________________
प्रथमोऽध्यायः।
- २५५ लघुवृत्तेन विच्छेदः स्मृतीनामुपलक्ष्यते । यथा तथैव रूपादिज्ञानानामिति मन्यताम् ॥२०॥ असंख्यातैः क्षणैः पद्मपत्रद्वितयभेदनम् । विच्छिन्नं सकृदाभाति येषां भ्रान्तैः कुतश्चन॥२१॥ पंचषैः समयैस्तेषां किन्न रूपादिवेदनम् । विच्छिन्नमपि भातीहाविच्छिन्नमिव विभ्रमात् ॥२२ व्यवसायात्मकं चक्षुर्ज्ञानं गवि यदा तदा । मतङ्गजविकल्पोऽपीत्यनयोः सकृदुद्भवः ॥ २३ ॥ ज्ञानोदयसकृज्जन्मनिषेधे हन्ति चेन वै । तयोरपि सहैवोपयुक्तयोरस्ति वेदनम् ॥ २४ ॥ यदोपयुज्यते ह्यात्मा मतङ्गजविकल्पने । तदा लोचनविज्ञानं गवि मन्दोपयोगहृत् ॥ २५ ॥ तथा तत्रोपयुक्तस्य मतङ्गजविकल्पने । प्रतीयन्ति स्वयं सन्नो भावयन्तो विशेषतः ॥ २६ ॥ समोपयुक्तता तत्र कस्यचित्प्रतिभाति या । साशु संचरणाद्धान्तेर्गोकुञ्जरविकल्पवत् ॥ २७ ॥ नन्वश्वकल्पनाकाले गोदृष्टेः सविकल्पताम् । कथमेवं प्रसाध्येत कचित्स्याद्वादवेदिभिः॥२८॥ संस्कारस्मृतिहेतुर्या गोदृष्टिः सविकल्पिका । सान्यथा क्षणभंगादि दृष्टिवन्न तथा भवेत् ॥२९ इत्याश्रयोपयोगायाः सविकल्पत्वसाधनं । नेत्रालोचनमात्रस्य नाप्रमाणात्मनः सदा ॥३०॥ गोदर्शनोपयोगेन सहभावः कथं न तु । तद्विज्ञानेऽस्य योगस्य नार्थव्याघातकृत्तदा ॥ ३१ ॥ इत्यचोद्यं दृशस्तत्रानुपयुक्तत्वसिद्धितः । पुंसो विकल्प विज्ञानं प्रत्येवं प्रणिधानतः ॥ ३२ ॥ सोपयोगं पुनश्चक्षुर्दर्शनं प्रथमं ततः । चक्षुर्ज्ञानं श्रुतं तस्मात्तत्रार्थेऽन्यत्र च क्रमात् ॥ ३३ ॥ प्रादुर्भवत्करोत्याशु वृत्या सह जनौ धियं । यथा दृग्ज्ञानयोर्नृणामिति सिद्धान्तनिश्चयः ॥३४॥
जननं जनिरिति नायमिगन्तोऽयं यतो जिरिति प्रसज्यते किं तर्हि, औणादिकइकारोऽत्र क्रियते बहुलवचनात् । उणादयो बहुलं च सन्तीति वचनात् इकारादयोऽप्यनुक्ताः कर्तव्या एवेति सिद्ध जनिरिति । तत्र जनौ सहधियं करोत्याशुवृत्त्या चक्षुर्ज्ञानं तच्छुतज्ञानं च क्रमादभवदपि कथंचिदिति हि सिद्धान्तविनिश्चयो न पुनः सह क्षायोपशमिकदर्शनज्ञाने सोपयोगे मतिश्रुतज्ञाने वा येन सूत्राविरोधो न भवेत् । न चैतावता परमतसिद्धिस्तत्र सर्वथा क्रमभाविज्ञानव्यवस्थितेरिह कथंचित्तथाभिधानात् ॥
मतिश्रुतावधयो विपर्ययश्च ॥ ३१ ॥ कस्याः पुनराशंकाया निवृत्त्यर्थ कस्यचिद्वा सिद्ध्यर्थमिदं सूत्रमित्याह;अथ ज्ञानापि पंचानि व्याख्यातानि प्रपंचतः । किं सम्यगेव मिथ्या वा सर्वाण्यपि कदाचन ॥१॥ कानिचिद्वा तथा पुंसा मिथ्याशंकानिवृत्तये । स्वेष्टपक्षपक्षसिद्ध्यर्थ मतीत्याद्याह संप्रति ॥२॥ पूर्वपदावधारणेन सूत्रं व्याचष्टे;मत्यादयः समाख्यातास्त एवेत्यवधारणात् । संगृह्येते कदाचिन्न मनःपर्यायकेवले ॥३॥ नियमेन तयोः सम्यग्भावनिर्णयतः सदा । मिथ्यात्वकारणाभावाद्विशुद्धात्मनि सम्भवात्॥४॥ दृष्टिचारित्रमोहस्य क्षये वोपशमेऽपि वा । मनःपर्ययविज्ञानं भवन्मिथ्या न युज्यते ॥ ५॥ सर्वघातिक्षयेऽत्यन्तं केवलं प्रभवत्कथम् । मिथ्या संम्भाव्यते जातु विशुद्धिं परमं दधत् ॥६॥ मतिश्रुतावधिज्ञानत्रयं तु स्यात्कदाचन । मिथ्येति ते च निर्दिष्टा विपर्यय इहाङ्गिनाम् ॥७॥ स च सामान्यतो मिथ्याज्ञानमत्रोपवर्ण्यते । संशयादिविकल्पानां त्रयाणां संगृहीयते ॥८॥ समुच्चिनोति चस्तेषां सम्यकत्वं व्यावहारिकम् । मुख्यं च तदनुक्तौ तु तेषां मिथ्यात्वमेव हि९ ते विपर्यय एवेति सूत्रे चेन्नावधार्यते । चशब्दमन्तरेणापि सदा सम्यक्त्वमत्त्वतः ॥१०॥ • मिथ्याज्ञानविशेषः स्यादासिन्पक्षे विपर्ययम् । संशयाज्ञानभेदस्य चशब्देन समुच्चयः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org