________________
प्रथमोऽध्यायः ।
२४५
स्यात्तेषामवधिर्बाह्यगुण हेतुरितीरणात् । भवहेतुर्न मेऽस्तीति सामर्थ्यादवधार्यते ॥ ८ ॥ तेषामेवेति निर्णीतेर्देवनारकविच्छिदा । क्षयोपशमहेतुः सन्नित्युक्ते नाविशेषतः ॥ ९ ॥ क्षयोपशमनिमित्त एव शेषाणामित्यवधारणाद्भवप्रत्ययत्वव्युदासः शेषाणामेव क्षयोपशमनिमित्त इति देवनारकाणां नियमात्ततो नोभयथाप्यवधारणे दोषोऽस्ति । क्षयोपशमनिमित्तोऽवधिः शेषाणामित्युभय• त्रानवधारणाच्च नाविशेषतोऽवधि स्तिर्यङ्मनुष्याणामन्तरङ्गस्य तस्य कारणस्य विशेषात् । तथा पूर्वत्रानवधारणाद्वहिरंगकारणाव्यवच्छेदः । परत्रानवधारणाद्देवनार काव्यवच्छेदः प्रसिद्धो भवति ॥
षड्विकल्पः समस्तानां भेदानामुपसंग्रहात् । परमागमसिद्धानां युक्त्या सम्भावितात्मनाम् ॥१०॥ अनुगाम्यननुगामी वर्द्धमानो हीयमानोऽवस्थितोऽनवस्थित इति षड्डिकल्पोऽवधिः संप्रतिपाताप्रतिपातयोरत्रैवान्तर्भावात् । देशावधिः परमावधिः सर्वावधिरिति च परमागमप्रसिद्धानां पूर्वोक्तयुक्त्या सम्भावितानामत्रोपसंग्रहात् कुतः पुनरवधिः कश्चिदनुगामी कश्चिदन्यथा सम्भवतीत्याह ;
-
विशुद्धयनुगमात्पुंसोऽनुगामी देशतोऽवधिः । परमावधिरप्युक्तः सर्वावधिरपीदृशः ॥ ११ ॥ विशुद्ध्यनन्वयादेशो ऽननुगामी च कस्यचित् । तद्भवापेक्षया प्राच्यः शेषोऽन्यभववीक्षया १२ वर्द्धमानोऽवधिः कश्चिद्विशुद्धे वृद्धितः स तु । देशावधिरिहानातः परमावधिरेव च ।। १३ ।। atrarasarः शुद्धे हीयमानत्वतो मतः । सदेशावधिरेवात्र हाने सद्भावसिद्धितः ॥ १४ ॥ अवस्थितोsarः शुद्धेरवस्थानान्नियम्यते । सर्वोङ्गिनां विरोधस्याथभावान्नानवस्थितेः ।। १५ ।। विशुद्धेरनवस्थानात्सम्भवेदनवस्थितः । स देशावधिरेवैकोऽन्यत्र तत् प्रतिघाततः ।। १६ ।। प्रोक्तः सप्रतिपातो वाऽप्रतिपातस्तथाऽवधेः । सोऽन्तर्भावममीष्वेव प्रयातीति न सूत्रितः १७ विशुद्धेः प्रतिपाताप्रतिपाताभ्यां सप्रतिपाताप्रतिपातौ ह्यवधी षट्स्वेवान्तर्भवतः । अनगाम्यादयो हि केचित् प्रतिपाताः केचिदप्रतिपाता इति ।
ऋजुविपुलमती मनःपर्ययः ॥ २३ ॥
नन्विह बहिरंगकारणस्य भेदस्य च ज्ञानानां प्रस्तुतत्वान्नेदं वक्तव्यं ज्ञानभेदकारणाप्रतिपादकत्वादित्यारेकायामाह;
मनः
नः पर्ययविज्ञानभेदकारण सिद्धये । प्राहज्वित्यादिकं सूत्रं स्वरूपस्य विनिश्वयात् ॥ १ ॥ न हि मनःपर्ययज्ञानरूपस्य निश्चयार्थमिदं सूत्रमुच्यते यतोऽप्रस्तुतार्थं स्यात् । तस्य मत्यादिसूत्रे निरुक्त्यैव निश्चयात् । किं तर्हि । प्रकृतस्य बहिरंगकारणस्य भेदस्य प्रसिद्धये समारभते । ऋज्वी मतिर्यस्य स ऋजुमतिः । विपुला मतिर्यस्य स विपुलमतिः । ऋजुमतिश्च विपुलमतिश्च ऋजुविपुलमती । एकस्य मतिशब्दस्य गम्यमानत्वाल्लोप इति व्याख्याने का सा ऋज्वी विपुला च मतिः किंप्रकारा च मतिशब्देन चान्यपदार्थानां वृत्तौ कोऽन्यपदार्थ इत्याह; -
निर्वर्तितशरीरादिकृतस्यार्थस्य वेदनात् । ऋज्वी निर्वर्तिता त्रेधा प्रगुणा च प्रकीर्तिता ॥ २ ॥ अनिर्वर्तितकायादिकृतार्थस्य च वेदिका । विपुला कुटिला षोढा चक्रर्जुत्रयगोचरा ॥ ३ ॥ एतयोर्मतिशब्देन वृत्तिरन्यपदार्थका । कैश्चिदुक्ता स चान्योऽर्थो मनःपर्यय इत्यन् ॥ ४ ॥ द्वित्रप्रसंगतस्तत्र प्रवक्तुं धीधनो जनः । न मनः पर्ययो युक्तो मनःपर्यय इत्यलम् ॥ ५ ॥ यदात्वन्यौ पदार्थौ स्तस्तद्विशेषौ बलागतौ । सामान्यतस्तदेकोऽयमिति युक्तं तथा वचः ॥ ६ ॥ सामानाधिकरण्यं च न सामान्यविशेषयोः । प्रबाध्यते तदात्मत्वात्कथंचित्संप्रतीतितः ॥|७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org