________________
·
प्रथमोऽध्यायः ।
२५३
ज्ञानस्यावरणं याति प्रक्षयं परमं कचित् । प्रकृष्यमाणहानित्वाद्धेमादौ श्यामिकादिवत् ||३२|| ततोऽनावरणं स्पष्टं विप्रकृष्टार्थगोचरं । सिद्धमक्रमविज्ञानं सकलंकमहीयसाम् ॥ ३३ ॥ यत एवमतीन्द्रियार्थपरिच्छेदन समर्थ प्रत्यक्षमसर्वज्ञवादिनं प्रति सिद्धम् ॥
ततः सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । भूताद्यशेषविज्ञानभाजश्वेच्चोदनाबलात् ||३४॥ किन्न क्षीणावृतिः सूक्ष्मानर्थान्द्रष्टुं क्षमः स्फुटं । मंदज्ञानानतिक्रामन्नातिशेते परान्नरान् ||३५|| यदि परैरभ्यधायि । " दशहस्तान्तरं व्योम्नि यो न नामात्र गच्छति । न योजनमसौ गंतुं शक्तोंभ्यासशतैरपि" इत्यादि । तदपि न युक्तमित्याह ;
लङ्घनादिकदृष्टान्तः स्वभावान्न विलंघने । नाविर्भावे स्वभावस्य प्रतिषेधः कुतश्चन ॥ ३६ ॥ स्वाभाविकी गतिर्न स्यात्प्रक्षीणाशेषकर्मणः । क्षणादूर्द्धं जगच्चूड़ामणौ व्योम्नि महीयसि ||३७|| वीर्यान्तरायविच्छेदविशेषवशतोपरा । बहुधा केन वार्येत नियतं व्योमलङ्घनात् ॥ ३८ ॥ ततो यदुपहसनमकारि भट्टेन । " यैरुक्तं केवलज्ञानमिन्द्रियाद्यनपेक्षिणः । सूक्ष्मातीतादिविषयं सूक्तं जीवस्य तैरदः" इति, तदपि परिहृतमित्याह ; -
ततः समन्ततश्चक्षुरिन्द्रियाद्यनपेक्षिणः । निःशेषद्रव्यपर्यायविषयं केवलं स्थितं ॥ ३९ ॥ तदेवं प्रमाणतः सिद्धे केवलज्ञाने सकलकुवाद्यविषये युक्तं तस्य विषयप्ररूपणं मतिज्ञानादिवत् ॥ एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ॥ ३० ॥
कान्प्रतीदं सूत्रमित्यावेदयति ;
एकत्रात्मनि विज्ञानमेकमेवैकदेति ये । मन्यन्ते तान्प्रति प्राह युगपज्ज्ञानसम्भवम् ॥ १ ॥
अत्रैकशब्दस्य प्राथम्यवचनत्वात्प्राधान्यवचनत्वाद्वा क्वचिदात्मनि ज्ञानं एकं प्रथमं प्रधानं वा संख्यावचनत्वादेकसंख्यं वा वक्तव्यं । तच किं द्वे च ज्ञाने किं युगपदेकत्र त्रीणि चत्वारि वा ज्ञानानि कानीत्याह;
प्राच्यमेकं मतिज्ञानं श्रुतिभेदानपेक्षया । प्रधानं केवलं वा स्यादेकत्र युगपन्नरि ॥ २ ॥ द्वेधा मतिश्रुते स्यातां ते चावधियुते क्वचित् । मन:पर्ययज्ञाने वा त्रीणि येन युते तथा || ३ ||
प्रथमं मतिज्ञानं क्वचिदात्मनि श्रुतभेदस्य तत्र सतोऽप्यपरिपूर्णत्वेनानपेक्षणात् प्रधानं केवलमेतेनैकसंख्यावाच्यप्येकशब्दो व्याख्यातः स्वयमिष्टस्यैकस्य परिग्रहात् । पंचानामन्यतमस्यानिष्टस्यासम्भवात् । क्वचित्पुनद्वै मतिश्रुते कचित्ते वावधियुते मनःपर्यययुते चेति त्रीणि ज्ञानानि संभवन्ति क्वचित्ते एवावधिमनः पर्ययद्वयेन युते चत्वारि ज्ञानानि भवन्ति । पंचैकस्मिन्न भवन्तीत्याह; —
चतुर्भ्य इति व्याप्तवादो वचनतः पुनः । पंचैकत्र न विद्यन्ते ज्ञानान्येतानि जातुचित् ||४|| क्षायोपशमिकज्ञानैः सहभावविरोधात्क्षायिकस्येत्युक्तं पंचानामेकत्रासहभवनमन्यत्र ॥
भाज्यानि प्रविभागेन स्थाप्यानीति निबुद्ध्यतां । एकादीन्येकदैकत्रानुपयोगानि नान्यथा ॥ ५ ॥ सोपयोगस्यानेकस्य ज्ञानस्यैकत्र यौगपद्यवचने हि सिद्धान्तविरोधः सूत्रकारस्य न पुनरनुपयोगस्य सह द्वावुपयोगौ न स्त इति वचनात् ॥ सोपयोगयोर्ज्ञानयोः सह प्रतिषेधादिति निवेदयन्ति ;क्षायोपशमिकं ज्ञानं सोपयोगं क्रमादिति । नार्थस्य व्याहतिः काचित्क्रमज्ञानाभिधायिनः ६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org