________________
प्रथमोऽध्यायः।
२४७ पुलमतेस्तु कथमृजुमतिर्विशिष्यते ? ताभ्यामिति चेत्स्वविशुद्ध्याल्पया प्रतिपातेन चेति गम्यताम् । विपुलमत्यपेक्षयर्जुमतेरल्पविशुद्धित्वात्तत्वामिनामुपशान्तकषायाणामपि सम्भवत्प्रतिपतत्संयमगुणैकार्थसमवायिनः प्रतिपातसम्भवादिति प्रपंचितमस्माभिरन्यत्र ॥
विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ॥ २५ ॥ विशेष इत्यनुवर्तते । किमर्थमिदमुच्यते इत्याह;कुतोऽवधेर्विशेषः स्यान्मनःपर्ययसंविदः । इत्याख्यातुं विशुद्ध्यादिसूत्रमाह यथागमं ॥१॥ विशुद्धिरुक्ता क्षेत्रं परिच्छेद्याद्यधिकरणं स्वामीश्वरं विषयः परिच्छेद्यस्तैर्विशेषोऽवधिमनःपर्यययोर्विशेषः । कथमित्याह;भूयः सूक्ष्मार्थपर्यायविन्मनःपर्ययोऽवधेः । प्रभूतद्रव्य विषयादपि शुद्ध्या विशेष्यते ॥२॥ क्षेत्रतोऽवधिरेवातः परमक्षेत्रतामितः । स्वामिना त्ववधेः सः स्याद्विशिष्टः संयतप्रभुः ॥३॥ विषयेण च निःशेपरूपरूप्यर्थगोचरः । रूप्यर्थगोचरादेव तस्मादेतच वक्ष्यते ॥ ४ ॥ एवं मत्यादिबोधानां सभेदानां निरूपणम् । कृतं न केवलस्यात्र भेदस्याप्रस्तुतत्वतः ॥५॥ वक्ष्यमाणत्वतश्चास्य घातिक्षयजमात्मनः । स्वरूपस्य निरुक्त्यैव ज्ञानं सूत्रे प्ररूपणात् ॥ ६ ॥
___मतिश्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु ॥ २६ ॥ मत्यादिज्ञानेषु सभेदानि चत्वारि ज्ञानानि भेदतो व्याख्याय बहिरंगकारणतश्च केवलमभेदं वक्ष्यमाणकारणस्वरूपमिहाप्रस्तुतत्वात् तथानुक्त्वा किमर्थमिदमुच्यत इत्याह;
अथाद्यज्ञानयोरर्थविवादविनिवृत्तये । मतीत्यादि वचः सम्यक् सूत्रयन्सूत्रमाह सः॥१॥ संप्रति के मतिश्रुते कश्च निबन्धः कानि द्रव्याणि के वा पर्याया इत्याह;मतिश्रुते समाख्याते निवन्धो नियमः स्थितः। द्रव्याणि वक्ष्यमाणानि पर्यायाश्च प्रपंचतः॥२॥ ततो मतिश्रुतयोः प्रपंचेन व्याख्यातयोर्वक्ष्यमाणेषु द्रव्येष्वसर्वपर्यायेषु निबन्धो नियमो प्रत्येतव्य इति सूत्रार्थो व्यवतिष्ठते । विषयेष्वित्यनुक्तं कथमत्रागम्यत इत्याह;
पूर्वसूत्रोदितथात्र वर्तते विषयध्वनिः । केवलोऽर्थाद्विशुद्ध्यादिसहयोगं श्रयन्नपि ॥३॥ विशुद्धिक्षेत्रस्वामिविषयोभ्योऽवधिमनःपर्ययथोरित्यस्मात्सूत्रात्तद्विषयशब्दोऽत्रानुवर्तते । कथं स विशुद्ध्यादिभिः सह योगमाश्रयन्नपि केवलः शक्योऽनुवर्तयितुं ? सामर्थ्यात् । तथाहि-न तावद्विशुद्धेरनुवर्तनसामर्थ्य प्रयोजनाभावात् , तत एव न क्षेत्रस्य खामिनो वा सूत्रसामर्थ्याभावात् । नन्वेवं द्रव्येष्वसर्वपर्यायेषु निबन्धन इति वचनसामर्थ्याद्विषयशब्दस्यानुवर्त्तनेष्विति कथं विषयेभ्य इति पूर्व निर्देशात्तथैवानुवृत्तिप्रसंगादित्याशंकायामाह;
द्रव्येष्विति पदेनास्य सामानाधिकरण्यतः । तद्विभक्त्यन्ततापत्तेर्विषयेष्विति बुध्यते ॥ ४ ॥ किं पुनः फलं विषयेष्विति सम्बन्धस्येत्याह;विषयेषु निबन्धोऽस्तीत्युक्ते निर्विषयेन ते । मतिश्रुते इति ज्ञेयं न वा नियतगोचरे ॥५॥ तर्हि द्रव्येप्वसर्वपर्यायेष्विति विशेषणफलं किमित्याह;पर्यायमात्रगे नैते द्रव्येष्विति विशेषणात् । द्रव्यगे एव तेऽसर्वपर्याये द्रव्यगोचरे ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org