________________
प्रथमोऽध्यायः ।
२५१ सिद्धेः । प्रकृष्यमाणात्तज्ज्ञानावरणहानित्वान्माणिक्याद्यावरणहानिवत् । कथमावरणहानेः प्रकृष्यमाणत्वे सिद्धेऽपि क्वचिद्विज्ञानस्य प्रकृष्यमाणत्वं सिद्ध्यतीति चेत् प्रकाशात्मकत्वात् । यद्धि प्रकाशात्मकं तत्खावरणहानिप्रकर्षे प्रकृष्यमाणं दृष्टं यथा चक्षुः । प्रकाशात्मकं च विवादाध्यासितं ज्ञानमिति खविषये प्रकृष्यमाणं सिद्ध्यत् , तस्य परमप्रकर्षगमनं साधयति । यत्तत्परमप्रकर्षप्राप्तं क्षायोपशमिक ज्ञानं स्पष्टं तन्मनःपर्यय इत्युक्तं । यथा चापि मतिश्रुतानि परमप्रकर्षभाञ्जि क्षायोपशमिकानीति दर्शयन्नाह;
क्षेत्रद्रव्येषु भूयेषु यथा च विविधस्थितिः । स्पष्टा या परमा तद्वदस्य स्वार्थे यथोदिते ॥६॥ यथा चेन्द्रियजज्ञानं विषयेष्वतिशायनात् । स्वेषु प्रकर्षमापन्नं तद्विद्भिर्विनिवेदितम् ॥ ७॥ मतिपूर्व श्रुतं यद्वदस्पष्टं सर्ववस्तुषु । स्थितं प्रकृष्यमाणत्वात्पर्यंत प्राप्य तत्त्वतः ॥ ८॥ मनःपर्ययविज्ञान तथा प्रस्पष्टभासनं । विकलाध्यक्षपर्यन्तं तथा सम्यक्परीक्षितं ॥९॥ प्रकृष्यमाणता त्वक्षज्ञानादेः संप्रतीयते । इति नासिद्धता हेतोने चास्य व्यभिचारिता ॥१०॥ साध्ये सत्येव सद्भावादन्यथानुपपत्तितः । स्वेष्टहेतुवदित्यस्तु ततः साध्यविनिश्चयः ॥ ११ ॥ दृष्टेष्टबाधनं तस्यापह्नवे सर्ववादिनां । सर्वथैकान्तवादेषु तद्वादेऽपीति निर्णयः ॥ १२ ॥
सर्वद्रव्यपर्यायेषु केवलस्य ॥ २९ ॥ ननु असिद्धत्वात्केवलस्य विषयनिबन्धकथनं न युक्तमित्याशंकायामिदमाह;केवलं सकलज्ञेयव्यापि स्पष्टं प्रसाधितम् । प्रत्यक्षमक्रमं तस्य निबन्धो विषयेष्विह ॥ १॥ बोध्यो द्रव्येषु सर्वेषु पयोयेषु च तत्त्वतः । प्रक्षीणावरणस्यैव तदाविभोवनिश्चयात् ॥२॥ आत्मद्रव्यं ज्ञ एवेष्टः सर्वज्ञः परमः पुमान् । कैश्चित्तद्यतिरिक्तार्थाभावादित्यपसारितं ॥३॥ द्रव्येष्विति बहुत्वस्य निर्देशात्तत्प्रसिद्धितः । वर्तमानेऽस्तु पर्याये ज्ञानी सर्वज्ञ इत्यपि ॥४॥ पर्यायेष्विति निर्देशादवयवस्य प्रतीतितः । सर्वथाभेदतत्त्वस्य यथेति प्रतिपादनात् ॥ ५॥ तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यतां । कीटसंज्ञापरिज्ञानं तस्य नात्रोपयुज्यते ॥६॥ इत्येतच्च व्यवच्छिन्नं सर्वशब्दप्रयोगतः । तदेकस्याप्यविज्ञाने कार्णां शिष्यसाधनं ॥ ७॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकं । सर्वज्ञतामितं निष्टं तज्ज्ञानं सर्वगोचरम् ॥ ८॥ उपेक्षणीयतत्त्वस्य हेयादिभिरसंग्रहात् । न ज्ञानं न पुनस्तेषां न ज्ञानेऽपीति केचन ॥ ९॥ तदसद्वीतरागाणामुपेक्षत्वेन निश्चयात् । सर्वार्थानां कृतार्थत्वात्तेषां कचिदवृत्तितः ॥१०॥ विनेयापेक्षया हेयमुपादेयं च किंचन । सोपायं यदि तेऽप्याहुस्तदोपेक्ष्यं न विद्यते ॥ ११ ॥ निःशेष संपरं तावदुपेयं सम्मतं सताम् । हेयं जन्मजरामृत्युकीर्ण संसरणं सदा ॥ १२ ॥ अनयोः कारणं तत्स्याद्यदन्यत्तन्न विद्यते । पारंपर्येण साक्षाच वस्तूपेक्षं ततः किमु ॥ १३ ॥ द्वेषो हानमुपादानं रागस्तद्वयवर्जनं । ख्यातोपेक्षेति हेयाद्या भावास्तद्विषयादिमे ॥१४॥ इति मोहाभिभूतानां व्यवस्था परिकल्प्यते । हेयत्वादिव्यवस्थानासम्भवात्कुत्रचित्तव ॥१५॥ हातुं योग्यं मुमुक्षूणां हेयतत्त्वं व्यवस्थितं । उपादातुं पुनर्योग्यमुपादेयमितीयते ॥ १६॥ उपेक्षन्तु पुनः सर्वमुपादेयस्य कारणम् । सर्वोपेक्षास्वभावत्वाचारित्रस्य महात्मनः ॥ १७ ॥ तत्त्वश्रद्धानसंज्ञानगोचरत्वं यथा दधत् । तद्भाव्यमानमाम्नातममोघमघघातिभिः ॥ १८ ॥ मिथ्यादृग्बोधचारित्रगोचरत्वेन भावितम् । सर्व हेयस्य तत्त्वस्य संसारस्यैव कारणं ॥ १९ ॥ तदवश्यं परिज्ञेयं तत्वार्थमनुशासता । विनेयानिति बोद्धव्यं धर्मवत्सकलं जगत् ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org