________________
२४८ तत्त्वार्थश्लोकवार्तिके
[सू० २६ . एतेष्वसर्वपर्यायेष्वित्युक्तेरिष्टनिर्णयात् । तथानिष्टौ तु सर्वस्य प्रतीतिव्याहतीरणात् ॥ ७ ॥ मतिश्रुतयोर्ये तावद्वाह्यार्थानालम्बनत्वमिच्छन्ति तेषां प्रतीतिव्याहतिं दर्शयन्नाह;मत्यादिप्रत्ययो नैव बाह्यार्थालम्बनं सदा । प्रत्ययत्वाद्यथा स्वप्नज्ञानमित्यपरे विदुः ॥८॥ तदसत्सर्वशून्यत्वापत्तेर्बाह्यार्थवित्तिवत् । स्वान्यसंतानसंवित्तेरभावात्तदभेदतः ॥९॥
मतिश्रुतप्रत्ययाः न बाह्याथालंबनाः सर्वदा प्रत्ययत्वात्स्वप्नप्रत्ययवदिति योगाचारस्तदयुक्तं, सर्वशून्य." त्वानुषंगात् । बाह्यार्थसंवेदनवत्खपरसंतानसंवेदनासम्भवाद्राहकज्ञानापेक्षया खसन्तानस्य परसन्तानस्य च बाह्यत्वाविशेषात् । संवेदनं हि यदि किंचित् खस्मादर्थान्तरं परसन्तानं खसन्तानं वा पूर्वापरक्षणप्रवाहरूपमालम्बते । तदा घटाद्यर्थेन तस्य कोऽपराधः कृतः यतस्तमपि नालम्बते । अथ घटादिवत्खपरसन्तानमपि नालम्बत एव तस्य खसमानसमयस्य भिन्नसमयस्य वालंबनासम्भवात् । न चैवं खरूपसन्तानाभावः खरूपस्य खतो गतेः । नीलादेस्तु यदि खतो गतिस्तदा संवेदनत्वमेवेति स्वरूपमात्रपर्यवसिताः सर्वे प्रत्यया निरालम्बनाः सिद्धास्तत्कुतः सर्वशून्यत्वापत्तिरिति मतं तदसत् , वर्तमानसंवेदनात्स्वमनुभूयमानादन्यानि वपरसन्तानसंवेदनानि खरूपमात्रे पर्यवसितानीति निश्चेतुमशक्यत्वाद् विवादाध्यासितानि खरूपसन्तानज्ञानानि खरूपमात्रपर्यवसितानि ज्ञानत्वात्स्वसंवेदनवदित्यनुमानात्तथा निश्चय इति चेत् , तस्यानुमानज्ञानस्य प्रकृतसालम्बनत्वेऽनेनैव हेतोर्व्यभिचारात्खरूपमात्रपर्यवसितत्वे प्रकृतसाध्यस्यास्मादसिद्धेः । संवेदनाद्वैतस्यैवं प्रसिद्धेस्तथापि न सर्वशून्यत्वापत्तिरिति मन्यमानं प्रत्याह;
न चैवं सम्भवेदिष्टमद्वयं ज्ञानमुत्तमम् । ततोऽन्यस्य निराकर्तुमशक्तस्तेन सर्वथा ॥ १० ॥
यथैव हि सन्तानान्तराणि वसन्तानवेदनानि चानुभूयमानेन संवेदनेन सर्वथा विधातुं न शक्यन्ते । तथा प्रतिषिद्धमपि तद्धि तानि निराकुर्वदात्ममात्रविधानमुखेन वा तत्प्रतिषेधमुखेन वा निराकुर्यात् । प्रथमकल्पनायां दूषणमाह;
स्वतो न तस्य संवित्तिरस्य न स्यान्निराकृतिः। किमन्यस्य स्वसंवित्तिरन्यस्य स्थानिराकृतिः ११ स्वयं संवेद्यमानस्य कथमन्यैर्निराकृतिः । परैः संवेद्यमानस्य भवतां सा कथं मता ॥ १२ ॥
परैः संवेद्यमानं वेदनमस्तीति ज्ञातुमशक्तेस्तस्य निराकृतिरस्माकं मतेति चेत् , तर्हि तन्नास्तीति ज्ञातुमशक्तेस्तव्यवस्थितिः किन्न मता । ननु तदस्तीति ज्ञातुमशक्यत्वमेव । तन्नास्तीति ज्ञातुं शक्तिरितिचेत् , तन्नास्तीति ज्ञातुमशक्यत्वमेव । तदस्तीतिज्ञातुं शक्तिरस्तु विशेषाभावात् । यदि पुनस्तदस्तिनास्तीति वा ज्ञातुमशक्तेः संदिग्धमिति मतिस्तदापि कथं संवेदनाद्वैते सिद्ध्येदसंशयमिति चिन्त्यतांसंवेदनान्तरं प्रतिषेधमुखेननिराकरोतीति । द्वितीयकल्पनायां पुनरद्वैतवेदनासिद्धिदूरोत्सारितैव तत्प्रति. षेधज्ञानस्य द्वितीयस्याभावात् वयं तत्प्रतिषेधकरणाददोष इति चेत् , तर्हि वरूपविधिप्रतिषेधविषयमेकसंवेदनमित्यायातं । तथा चैकमेव वस्तु साध्यं साधनं वापेक्षातः कार्य कारणं च बाध्यं बाधकं चेत्यादि किन्न सिद्ध्येत् । विरुद्धधर्माध्यासादिति चेत् , तत एव संवेदनमेकं च पररूपविधिप्रतिषेधविषयं माभूत्वापेक्षाविधायकं परापेक्षया प्रतिषेधकमित्य विरोधे खकार्यापेक्षया कारणं खकारणापेक्षया कार्यमित्यविरोधोऽस्तु । अथ स्वतोऽन्यस्य कार्यस्य कारणस्य वा साध्यस्य साधकस्य वा सद्भावासिद्धेः कथं तदपेक्षा यतस्तत्कार्य कारणं बाध्यं बाधकं च साध्यं साधनं च स्यादिति ब्रूते तर्हि परस्य सद्भावासिद्धेः कथं तदपेक्षा यतस्तत्परस्य प्रतिषेधकं सुविधायकं वा स्यादित्युपहासास्पदं तत्त्वं सुगतेन भावितमित्याह;
न साध्यसाधनत्वादिर्न च सत्येतरस्थितिः । ते स्वसिद्धिरपीत्येतत्तत्त्वं सुगतभावितम् ॥ १३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org