________________
२४६ तत्त्वार्थश्लोकवार्तिके
[सू० २४ येऽप्याहुः । ऋजुश्च विपुला च ऋजुविपुले ते च ते मतीति च स्वपदार्थवृत्तिस्तेन ऋजुविपुल. मती विशिष्ट परिच्छिन्नं मनःपर्यय उक्तो भवतीति तद्भेदकथनं प्रतीयत इति तेषामप्यविरोधमुपदर्शयति ॥ स्वपदार्था च वृत्तिः स्यादविरुद्धा तथा सति । विशिष्टे हि मतिज्ञाने मनःपर्यय इष्यते ॥८॥ यथ विपुलमती मनःपर्ययविशेषौ मनःपर्ययसामान्येनेति सामानाधिकरण्यमविरुद्धं सामान्यविशेषयोः । कथंचित्तादात्म्यात्तथा संप्रतीतेश्च तद्वदृजुविपुलमती ज्ञानविशेषौ मनःपर्यययोर्ज्ञानमित्यपि न विरुध्यते मनःपर्ययज्ञानभेदाप्रतिपत्तेः प्रकृतयोः सद्भावात् विशेषात् । कथं बाह्यकारणप्रतिपत्तिरत्रेत्याह;
परतोऽयमपेक्षस्यात्मनः स्वस्य परस्य वा । मनःपर्यय इत्यस्मिन्पक्षे बाह्यनिमित्तवत् ॥ ९॥
मनःपरीत्यानुसंधाय वायनं मनःपर्यय इति व्युत्पत्तौ बहिरंगनिमित्तकोऽयं मनःपर्यय इति बाह्यनिमित्तप्रतिपत्तिरस्य कृता भवति ।
न मतिज्ञानतापत्तिस्तस्यैवं मनसः स्वयं । निर्वर्तकत्ववैधुर्यादपेक्षामात्रतास्थितेः ॥१०॥ क्षयोपशममाबिभ्रदात्मा मुख्यं हि कारणं । तत्प्रत्यक्षस्य निवृत्तौ परहेतुपराङ्मुखः ॥ ११ ॥ मनोलिङ्गजतापत्तेन च तस्यानुमानतः । प्रत्यक्षलक्षणस्यैव निर्वाधस्य व्यवस्थितेः ॥ १२ ॥ नन्वेवं मनःपर्ययशब्दनिर्वचनसामर्थ्यात्तद्बाह्यप्रतिपत्तिः कथमतः स्यादित्याह;यदा परमनःप्राप्तः पदार्थो मन उच्यते । तात्स्थ्यात्ताच्छब्द्यसंसिद्धर्मचक्रोशनवत्तदा ॥१३॥ तस्य पर्ययणं यस्मात्तद्वा येन परीयते । स मनःपर्ययो ज्ञेय इत्युक्तेस्तत्स्वरूपवित् ॥ १४ ॥
विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ २४ ॥ ननु ऋजुविपुलमत्योः खवचनसामर्थ्यादेव विशेषप्रतिपत्तेस्तदर्थमिदं किमारभ्यत इत्याशंकायामाह;मनःपर्यययोरुक्तभेदयोः स्ववचोबलात् । विशेषहेतुसंवित्तौ विशुद्धीत्यादिसूत्रितम् ॥ १॥
नर्जुमतित्वविपुलमतित्वाभ्यामेवर्जुविपुलमत्योर्विशेषोऽत्र प्रतिपाद्यते । यतो नानर्थकमिदं स्यात् । किं तर्हि विशुद्ध्यप्रतिपाताभ्यां तयोः परस्परं विशेषान्तरमिहोच्यते ततोऽस्य साफल्यमेव ।
का पुनर्विशुद्धिः कश्चाप्रतिपातः को वानयोर्विशेष इत्याह;आत्मप्रसत्तिरत्रोक्ता विशुद्धिर्निजरूपतः । प्रच्युत्य संभवश्चास्याप्रतिपातः प्रतीयते ॥२॥ ताभ्यां विशेषमाणत्वं विशेषः कर्मसाधनः । तच्छब्देन परामर्शो मनःपर्ययभेदयोः॥३॥ तयोरेव विपुलमत्योर्विशुद्ध्यप्रतिपाताभ्यां विशेषोऽवसेय इत्यर्थः ।। ननूत्तरत्र तद्भेदस्थिताभ्यां स विशिष्यते । विशुद्ध्यप्रतिपाताभ्यां पूर्वस्तु न कथंचन ॥ ४ ॥ इत्ययुक्तं विशेषस्य द्विष्ठत्वेन प्रसिद्धितः । विशिष्यते यतो यस्य विशेषः सोऽत्र हीक्षते ॥५॥ पाठापेक्षयोत्तरो मनःपर्ययस्य भेदो विपुलमतिस्तद्गताभ्यां विशुद्ध्यप्रतिपाताभ्यां स एव पूर्वस्मात्तद्वेदाजुमतेविशिष्यते न पुनः पूर्व उत्तरस्मात्कथमपीत्ययुक्तं विशेष्यस्योभयत्वेन प्रसिद्धेः । यतो विशिप्यते स विशेषो यश्च विशिष्यते स विशेष्य इति व्युत्पत्तेः । विशुद्ध्यप्रतिपाताभ्यां चोत्तरतद्भेदगताभ्यां पूर्वो यथोत्तरस्माद्विशिष्यते तथा पूर्ववतेंदगाभ्यामुत्तर इति सर्व निरवद्यं । ननु चर्जुमतेर्विपुलमतिर्विशुद्ध्या विशिष्यते तस्य ततो विशुद्धतरत्वान्मनःपर्ययज्ञानावरणक्षयोपशमप्रकर्षादुत्पन्नत्वात् । अप्रतिपातेन च तत्खामिनामप्रतिपतितसंयमत्वेन तत्संयमगुणैकार्थसमवायित्वेन विपुलमतेरप्रतिपाताद्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org