________________
प्रथमोऽध्यायः ।
२४३ ऽयं राजेत्यादिसंज्ञासंज्ञिसंबन्धप्रतिपत्तिः । षडाननो गुहश्चतुर्मुखो ब्रह्मा तुंगनासो भागवतः क्षीराम्भोविवेचनतुण्डो हंसः सप्तच्छद इत्यादिवाक्या हितसंस्कारस्य तथा प्रतिपत्तिर्वा यद्यागमज्ञानं तदा तद्वदेवोपमानमवसेयं विशेषाभावात् । यदि पुनरुपमानोपमेयभावप्रतिपादनपरत्वेन विशिष्टादुपमानवाक्यादुत्पद्यमानं श्रुतात्प्रमाणान्तरमित्यभिनिवेशस्तदा रूप्यरूपकभावादिप्रतिपादनपरत्वेन ततोऽपि विशिष्टाद्रूपकादिवाक्यादुपजायमानं विज्ञानं प्रमाणान्तरमनुमन्यतां, तस्यापि स्वविषय प्रमितौ साधकतमत्वाद्विसंवादकत्वाभावादप्रमाणत्वायोगात् । अथ रूपकाद्यलंकारभाजोऽपि वाक्यविशेषादुपजातमर्थज्ञानं श्रुतमेव प्रवचनमूलत्वाविशेषादिति मतिस्तदोपमानवाक्योपजनितमपि वेदनं श्रुतज्ञानमप्युपगन्तव्यं तत एवेत्यलं प्रपंचेन । प्रतिभा किं प्रमाणमित्याह ;
उत्तरप्रतिपत्त्याख्या प्रतिभा च श्रुतं मता । नाभ्यासजा सुसंवित्तिः कूटद्रुमाद्गिोचरा ॥ १२३ उत्तरप्रतिपत्तिः प्रतिभा कैश्चिदुक्ता सा श्रुतमेव, न प्रमाणान्तरं, शब्दयोजनासद्भावात् । अत्यन्ताभ्यासादाशु प्रतिपत्तिरशब्दजा कूटद्रुमादावकृताभ्यासस्याशु प्रवृत्तिः प्रतिभा परैः प्रोक्ता । सा न श्रुतं, सादृश्यप्रत्यभिज्ञानरूपत्वात्तस्यास्तयोः (?) पूर्वोत्तरयोर्हि दृष्टदृश्यमानयोः कूटदुमयोः सादृश्यप्रत्यभिज्ञा झटित्येतां परामृषन्ती तदेवेत्युपजायते । सा च मतिरेव निश्चितेत्याह; -
“सोऽयं कूट इति प्राच्यौदीच्यदृष्टेक्षमाणयोः । सादृश्ये प्रत्यभिज्ञेयं मतिरेव हि निश्चिता १२४ शब्दानुयोजनात्वेषा श्रुतमस्त्वक्षवित्तिवत् । संभवाभावसंवित्तिरर्थापत्तिस्तथानुमा ।। १२५ ।। नामासंसृष्टरूपा हि मतिरेषा प्रकीर्तिता । नातः कश्चिद्विरोधोऽस्ति स्याद्वादामृतभोगिनां ।। १२६ नामासंसृष्टरूपा प्रतिभा संभववित्तिरभाववित्तिरर्थापत्तिः स्वार्थानुमा च पूर्वं मतिरित्युक्ता । नामसंसृष्टा तु सम्प्रति श्रुतमित्युच्यमाने पूर्वापरविरोधो न स्याद्वादामृतभाजां सम्भाव्यते, तथैव युक्त्यागमानुरोधात् । तदेवं पूर्वोक्तया मत्या सह श्रुतं परोक्षं प्रमाणं सकलमुनीश्वरविश्रुतमुन्मूलितनिःशेषदुर्मतनिकरमिह तत्वार्थशास्त्रे समुदीरितमिति परीक्षकाश्चेतसि धारयन्तु खप्रज्ञातिशयवशादित्युपसंहरन्नाह । इति श्रुतं सर्वमुनीश विश्रुतं । सहोत्तमत्यात्र परोक्षमीरितं । प्रमाणमुन्मूलित दुर्मतोत्करं । परीक्षकाचेतसि धारयन्तु तम् ।। १२७ ।। इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमस्याध्यायस्य तृतीयमाह्निकम् ॥
भवप्रत्ययोsवधिर्देवनारकाणाम् ॥ २१ ॥
किं पुनः कुर्वन्निदमावेदयतीत्याह ;
भवप्रत्यय इत्यादिसूत्रमाहावधेर्बहिः । कारणं कथयनेकं स्वामिभेदव्यपेक्षया ॥ १ ॥ देवनारकाणां भवभेदात्कथं भवस्तदवधेरेकं कारणमिति न चोद्यं भवसामान्यस्यैकत्वाविरोधात् । कथं बहिरंगकारणं भवस्तस्यात्मपर्यायत्वादिति चेत् ।
नामायुरुदयापेक्षो नुः पर्यायो भवः स्मृतः । स बहिः प्रत्ययो यस्य स भवप्रत्ययोऽवधिः ॥२॥ बहिरंगस्य देवगतिनामकर्मणो देवायुषश्चोदयाद्देवभवः । तथा नरकगतिनामकर्मणो नारकायुषश्चोदयान्नरकभव इति । तस्य बहिरंगतात्मपर्यायत्वेऽपि न विरुद्धा । कथमत्रावधारणं, देवनारकाणामेव भबप्रत्ययोऽवधिरिति वा भवप्रत्यय एव देवनारकाणामिति : उभयथाप्यदोष इत्याह ;
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org