________________
२५४ तत्त्वार्थश्लोकवार्तिके
[सू० ३० ... निरुपयोगस्यानेकस्य ज्ञानस्य सहभाववचनसामर्थ्यात् सोपयोगस्य क्रमभावः क्षायोपशमिकस्येत्युक्तं भवति । तथाच नार्थस्य हानिः क्रमभाविज्ञानावबोधकस्य सम्भाव्यते । अत्रापराकूतमनूद्य निराकुर्वन्नाह;मोपयोगौ सह स्यातामित्यार्याः ख्यापयन्ति ये । दर्शनज्ञानरूपौ तौ न तु ज्ञानात्मकाविति ७ ज्ञानानां सहभावाय तेषामेतद्विरुद्ध्यते । क्रमभावि च यज्ज्ञानमिति युक्तं ततो न तत् ॥८॥
यदापि क्रमभावि च यज्ज्ञानमिति समन्तभद्रखामिवचनमन्यथा व्याचक्षते विरोधपरिहारार्थ तदापि दोषमुद्भावयति;
शब्दसंसृष्टविज्ञानापेक्षया वचनं तथा । यस्मादुक्तं तदेवायः स्याद्वादनयसंस्थितम् ॥९॥ इति व्याचक्षते ये तु तेषां मत्यादिवेदनं । प्रमाणं तत्र नेष्टं स्यात्ततः सूत्रस्य बाधनम् ॥१०॥
तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनमित्यनेन केवलस्य क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतमित्यनेन च श्रुतस्यागमस्य प्रमाणान्तरवचनमिति व्याख्याने मतिज्ञानस्यावधिमनःपर्यययोश्च नात्र प्रमाणत्वमुक्तं स्यात् । तथा च ‘मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानं' 'तत्प्रमाणे' इति ज्ञानपंचकस्य प्रमाणद्वयरूपत्वप्रतिपादकसूत्रेण बाधनं प्रसज्येत । यदा तु मत्यादिज्ञानचतुष्टयं क्रमभावि केवलं च युगपत्सर्वभावि प्रमाणं स्याद्वादेन प्रमाणेन सकलादेशिना तयोश्च विकलादेशिभिः संस्कृतं सकलविप्रतिपत्तिनिराकरणद्वारेणागतमिति व्याख्यायते तदा सूत्रबाधा परिहृता भवत्येव । ननु परव्याख्यानेऽपि न सूत्रबाधा क्रमभावि चेति चशब्दान्मतिज्ञानस्यावधिमनःपर्यययोश्च संग्रहादित्यत्र दोषमाह;
चशब्दासंग्रहात्तस्य तद्विरोधो न चेत्कथम् । तस्य क्रमेण जन्मेति लभ्यते वचनाद्विना॥११॥ क्रमभावि स्याद्वादनयसंस्कृतं चशब्दान्मत्यादिज्ञानं क्रमभावीति न व्याख्यायते यतस्तस्य क्रमभावित्वं वचनाद्विना न लभ्येत । किं तर्हि स्याद्वादनयसंस्कृतं । यत्तु श्रुतज्ञानं क्रमभावि चशब्दादक्रमभावि च मत्यादिज्ञानमिति व्याख्यानं क्रियते सूत्रबाधापरिहारस्यैवं प्रसिद्धेरिति चेत् , नैवमितिवचनात् सूत्रान्मत्यादिज्ञानमक्रमभाविप्रकाशनाद्विना लब्धुमशक्तेः ।
ननु बह्वादिसूत्रं मतिज्ञानयोगपद्यप्रतिपादकं तावदस्तीति शंकामुपदर्य प्रत्याचष्टे;बह्वाधवग्रहादीनामुपदेशात्सहोद्भवः । ज्ञानानामिति चेनैवं सूत्रार्थानवबोधतः ॥ १२ ॥ बहुष्वर्थेषु तत्रैकोवग्रहादिरितीष्यते । तथाच न बहूनि स्युः सहज्ञानानि जातुचित् ॥ १३ ॥ कथमेवमिदं सूत्रमेकस्य ज्ञानस्यैकत्र सहभावं प्रकाशयन्न विरुध्यते इति चेदुच्यतेशक्त्यर्पणात्तु तद्भावः सहेति न विरुध्यते । कथंचिदक्रमोद्भूतिः स्याद्वादन्यायवेदिनाम् ॥१४॥
क्षायोपशमिकज्ञानानां हि खावरणक्षयोपशमयोगपद्यशक्तेः सहभावोऽस्त्येकत्रात्मनि योग इति कथञ्चिदक्रमोत्पत्तिर्न विरुध्यते सूत्रोक्ता स्याद्वादन्यायविदां । सर्वथा सहभावयोरनभ्युपगमाच्च न प्रतीतिविरोधः शत्यात्मनैव हि सहभावो नोपयुक्तात्मनानुपयुक्तात्मना वा सहभावो न शक्त्यात्मनापीति प्रतीतिसिद्धं । सहोपयुक्तात्मनापि रूपादिज्ञानपंचकप्रादुर्भावमुपयन्तं प्रत्याह;
शष्कुलीभक्षणादौ तु रसादिज्ञानपंचकम् । सकृदेव तथा तत्र प्रतीतेरिति यो वदेत् ॥१५॥ तस्य तत्स्मृतयः किन्न सह स्युरविशेषतः । तत्र तादृक्षसंवित्तेः कदाचित्कस्यचित्कचित् ॥१६ सर्वस्य सर्वदात्वे तद्रसादिज्ञानपंचकम् । सहोपजायते नैव स्मृतिवत्तत्क्रमेक्षणात् ॥ १७ ॥ क्रमजन्म कचिद् दृष्ट्वा स्मृतीनामनुमीयते । सर्वत्र क्रमभावित्वं यद्यन्यत्रापि तत्समं ॥१८॥ पंचभिर्व्यवधानं तु शष्कुलीभक्षणादिषु । रसादिवेदनेषु साद्यथा तद्वत्स्मृतिष्वपि ॥ १९ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org