________________
•
प्रथमोऽध्यायः ।
२४९
ततः खरूपसिद्धिमिच्छता सत्येतरस्थितिरङ्गीकर्त्तव्या साध्यसाधनत्वादिरपि स्वीकरणीय इति बाह्यार्थालम्बनाः प्रत्ययाः केचित्सन्त्येव, सर्वथा तेषां निरालम्बनत्वस्य व्यवस्थानायोगात् ॥
अक्षज्ञानं बहिर्वस्तु वेति न स्मरणादिकं । इत्युक्तं तु प्रमाणेन वाह्यार्थस्यास्य साधनात् ||१४|| श्रुतं तु बाह्यार्थालम्बनं । कथमित्युच्यते ;
---
श्रुतेनार्थ परिच्छिद्य वर्त्तमानो न बाध्यते । अक्षजेनैव तत्तस्य बाह्यार्थालंबना स्थितिः ||१५|| सामान्यमेव श्रुतं प्रकाशयति विशेषमेव परस्परनिरपेक्षमुभयमेवेति वाशंकामपाकरोतिः - अनेकान्तात्मकं वस्तु संप्रकाशयति श्रुतं । सद्बोधत्वाद्यथाक्षोत्थबोध इत्युपपत्तिमत् ॥ १६ ॥ नयेन व्यभिचारश्चेन्न तस्य गुणभावतः । स्वगोचरार्थधर्माण्यधर्मार्थप्रकाशनात् ॥ १७ ॥ श्रुतस्यावस्तुवेदित्वे परप्रत्यायनं कुतः । संवृतेश्वथैवैषा परमार्थस्य निश्चितेः ।। १८ ॥ ननु स्वत एव परमार्थव्यवस्थितेः कुतश्चिदविद्याप्रक्षयान पुनः श्रुतविकल्पात् तदुक्तशास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते । अनागमविकल्पा हि स्वयं विद्योपवर्त्तत इति तदयुक्तं, परेष्टतत्त्वस्याप्रत्यक्षविषयत्वात्तद्विपरीतस्यानेकान्तात्मनो वस्तुनः सर्वदा परस्याप्यवभासनात् । लिङ्गगस्य त्वस्याङ्गीकरणीयस्वात् । न च तत्र लिंगं वास्तवमस्ति तस्य साध्याविनाभावित्वेन प्रत्यक्षत एव प्रतिपत्तुमशक्तेरनुमानान्तर - स्वात् प्रतिपत्तावनवस्थाप्रसंगात्, प्रवचनादपि नेष्टतत्त्वव्यवस्थितिः तस्य तद्विषयत्वायोगादिति कथमपि तद्गतेरभावात् खतस्तत्त्वावभासनासम्भवात् । तथा चोक्तं । " प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिङ्गगम्यं न तदर्थलिङ्गं । वाचो न वा तद्विषये न योगः का तद्गतिः कष्टमसृज्यतान्ते ||" इति तत एव वेद्यवेदक - भावः प्रतिपाद्यप्रतिपादकभावो वा न परमार्थतः किन्तु संवृत्यैवेति चेत्, तदिह महाधार्थं येनायं त्रिष्टिकमपि जपेत् । तथोक्तं । “संवृत्या साधयंस्तत्त्वं जये धार्थेन डिंडिकं । मत्या मतविलासिन्या राजविप्रोपदेशिनं ॥” इति । कथं वा संवृत्यसंवृत्योः विभागं बुद्ध्येत् ? संवृत्येति चेत्, सा चानिश्चिता तयैव किञ्चिन्निश्चिनोतीति कथमनुन्मत्तः, सुदूरमपि गत्वा स्वयं किञ्चिनिश्चिन्वन् परं च निश्चाययन्वेद्यवेदकभावं प्रतिपाद्यप्रतिपादकभावं च परमार्थतः स्वीकर्तुमर्हत्येव, अन्यथोपेक्षणीयत्वाप्रसंगात् । तथा च वस्तुविषयमध्यक्षमिव श्रुतं सिद्धं सद्बोधवत्त्वान्यथानुपपत्तेः । तर्हि द्रव्येष्वेव मतिश्रुतयोर्निबंधस्तु तेषामेव वस्तुत्वात् पर्यायाणां परिकल्पितत्वात् पर्यायेष्वेव वा द्रव्यस्यावस्तुत्वादि च मन्यमानं प्रत्याह; - सर्वपर्यायमुक्तानि न स्युर्द्रव्याणि जातुचित् । सद्वियुक्ताश्व पर्यायाः शशशृंगोच्चतादिवत् १९ न सन्ति सर्व पर्यायमुक्तानि द्रव्याणि सर्वपर्यायानिर्मुक्तत्वाच्छशशृङ्गवत् । न सन्त्येकान्तपर्यायाः सर्वथा द्रव्यमुक्तत्वाच्छशशृङ्गोच्चत्वादिवत् । ततो न तद्विषयत्वं मतिश्रुतयोः शङ्कनीयं प्रतीतिविरोधात् ॥ नाशेषपर्ययाक्रान्ततनूनि च चकासति । द्रव्याणि प्रकृतज्ञाने तथा योग्यत्वहानितः ॥ २० ॥
1
ननु च यदि द्रव्याण्यनंतपर्यायाणि वस्तुत्वं बिभ्रति तदा मतिश्रुताभ्यां तद्विशेषाभ्यां भवितव्यमन्यथा तयोरवस्तुविषयत्वापत्तेरिति न चोद्यं, तथा योग्यतापायात् । न हि वस्तु सत्तामात्रेण ज्ञानविषयत्वमुपयाति । सर्वस्य सर्वदा सर्वपुरुषज्ञानविषयत्वप्रसङ्गात् । किं तर्हि वस्तुनः परिच्छित्तौ कारणमित्याह ;
ज्ञानस्यार्थपरिच्छित्तौ कारणं नान्यदीक्ष्यते । योग्यतायास्तदुत्पत्तिः सारूप्यादिषु सत्स्वपि २१ तस्मादुत्पद्यते ज्ञानं येन च सरूपं तस्य ग्राहकमित्ययुक्तं, समानार्थसमनन्तरप्रत्ययस्य समनंतरप्रत्ययस्य तेनाग्रहणात् । तग्रहणयोग्यतापायात्तस्याग्रहणे योग्यतैव विषयग्रहणनिमित्तं वेदनस्येत्यायातम् । योग्यता पुनर्वेदनस्य वावरणविच्छेदविशेष एवेत्युक्तप्रायम् ॥
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org