________________
तत्त्वार्थश्लोकवार्तिके
[सू० २९
धर्मादन्यत्परिज्ञानं विप्रकृष्टमशेषतः । येन तस्य कथं नाम धर्मज्ञत्वनिषेधनम् ॥ २१ ॥ सर्वानतींद्रियान् वेत्ति साक्षाद्धर्ममतीन्द्रियम् । प्रमातेति वदन्यायमतिक्रामति केवलं ||२२|| यथैव हि हेयोपादेयतत्त्वं साभ्युपायं स वेत्ति न पुनः सर्वकीटसंख्यादिकमिति वदन्यायमतिक्रामति केवलं तत्संवेदने सर्वसंवेदनस्य न्यायप्राप्तत्वात् । तथा धर्मादन्यानतीन्द्रियान्सर्वानर्थान्विजानन्नपि धर्मं साक्षान्न स वेत्तीति वदन्नपि तत्साक्षात्करणे धर्म्मस्य साक्षात्करणसिद्धेरतीन्द्रियत्वेन जात्यन्तरत्वाभावात् । - यस्य यज्जातीयाः पदार्थाः प्रत्यक्षास्तस्यासत्यावरणेऽपि प्रत्यक्षा यथा घटसमानजातीय भूतलप्रत्यक्षत्वे घटः । प्रत्यक्षाश्च कस्यचिद्विवादापन्नस्य धर्मसजातीयाः परमाण्वादयो देशकालखभावविप्रकृष्टा इति न्यायस्य सुव्यवस्थितत्वात् । ततो नेदं सूक्तं मीमांसकस्य । “धर्मज्ञत्वनिषेधस्तु केवलोऽत्रोपयुज्यते । सर्वमन्यद्विजानंस्तु पुरुषः केन वार्यते" इति । नत्ववधीरणानादरः । तत्सर्वमन्यद्विजानंस्तु पुरुषः केन वार्यत इति । तत्र नो नातितरामादरः । परमार्थतस्तु न कथमपि पुरुषस्यातीन्द्रियार्थदर्शनातिशयः सम्भाव्यते सातिशयानामपि प्रज्ञामेधादिभिः स्तोकस्तोकान्तरत्वेनैव दर्शनात् । तदुक्तं "येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेनातीन्द्रियज्ञानदर्शनात् ॥” इति कश्चित्तं प्रति विज्ञानस्य परमप्रकर्षगमनसाधनमाह; — ज्ञानं प्रकर्षमायाति परमं कचिदात्मनि । तारतम्याधिरूढत्वादाकाशे परिमाणवत् ॥ २३ ॥ तारतम्याधिरूढत्वमसंशयप्राप्तत्वं तद्विज्ञानस्य सिद्ध्यत् क्वचिदात्मनि परमप्रकर्षप्राप्तिं साधयति, तया तस्य व्याप्तत्वात्परिमाणवदाकाशे ॥
२५२
अत्र यद्यक्षविज्ञानं तस्य साध्यं प्रभाष्यते । सिद्धसाधनमेतत्स्यात्परस्याप्येवमिष्टितः ॥ २४ ॥ लिङ्गागमादिविज्ञानं ज्ञानसामान्यमेव वा । तथा साध्यं वदंस्तेन दोषं परिहरेत्कथम् ।। २५ ।। अक्रमं करणातीतं यदि ज्ञानं परिस्फुटम् । धर्मीष्येत तदा पक्षस्याप्रसिद्ध विशेष्यता ।। २६ ।। स्वरूपासिद्धता हेतोराश्रयासिद्धतापि च । तन्नैतत्साधनं सम्यगिति केचित्प्रवादिनः ।। २७ ।। अत्र प्रचक्ष्महे ज्ञानसामान्यं धर्मि नापरम् । सर्वार्थगोचरत्वेन प्रकर्षं परमं व्रजेत् ॥ २८ ॥ इति साध्यमनिच्छन्तं भूतादिविषयं परं । चोदनाज्ञानमन्यद्वा वादिनं प्रति नास्तिकम् ।।२९।। न सिद्धसाध्यतैवं स्यान्नाप्रसिद्ध विशेष्यता | पक्षस्य नापि दोषो ·(१) ॥ ३० ॥
स हेतोः क्वचित्प्रदर्शितः । नह्यत्राक्षविज्ञानं परमं प्रकर्ष यातीति साध्यते नापि लिङ्गागमादिविज्ञानं येन सिद्धसाध्यतानाम पक्षस्य दोषो दुःपरिहारः स्यात् । परस्यापीन्द्रियज्ञाने लिङ्गादिज्ञाने च परमप्रकर्षगमनस्येष्टत्वात् । नाप्यक्रमं करणातीतं परिस्फुटं ज्ञानं तथा साध्यते यतस्तस्यैव धर्मिणोरप्रसिद्ध विशेष्यता रूपादेः सिद्धिश्च हेतुर्धर्मिणोसिद्धौ तद्धर्मस्य साधनस्यासम्भवादाश्रयासिद्धश्च भवेत् । किं तर्हि ज्ञानसामान्यं धर्मि ? न च तस्य सर्वार्थगोचरत्वेन परमप्रकर्षमात्रे साध्ये सिद्धसाध्यता भूतादिविषयं चोदनाज्ञानमनुमानादिज्ञानं वा प्रकृष्टमनिच्छन्तं वादिनं नास्तिकं प्रति प्रयोगात् । मीमांसकं प्रति तत्प्रयोगे सिद्धसाधनमेव भूताद्यशेषार्थगोचरस्य चोदनाज्ञानस्य परमप्रकर्षप्राप्तस्य तेनाभ्युपगतत्वादिति चेन्न, तं प्रति प्रत्यक्षसामान्यस्य धर्मित्वात्तस्य तेन सर्वार्थविषयत्वेनात्यन्तप्रकृष्टस्यानभ्युपगमात् । न चैवमप्रसिद्ध विशेष्यादिदोषः पक्षादेः सम्भवति केवलं मीमांसकान्प्रति यदैतत्साधनं तदा प्रत्यक्षं विशदं सूक्ष्माद्यर्थविषयं साधयत्येवानवद्यत्वात् । यदा तु नास्तिकं प्रति सर्वार्थगोचरं ज्ञानसामान्यं साध्यते तदा तस्य करणक्रमव्यवधानातिवर्तित्वं स्पष्टत्वं च कथं सिद्ध्यति इत्याह ;
तच्च सर्वार्थविज्ञानं पुनः सावरणं मतं । अदृष्टत्वाद्यथा चक्षुस्तिमिरादिभिरावृतं ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
1010
www.jainelibrary.org