________________
२५०
तत्त्वार्थश्लोकवार्तिके
रूपिष्ववधेः ॥ २७ ॥
किमर्थमिदं सूत्रमित्याह ;
प्रत्यक्षस्यावधेः केषु विषयेषु निबन्धनम् । इति निर्णीतये प्राह रूपिष्वित्यादिकं वचः ॥ १ ॥ रूपं पुद्गलसामान्यगुणस्तेनोपलक्ष्यते । स्पर्शादिरिति तद्योगात् रूपिणीति विनिश्चयः ॥ २ ॥ तेष्वेव नियमो ऽसर्व पर्यायेष्ववधेः स्फुटम् । द्रव्येषु विषयेष्वेवमनुवृत्तिर्विधीयते ॥ ३ ॥
रूपं मूर्तिरित्येके, तेषामसर्वगतद्रव्यपरिमाणं मूर्तिः स्पर्शादिर्वा मूर्तिरिति मतं स्यात् । प्रथमपक्षे जीवखरूपत्वप्रसक्तिरसर्वगतद्रव्यपरिमाणलक्षणाया मूर्तेस्तत्र भावात् । सर्वगतत्वादात्मनस्तद्भाव इति चेन्न शरीरपरिमाणानुविधायिनस्तस्य प्रसाधनात् । स्पर्शादिमूर्तिरित्यस्मिंस्तु पक्षे रूपं पुद्गलसामान्यगुणस्तेन स्पर्शादिरूपं लक्ष्यते इति तद्योगाद्द्रव्याणि रूपीणि मूर्तिमन्ति कथितानि भवन्त्येव तथेह द्रव्येष्वसर्व पर्यायेषु इति निबन्ध इति चानुवर्त्तते । तेनेदमुक्तं भवति मूर्तिमत्सु द्रव्येष्वसर्वपर्यायेषु विषयेषु अवधेर्निबन्ध इति । कुत एवं नान्यथेत्याह ;
+--
[सू० २८
स्वशक्तिवशतोऽसर्वपर्यायेष्वेव वर्त्तनम् । तस्य नानागतातीतानन्तपर्याययोगिषु ॥ ४ ॥ पुलेषु तथाकाशादिष्वमूर्तेषु जातुचित् । इति युक्तं सुनिर्णीतासम्भवद्भाधकत्वतः ॥ ५ ॥ अत्रासर्वपर्यायरूपद्रव्यज्ञानावरणक्षयोपशम विशेषावधेः स्वशक्तिस्तद्वशात्तस्यासर्व पर्यायेष्वेव पुद्गलेषु वृत्तिर्नातीताद्यनन्तपर्यायेषु नाप्यमूर्तेष्वाकाशादिषु इति युक्तमुत्पश्यामः । सुनिर्णीतासम्भवद्बाधकत्वान्मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्व पर्यायेष्वित्यादिवत् ॥
तदनन्तभागे मनःपर्ययस्य ॥ २८ ॥
किमर्थमिदमित्याह;—–
क मनःपर्ययस्यार्थे निबन्ध इति दर्शयत् । तदित्याद्याह सत्सूत्रमिष्टसंग्रह सिद्धये ॥ १ ॥ कस्य पुनस्तच्छब्देन परामर्शो यदनन्तभागेऽसर्व पर्यायेषु निबंधो मनःपर्ययस्येत्याह;परमावधिनिर्णीते विषयेऽनन्तभागताम् । नीते सर्वावधेज्ञेयो भागः सूक्ष्मोऽपि सर्वतः ॥ ५ ॥ एतस्यानन्तभागे स्याद्विषये सर्वपर्यये । व्यवस्थर्जुमतेरन्यमनःस्थे प्रगुणे ध्रुवम् ॥ ३ ॥ अमुष्यानन्तभागेषु परमं सौक्ष्म्यमागते । स्यान्मनः पर्ययस्यैवं निबन्धो विषयेखिले ॥ ४ ॥
तच्छब्दोऽत्रावधिविषयं परामृशति न पुनरवधिं विषयप्रकरणात् । स च मुख्यस्य परामर्श्यते गौणस्य परामर्शे प्रयोजनाभावात् । मुख्यस्य परमावधिविषयस्य सर्वतो देशावधिविषयात्सूक्ष्मस्यानंतभागी - कृतस्यानन्तो भागः सर्वावधिविषयस्तस्य सम्पूर्णेन मुख्येन सर्वावधिपरिच्छेद्यत्वात् । तत्रर्जुमतेर्निबन्धो बोद्धव्यस्तस्य मनःपर्ययप्रथमव्यक्तित्वात्सामर्थ्यादृजुमतिविषयस्यानन्तभागे विषये विपुलमतेर्निबन्धोऽवसीयते तस्य परमनः पर्ययत्वादसर्व पर्यायग्रहणानुवृत्तेर्नास्तीति नानाद्यनन्तपर्यायाक्रान्ते द्रव्ये मनःपर्ययस्य प्रवृत्तिस्तद्ज्ञानावरणक्षयोपशमासम्भवात् । अतीतानागतवर्त्तमानानन्तपर्यायात्मकवस्तुनः सकलज्ञानावरणक्षयविजृंभितकेवलज्ञानपरिच्छेद्यत्वात् ।
Jain Education International
कथं पुनस्तदेवंविधविषयं मन:पर्ययज्ञानं परीक्ष्यते इत्याह ;
क्षायोपशमिकं ज्ञानं प्रकर्षं परमं व्रजेत् । सूक्ष्मे प्रकर्षमाणत्वादर्थे तदिदमीरितम् ॥ ५ ॥ न हि क्षायोपशमिकस्य ज्ञानस्य सूक्ष्मेऽर्थे प्रकृष्यमाणत्वमसिद्धं तज्ज्ञानावरणहानेः प्रकृष्यमाणत्व
For Private & Personal Use Only
www.jainelibrary.org