________________
प्रथमोऽध्यायः।
२५७
सदसतोरविशेषाद्यदृच्छोपलब्धेसन्मत्तवत् ॥ ३२ ॥ किंकुर्वन्निदं सूत्रं ब्रवीतीति शंकायामाह;समानोर्थपरिच्छेदः सदृष्ट्यर्थपरिच्छिदा । कुतो विज्ञायते त्रेधा मिथ्यादृष्टेविपर्ययः ॥ १॥ इत्यत्र ज्ञापकं हेतुं सदृष्टान्तं प्रदर्शयत् । सदित्याद्याह संक्षेपाद्विशेषप्रतिपत्तये ॥ २॥ मिथ्यादृष्टेरप्यर्थपरिच्छेदः सदृष्ट्यर्थपरिच्छेदेन समानो भूयते तत्कुतोऽसौ त्रेधा विपर्यय इत्यारेकायां सत्यां दर्शनं ज्ञापकं हेतुमनेनोपदर्शयति ॥
के पुनरत्र सदसती कश्च तयोरविशेषः का च यदृच्छोपलब्धिरित्याह;नात्रोत्पादव्ययध्रौव्ययुक्तं सदिति वक्ष्यति । ततोऽन्यदसदित्येतत्सामर्थ्यादवसीयते ॥३॥ अविशेषस्तयोः सद्भिरविवेको विधीयते । सांकर्यतो हि तद्वित्तिस्तथा वैयतिकर्य्यतः ॥ ४ ॥ प्रतिपत्तिरभिप्रायमानं यदनिबन्धनं । सा यक्षा तया वित्तिरुपलब्धिः कथंचन ॥५॥ किमत्र साध्यमित्याह;मत्यादयोऽत्र वर्तन्ते ते विपर्यय इत्यपि । हेतोर्यथोदितादत्र साध्यते सदसत्त्वयोः ॥६॥
तेनैतदुक्तं भवति मिथ्यादृष्टेमतिश्रुतावधयो विपर्ययः सदसतोरविशेषेण यदृच्छोपलब्धेरुन्मत्तस्यैवेति । समानेऽप्यर्थपरिच्छेदे कस्यचिद्विपर्ययसिद्धिं दृष्टान्ते साध्यसाधनयोर्व्याप्ति प्रदर्शयन्नाह;
खणे स्वर्णमिति ज्ञानमस्वर्णे स्वर्णमित्यपि । स्वर्णे वास्वर्णमित्येवमुन्मत्तस्य कदाचन ॥७॥ विपर्ययो यथा लोके तद्यदृच्छोपलब्धितः । विशेषाभावतस्तद्वन्मिथ्यादृष्टेर्घटादिषु ॥ ८॥ सर्वत्राहार्य एव विपर्ययः सहज एवेत्येकान्तव्यवच्छेदेन तदुभयं स्वीकुर्वन्नाह;सहचार्यो विनिर्दिष्टः सहजश्च विपर्ययः । प्राच्यस्तत्र श्रुताज्ञानं मिथ्यासमयसाधितम् ॥९॥ मत्यज्ञानं विभङ्गश्च सहजः संप्रतीयते । परोपदेशनिर्मुक्तेः श्रुताज्ञानं च किंचन ॥ १० ॥
चक्षुरादिमतिपूर्वकं श्रुताज्ञानमपरोपदेशत्वात्सहजं मत्यज्ञानविभङ्गज्ञानवत् । श्रोत्रमतिपूर्वकं तु परोपदेशापेक्षत्वादाहार्य प्रत्येयं । तत्र सति विषये श्रुताज्ञानमाहार्यविपर्ययमादर्शयति;
सति स्वरूपतोऽशेषे शून्यवादो विपर्ययः । ग्राह्यग्राहकभावादौ संविदद्वैतवर्णनम् ॥ ११ ॥ चित्राद्वैतप्रवादश्च पुंशब्दाद्वैतवर्णनम् । बाह्यर्थेषु च भिन्नेषु विज्ञानांडप्रकल्पनं ॥ १२ ॥ बहिरन्तश्च वस्तूनां सादृश्ये वैसदृश्यवाक । वैसदृश्ये च सादृश्यकान्तवादावलम्बनम् ॥१३॥ द्रव्ये पर्यायमात्रस्य पर्याये द्रव्यकल्पना । तद्वयात्मनि तद्भेदवादो वाच्यत्ववागपि ॥ १४ ॥ उत्पादव्ययवादश्च ध्रौव्ये तदवलम्बनम् । जन्मप्रध्वंसयोरेवं प्रतिवस्तु प्रबुद्ध्यताम् ॥ १५॥
सति तावत्कात्स्येनैकदेशेन च विपर्ययोऽस्ति तत्र कात्स्येन शून्यवादः खरूपद्रव्यक्षेत्रकालतः । सर्वस्य सत्त्वेन प्रमाणसिद्धत्वात् । विशेषतस्तु सति ग्राह्यग्राहकभावे कार्यकारणभावे च वाच्यवाचकभावादौ च तदसत्त्ववचनम् । तत्र संविदद्वैतस्य वावलम्बनेन सौगतस्य, पुरुषाद्वैतस्यालम्बनेन ब्रह्मवादिनः, शब्दाद्वैतस्याश्रयेण वैयाकरणस्येति प्रत्येयं । विपर्ययत्वं तु तस्य ग्राह्यग्राहकभावादीनां प्रतीतिसिद्धं । तद्वचनात्तथा बहिरर्थे भिन्ने सति तद्वदसत्त्ववचनं विज्ञानांशप्रकल्पनाद्विपर्ययः । परमार्थतो बहिरन्तश्च वस्तूनां सादृश्ये सति तदसत्त्ववचनं सर्ववैसदृश्यावलम्बनेन तथागतस्यैव विपर्ययः । सादृश्यप्रत्यभिज्ञानस्याबाधितस्य प्रमाणत्वसाधनेन सादृश्यस्य साधनात् सत्यपि च कथंचिद्विशिष्टसादृश्ये तदसत्त्ववचनं । सर्वथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org