनस्य सर्वथैकान्तधूमवत्त्वादयोऽग्निषु । साध्येषु हेतवोऽसिद्धा पर्वतादौ तथाग्नितः ॥ २९ ॥ शब्दादौ चाक्षुषत्वादिरुभयासिद्ध इष्यते । निःशेषोऽपि यथा शून्यब्रह्माद्वैतप्रवादिनोः ॥३०॥ बाद्यसिद्धौ तत्र साध्यप्रसाधनौ ॥ समर्थनविहीनः स्यादसिद्धः प्रतिवादिनः । हेतोर्यस्याश्रयो न स्यात् आश्रयासिद्ध एव सः ३१ स्वसाध्येनाविनाभावाभावादगमको मतः । प्रत्यक्षादेः प्रमाणादेः संवादित्वादयो यथा ॥३२॥ शून्योपप्लवशब्दाद्यद्वैतवादावलम्बिना । संदेहविषयः सर्वः संदिग्धासिद्ध उच्यते ॥ ३३ ॥ तथागमप्रमाणत्वे रुद्रोक्तत्वादिरास्थितः । सन्नप्यज्ञायमानोऽत्राज्ञातासिद्धो विभाव्यते ॥३४॥ सौगतादेर्यथा सर्वः सत्त्वादिस्वेष्टसाधने । न निर्विकल्पकाध्यक्षादस्तिहेतोर्विनिश्चयः ॥ ३५॥ तत्पृष्ठजाद्विकल्पाच वस्तुगोचरतः क सः । अनुमानान्तराद्धेतुनिश्चयो चानवस्थितिः ॥३६॥ परापरानुमानानां पूर्वपूर्वत्रवृत्तितः । ज्ञानं ज्ञानान्तराध्यक्षं वदतोनेन दर्शितः ॥ ३७॥ सर्वो हेतुरविज्ञातोऽनवस्थानाविशेषतः । अर्थापत्तिपरिच्छेद्यं परोक्षं ज्ञानमादृताः ॥ ३८ ॥ सर्व ये तेऽप्यनेनोक्ता स्वाज्ञातासिद्धहेतवः । प्रत्यक्षं तु फलज्ञानमात्मानं वा स्वसंविदम् ३९ प्राङ्मयोकरणाज्ञानं व्यर्थ तेषां निवेदितं । प्रधानपरिणामत्वादचेतनमितीरितम् ॥ ४० ॥ ज्ञानं यैस्ते कथं न स्युरज्ञातासिद्धहेतवः । प्रतिज्ञार्थंकदेशस्तु स्वरूपासिद्ध एव नः ॥४१॥ शब्दो नासौ विनाशित्वादित्यादि साध्यसन्निभः। यस्साध्यविपरीतार्थो व्यभिचारी सुनिश्चितः॥ स विरुद्धोऽवबोद्धव्यस्तथैवेष्टविघातकृत् । सत्त्वादिः क्षणिकत्वादौ यथा स्याद्वादविद्विषां ॥४३॥ अनेकान्तात्मकत्वस्य नियमात्तेन साधनात् । परार्थ्य चक्षुरादीनां संहन्तव्यं प्रसाधयेत् ॥४४॥ परस्य परिणामित्वं तथेतीष्टविघातकृत् । अनुस्यूतमनीषादिसामान्यादीनि साधयेत् ॥ ४५ ॥ तेषां द्रव्यविवर्त्तत्वमेवमिष्टविघातकृत् । विरुद्धान च भिन्नोऽसौ स्वयमिष्टाद्विपर्यये ॥ ४६॥ सामर्थ्यस्याविशेषेण भेदवादिप्रसंगतः । विवादाध्यासितं धीमद्धेतुकं कृतकत्वतः ॥४७॥ यथा शकटमित्यादि विरुद्धो तेन दर्शितः । यथा हि बुद्धिमत्पूर्व जगदेतत्प्रसाधयेत् ॥४८॥ तथा बुद्धिमतो हेतोरनेकत्वशरीरिताम् । स्वशरीरस्य कर्त्तात्मा नाशरीरोऽस्ति सर्वथा ॥४९॥ कार्मणेन शरीरेणानादिसम्बन्धसिद्धितः । यतः साध्ये शरीरे स्वे धीमतो व्यभिचारता॥५०॥ जगत्कर्तुः प्रपद्येत तेन हेतोः कुतार्किकः । बोध्योऽनैकान्तिको हेतुःसम्भवान्नान्यथा तथा ५१ संशीतिं विधिवत्सर्वः साधारणतया स्थितः । शब्दत्वश्रावणत्वादि शब्दादौ परिणामिनि ५२ साध्यहेतुस्ततो वृत्तेः पक्ष एव सुनिश्चितः । संशीत्यालिङ्गिताङ्गस्तु यः सपक्षविपक्षयोः॥५३॥ पक्षे स वर्तमानः स्यादनैकान्तिकलक्षणः । तेन साधारणो नान्यो हेत्वाभासस्ततोऽस्ति नः ॥५४ तस्यानैकान्तिके सम्यग्घेतौ वान्तर्गतिः स्थितिः । प्रमेयत्वादिरेतेन सर्वसिन्परिणामिनि॥५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org