________________
२४४
तत्त्वार्थश्लोकवार्तिके
[सू० २२ येऽग्रतोत्र प्रवक्ष्यन्ते प्राणिनो देवनारकाः । तेषामेवायमित्यर्थान्नान्येषां भवकारणः ॥३॥ भवप्रत्यय एवेति नियमान गुणोद्भवः । संयमादिगुणाभावाद्देवनारकदेहिनाम् ॥ ४ ॥ नन्वेवमवधारणेऽवधौ ज्ञानावरणक्षयोपशमहेतुरपि न भवेदित्याशंकामपनुदति;-- नावधिज्ञानवृत्कर्मक्षयोपशमहेतुता । व्यवच्छेद्या प्रसज्येताप्रतियोगित्वनिर्णयात् ॥५॥ बाह्यौ हि प्रत्ययावत्राख्यातौ भवगुणौ तयोः । प्रतियोगित्वमित्येकनियमादन्यविच्छिदे ॥६॥ यथैव हि चैत्रो धनुर्द्धर एवेत्यत्रायोगव्यवच्छेदेऽप्यधानुर्द्धर्यस्य व्यवच्छेदो नापाण्डित्यादेस्तस्य तदप्रतियोगित्वात् । किं चैत्रो धनुर्द्धरः किं वायमधनुर्द्धर इति आशंकायां धानुद्धर्येतरयोरेव प्रतियोगित्वाद्धानुर्द्धर्यनियतेनाधानुर्द्धर्य व्यवच्छिद्यते । तथा किमवधिर्भवप्रत्यय इति बहिरंगकारणयोर्भवगुणयोः परस्परं प्रतियोगिनोः शंकायामेकतरस्य भवस्य कारणत्वेन नियमे गुणकारणत्वं व्यवच्छिद्यते । न पुनरवधिज्ञानावरणक्षयोपशमविशेषः क्षेत्रकालादिवत्तस्य तदप्रतियोगित्वात् । तद्व्यवच्छेदे भवस्य साधारणत्वात्सर्वेषां साधारणोऽवधिः प्रसज्येत । तच्चानिष्टमेव । परिहृतं च भवतीत्याह;
प्रत्ययस्यान्तरस्यातस्तत्क्षयोपशमात्मनः । प्रत्यग्भेदोऽवधेर्युक्तो भवाभेदेऽपि चाङ्गिनाम् ॥७॥
कुतः पुनर्भवाभेदेऽपि देवनारकाणामवधिज्ञानावरणक्षयोपशमभेदः सिद्ध्येत् इति चेत्, स्वशुद्धिभेदात् । सोऽपि जन्मान्तरोपपत्तिविशुद्धिभावात् , नाभेदात् । सोऽपि स्वकारणभेदात् । इति न पर्यनु. योगो विधेयः कारणविशेषपरम्परायाः सर्वत्रापर्यनुयोगार्हत्वात् ।
. क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥ २२ ॥ किमर्थमिदमित्याह;गुणहेतुः स केषां स्यात् कियझेद इतीरितुम् । प्राह सूत्रं क्षयेत्यादि संक्षेपादिष्टसंविदे ॥१॥ कः पुनरत्र क्षयः कश्योपशमः कश्च क्षयोपशम इत्याह;क्षयहेतुरित्याख्यातः क्षयः क्षायिकसंयमः । संयतस्य गुणः पूर्व समभ्यर्हितविग्रहः ॥२॥ तथा चारित्रमोहस्योपशमादुद्भवन्नयम् । कथ्येतोपशमो हेतोरुपचारस्त्वयं फले ॥३॥ क्षयोपशमतो जातः क्षयोपशम उच्यते । संयमासंयमोऽपीति वाक्यभेदाद्विविच्यते ॥ ४॥
क्षयनिमित्तोऽवधिः शेषाणामुपशमनिमित्तः क्षयोपशमनिमित्त इति वाक्यभेदात्क्षायिकौपशमिकक्षायोपशमिकसंयमगुणनिमित्तस्यावधिरवगम्यते । कार्ये कारणोपचारात् क्षयादीनां क्षायिकसंयमादिषूपचारः तथाभिधानोपपत्तेः ॥ किमर्थं मुख्यशब्दानभिधानमित्याह;
क्षायोपशम इत्यन्तरंगो हेतुर्निगद्यते । यदि वेति प्रतीत्यर्थं मुख्यशब्दाप्रकीर्तनम् ॥५॥ तेनेह प्राच्यविज्ञाने वक्ष्यमाणे च भेदिनि । क्षयोपशमहेतुत्वात्सूत्रितं संप्रतीयते ॥६॥
क्षयोपशम इत्यन्तरंगो हेतुः सामान्येनाभिधीयमानस्तदावरणापेक्षया व्यवतिष्ठते स च सकलक्षायोपशमिकज्ञानभेदानां साधारण इति । यथेह पड्डिधस्यावधेनिमित्तं तथा पूर्वत्र भवप्रत्ययेऽवधौ श्रुते मतौ चावसीयते । वक्ष्यमाणे च मनःपर्यये स एव तदावरणापेक्षयेति सूत्रितं भवति । मुख्यस्य शब्दस्याश्रयणात्सर्वत्र बहिरंगकारणप्रतिपादनाच्च मुख्यशब्दप्रयोगो युक्तोऽन्यथा गुणप्रत्ययस्यावधेरप्रतिपत्तेः ।
के पुनः शेषा इत्याह;शेषा मनुष्यतियञ्चो वक्ष्यमाणाः प्रपंचतः । ते यतः प्रतिपत्तव्या गतिनामाभिधाश्रयाः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org