________________
२५६
तत्त्वार्थश्लोकवार्तिके
[सू० ३१ अत्र मतिश्रुतावधीनामविशेषेण संशयविपर्यासानध्यवसायरूपत्वसक्तौ यथाप्रतीति तद्दर्शनार्थमाह;तत्र त्रिधापि मिथ्यात्वं मतिज्ञाने प्रतीयते । श्रुते च द्विविधं बोध्यमवधौ संशयाद्विना॥१२॥ तस्येन्द्रियमनोहेतुसमुद्भूतिनियामतः । इन्द्रियानिन्द्रियाजन्यस्वभावश्चावधिः स्मृतः॥ १३ ॥
मतौ श्रुते च त्रिविधं मिथ्यात्वं बोद्धव्यं मतेरिन्द्रियानिन्द्रियनिमित्तकत्वनियमात् । श्रुतस्यानिन्द्रियनिमित्तकत्वनियमात् द्विविधमवधौ संशयाद्विना विपर्ययानध्यवसायावित्यर्थः । कुतः संशयादिन्द्रियानिन्द्रियाजन्यखभावः प्रोक्तः। संशयो हि चलिताप्रतिपत्तिः, किमयं स्थाणुः किं वा पुरुष इति । स च सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षादुभयविशेषस्मरणात् प्रजायते । दूरस्थे च वस्तुनि इन्द्रियेण सामान्यतश्च सन्निकृष्टे सामान्यप्रत्यक्षत्वं विशेषाप्रत्यक्षत्वं च दृष्टं मनसा च पूर्वानुमूततदुभयविशेषस्मरणेन, न चावध्युत्पत्तौ क्वचिदिन्द्रियव्यापारोऽस्ति मनोव्यापारो वा खावरणक्षयोपशमविशेषात्मना सामान्यविशेषात्मनो वस्तुनः खविषयस्य तेन ग्रहणात् । ततो न संशयात्मावधिः । विपर्ययात्मा तु मिथ्यात्वोदयाद्विपरीतवस्तुस्वभावश्रद्धानसहभावात्सम्बोध्यते । तथानध्यवसायात्माप्याशु उपयोगसंहरणाद्विज्ञानान्तरोपयोगाद्गच्छत्तृणस्पर्शवदुत्पाद्यते । दृढोपयोगावस्थायां तु नावधिरनध्यवसायात्मापि कथमेवावस्थितोऽवधिरिति चेत्, कदाचिदनुगमनात्कदाचिदननुगमनात्कदाचिद्वर्धमानत्वात्कदाचिद्धीयमानत्वात्तथा विशुद्धिविपरिवर्त्तमानादवस्थितावधिरेकेन रूपेणावस्थानान्न पुनरदृष्टोपयोगत्वात्स्वभावपरावर्चनेऽपि, तस्य तथा तथा दृढ़ोपयोगत्वाविरोधात् । कुतः पुनस्त्रिष्वेव बोधेषु मिथ्यात्वमित्याह;मिथ्यात्वं त्रिषु बोधेषु दृष्टिमोहोदयाद्भवेद् । तेषां सामान्यतस्तेन सहभावाविरोधतः ॥१४॥ यदा मत्यादयः पुंसस्तदा न स्याद्विपर्ययः । स यदा ते तदा न स्युरित्येतेन निराकृतम्॥१५।। विशेषापेक्षया ह्येषां न विपर्ययरूपता । मत्यज्ञानादिसंज्ञेषु तेषु तस्याः प्रसिद्धितः ॥ १६ ॥
सम्यक्त्वावस्थायामेव मतिश्रुतावधयो व्यपदिश्यन्ते मिथ्यात्मावस्थायां तेषां मत्यज्ञानव्यपदेशात् । ततो न विशेषरूपतया ते विपर्यय इति व्याख्यायते येन सहानवस्थालक्षणो विरोधः स्यात् । किं तर्हि सम्यग् मिथ्यामत्यादिव्यक्तिगतमत्यादिसामान्यापेक्षया ते विपर्यय इति निश्चीयते मिथ्यात्वेन सहभावाविरोधात्तथा मत्यादीनां ।। ननु च तेषां तेन सहभावेऽपि कथं मिथ्यात्वमित्याशंक्योत्तरमाह;मिथ्यात्वोदयसद्भावे तद्विपर्ययरूपता । न युक्ताम्यादिसंपाते जात्यहेम्नो यथेति चेत् ॥१७॥ नाश्रयस्थान्यथाभावसम्यकपरिदृढे सति । परिणामे तदाधेयस्यान्यथा भावदर्शनात् ॥ १८ ॥ यथा सरजसालाम्बूफलस्य कटु किन्न तत् । क्षिप्तस्य पयसो दृष्टः कटुभावस्तथाविधः ॥१९॥ तथात्मनोऽपि मिथ्यात्वपरिणामे सतीष्यते । मत्यादिसंविदांतादृमिथ्यात्वं कस्यचित्सदा २०
जात्यहेनो माणिक्यस्य चाम्यादिर्वा गृहादिर्वा नाहेमत्वममाणिक्यत्वं वा कर्तुं समर्थस्तस्यापरिणामकत्वात् । मिथ्यात्वपरिणतस्तु आत्मा साश्रयीणि मत्यादिज्ञानानि विपर्ययरूपतामापादयति । तस्य तथा परिणामकत्वात्सरजसकटुकालाम्बूवत्खाश्रयि पय इति न मिथ्यात्वसहभावेऽपि मत्यादीनां सम्यक्स्वपरित्यागः शङ्कनीयः । परिणामित्वमात्मनोसिद्धमिति चेदत्रोच्यते
न चेदं परिणामित्वमात्मनो न प्रसाधितम् । सर्वस्यापरिणामित्वे सत्त्वस्यैव विरोधतः ॥२१॥ - यतो विपर्ययो न स्यात्परिणामः कदाचन । मत्यादिवेदनाकारपरिणामनिवृत्तितः ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org