________________
तत्त्वार्थश्लोकवार्तिके
[सू० ३२
सादृश्यावलम्बनात् सादृश्यैकान्तवादिनो विपर्ययः । एकत्वप्रत्यभिज्ञानस्याबाधितस्य प्रमाणत्वसाधनात्तत्सत्त्वसिद्धेः पर्याये च सति तदसत्त्ववचनं द्रव्यमात्रास्थानादपरस्य विपर्ययः । भेदज्ञानाद्यबाधितात्तत्सत्त्वसाधनात् । द्रव्यपर्यात्मनि वस्तुनि सति तदसत्त्वाभिधानं परस्परभिन्नद्रव्यपर्यायवादाश्रयणादन्येषां तस्य प्रमाणतो व्यवस्थापनात् । तत्त्वान्यत्वाभ्यामवाच्यत्ववादालम्बनाद्वा तत्र विपर्ययः । सति धौव्ये तदसत्त्वकथनमुत्पादव्ययमात्रांगीकरणात्केषांचिद्विपर्ययः कथंचित्सर्वस्य नित्यत्वसाधनात् । - उत्पादव्यययोश्च सतोस्तदसत्त्वाभिनिवेशः शाश्वतैकान्ताश्रयणादन्येषां विपर्ययः । सर्वस्य कथंचिदुत्पादव्ययात्मनः साधनादेवं प्रतिवस्तुसत्त्वेऽसत्त्ववचनं विपर्ययः प्रपंचतो बुध्यतां । जीवे सति तदसत्त्ववचनं चार्वाकस्य विपर्ययस्तत्सत्त्वस्य प्रमाणतः साधनात् । अजीवे तदसत्त्ववचनं ब्रह्मवादिनो विपर्ययः । आसवे तदसत्त्ववचनं च बौद्धचार्वाकस्यैव । संवरे निर्जरायां मोक्षे च तदसत्त्ववचनं याज्ञिकस्य विपर्ययः । पूर्वमेव जीववदजीवादीनां प्रमाणतः प्ररूपणात् । विशेषतः संसारिणि मुक्ते च जीवे सति तदसत्त्ववचनं विपर्ययः । जीवे पुद्गले धर्मेऽधर्मे नभसि काले च सति तदसत्त्ववचनं । तत्कपुण्यास्रवे पापास्रवे च पुण्यवत्त्वे पापवत्त्वे च देशसंवरे सर्वसंवरे च यथाकालं निर्जरायामौपक्रमिकनिर्जरायां च आर्हत्यमोक्षे सिद्धत्वमोक्षे च सति तदसत्त्ववचनं कस्यचिद्विपर्ययस्तत्सत्त्वस्य पुरस्तात् प्रमाणतः साधनात् । एवं तदा भेदेषु प्रमाणसिद्धेषु तदसत्सु तदसत्त्ववचनं विपर्ययो बहुधावबोद्धव्यः परीक्षाक्षमधिषणैरित्यलं विचारेण ॥
२५८
पररूपादितोशेषे वस्तुन्यसति सर्वथा । सच्त्ववादः समाम्नातः पराहार्यो विपर्ययः ।। १६ ।। पररूपद्रव्यक्षेत्रकालतः सर्ववस्त्वसत्तत्र कार्यतः सत्त्ववचनमाहार्यो विपर्ययः । सत्त्वैकान्तावलम्बनात्कस्यचित्प्रत्येतव्यः । प्रमाणतस्तथा सर्वस्यासत्त्वसिद्धेः देशतोऽसतोऽसति सत्त्वविपर्ययमुपदर्शयति ;सत्यसत्त्वविपर्यासाद् वैपरीत्येन कीर्तितात् । प्रतीयमानकः सर्वोऽसति सत्त्वविपर्ययः ॥ १७॥ सति ग्राह्यग्राहकभावादौ संविदद्वैताद्यालम्बनेन तदसत्त्ववचनलक्षणाद्विपर्ययात्पूर्वोक्ताद्विपरीतत्वेनासति प्रतीत्यारूढे ग्राह्यग्राहकभावादौ सौत्रान्तिकाद्युपवर्णिते सत्त्ववचनं विपर्ययः प्रपंचतोऽवबोद्धव्यः । एवमाहार्यं श्रुतविपर्ययमुपदर्श्य श्रुतानध्यवसायं चाहार्य दर्शयति ;
सति त्रिविप्रकृष्टार्थे संशयः श्रुतिगोचरे । केषांचिदृश्यमानेऽपि तत्त्वोपप्लववादिनाम् ॥ १८ ॥ तथानध्यवसायोऽपि केषांचित्सर्ववेदिनि तत्त्वे । सर्वत्र वाग्गोचराहार्योऽवगम्यताम् ॥ १९ ॥
श्रुतविषये देशकालस्वभावविप्रकृष्टेऽर्थे संशयः । सौगतानामदृश्यसंशयैकान्तवादावलम्बनादाहार्यो - saसेयः । पृथिव्यादौ दृश्यमानेऽपि संशयः केषांचित्तत्त्वोपप्लववादावष्टंभात् । सर्ववेदिनि पुनः संशयो - ऽध्यवसायश्च केषांचिद्विपर्ययवदाहार्योऽवगम्यताम् । सर्वज्ञाभाववादावलेपात्सर्वत्र वा तत्त्वे केषांचिदन्योSनध्यवसायः । संशयविपर्ययवत् "तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नासौ मुनिर्यस्य वचः प्रमाणं । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः " इति प्रलापमात्राश्रयणात् । तथा प्रलापिनां खोक्ताप्रतिष्ठानात् तत्प्रतिष्ठाने वा तथा वचनविरोधादित्युक्तप्रायं ॥ सम्प्रति मतिज्ञानविपर्ययसहजमावेदयति ;बाद्यवग्रहाद्येषु चत्वारिंशत्सु वित्तिषु । कुतश्चिन्मतिभेदेषु सहजः स्याद्विपर्ययः ॥ २० ॥ स्मृतावननुभूतार्थे स्मृतिसाधर्म्यसाधनः । संज्ञायामेकताज्ञानं सादृश्यः श्रोत्रदर्शितः ॥ २१ ॥ तथैकत्वेऽपि सादृश्य विज्ञानं कस्यचिद्भवेत् । स विसंवादतः सिद्धश्चिंतायां लिङ्गलिङ्गिनोः २२ हेत्वाभासबलाज्ञानं लिङ्गिनि ज्ञानमुच्यते । स्वार्थानुमाविपर्यासो बहुधा तद्धियां मतः ॥ २३ ॥ कः पुनरसौ हेत्वाभासो यतो जायमानं लिङ्गिनि ज्ञानं स्वार्थानुमानविपर्ययः । सहजो मतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org