________________
तत्त्वार्थश्लोकवार्तिके
[सू० २०
बुद्धिर्वत्कृप्राणवृत्त्यतिक्रमश्च मध्यमायाः कारणं तु लक्षणं क्रमरूपानुपातित्वमेव च तत्र श्रोत्रग्रहणयोग्यत्वाविरुद्धमिति न निराक्रियते । पश्यन्त्याः सर्वतः संहृतक्रमत्वमविभागत्वं च लक्षणं । तच्च यदि सर्वथा तदा प्रमाणविरोधो, वाच्यवाचकविकल्पक्रमाविभागयोस्तत्र प्रतिभासनात् । कथंचित्तु संहृतक्रमत्वं विभागत्वं च तत्रेष्टमेव, युगपदुपयुक्तश्रुतविकल्पानामसम्भवाद्वर्णादिविभागाभावाच्चानुपयुक्तश्रुत विकल्पस्येति । तस्याविकल्पात्मकत्वलक्षणानतिक्रम एव । सूक्ष्मायाः पुनरन्तःप्रकाशमानखरूपज्योतिर्लक्षणत्वं कथंचिन्नित्यत्वं च नित्योद्घाटितान्निरावरणलब्ध्यक्षरज्ञानाच्छक्तिरूपाच्च चित्सामान्यान्न विशिष्यते । सर्वथा नित्याद्वयरूपत्वं तु प्रमाणविरुद्धस्य वेदितप्रायम् । इत्यलं प्रपंचेन "श्रुतं शब्दानुयोजनादेव" इत्यवधारणस्याकलंकाभिप्रेतस्य कदाचिद्विरोधाभावात् तथा संप्रदायस्याविच्छेदाद्युक्त्यनुग्रहाच्च सर्वमतिपूर्वकस्यापि श्रुतस्याक्षरज्ञानत्वव्यवस्थितेः । अत्रोपमानस्यान्तर्भावं विभावयन्नाह ः—
कृताभिदेशवाच्याभिः संस्कारस्य क्वचित्पुनः । संवित्प्रसिद्धसाधर्म्यात्तथा वाचकयोजिता ११५ प्रकाशितोपमा कैश्चित्सा श्रुतान्न विभिद्यते । शब्दानुयोजनात्तस्याः प्रसिद्धागम वित्तिवत् ॥ ११६ प्रमाणान्तरतायान्तु प्रमाणनियमः कुतः । संख्या संवेदनादीनां प्रमाणांतरतास्थितौ ॥११७॥ प्रत्यक्षं द्व्यादिविज्ञानमुत्तराधर्यवेदिनं । स्थविष्ठोरुदविष्ठाल्पलघ्वासन्नादिविच्च चेत् ।। ११८ ।। नोपदेशमपेक्षेत जातु रूपादिवित्तिवत् । परोपदेशनिर्मुक्तं प्रत्यक्षं हि सतां मतं ।। ११९ ।। तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरपेक्षते । परोपदेशमध्यक्षं संख्यादिविषयं यदि ।। १२० ।। तत्रोपमानतः सैतत् प्रमाणान्तरमस्तु वः । नोपमानार्थता तस्यास्तद्वाक्येन विनोद्भवात् १२१ आगमत्वं पुनः सिद्धमुपमानं श्रुतं यथा । सिंहासने स्थितो राजेत्यादिशब्दोत्थवेदनं ॥ १२२ ॥ प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानं, गौरिव गवय इति ज्ञानं । तथा वैधर्म्याद् योऽगवयो महिषादिः स न गौरिवेति ज्ञानं । साधर्म्यवैधर्म्याभ्यां संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरुपमानार्थः । अयं स गवयशब्दवाच्यः पिंड, इति सोऽयं महिषादिरगवयशब्दवाच्य इति वा । साधर्म्यवैधम्र्योपमानवाक्यादिसंस्कारस्य प्रतिपाद्यस्योपजायते । इति द्वेधोपमानं शब्दात्प्रमाणान्तरं ये समाचक्षते तेषां व्यादिसंख्याज्ञानं प्रमाणान्तरं, गणितज्ञसंख्यावाक्या हितसंस्कारस्य प्रतिपाद्यस्य पुनर्द्यादिषु संख्या विशिष्टद्रव्यदर्शनादेतानि व्यादीनि तानीति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिर्व्यादिसंख्याज्ञानप्रमाणफलमिति प्रतिपत्तव्यं । तथोत्तराधर्यज्ञानं सोपमानादिषु स्थविष्ठज्ञानं पर्वादिषु महत्वज्ञानं स्ववंशादिषु दविष्ठज्ञानं चन्द्रार्कादिष्वल्पत्वज्ञानं सर्प - पादिषु, लघुत्वज्ञानं तूलादिषु, प्रत्यासन्नज्ञानं खगृहादिषु, संस्थानज्ञानं त्र्यस्यादिषु वक्रर्ध्वादिज्ञानं च क्वचित्प्रमाणांतरमायातं । परोपदिष्टोत्तराधर्यादिवाक्याहित संस्कारस्य विनेयजनस्य पुनरौत्तराधर्यदर्शनादिदं तदौत्तराधर्यादीति संज्ञासंज्ञिसम्बन्धप्रतिपत्तेस्तत्फलस्य भावान्न हि संख्याज्ञानादि प्रत्यक्षमिति युक्तं वक्तुं, परोपदेशापेक्षाविरहप्रसंगात् रूपादिज्ञानवत्, परोपदेशविनिर्मुक्तं प्रत्यक्षमित्यत्र सतां संप्रतिपत्तेः । यदि पुनः संख्यादिविषयज्ञानं प्रत्यक्षमपरोपदेशमेव तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तेरेव परोपदेशापेक्षानुभवादिति मतं तदा सैव संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः प्रमाणान्तरमस्तु, विनोपमानवाक्येन भावादुपमानेऽन्तर्भावितुमशक्यत्वात् । ननु चाप्तोपदेशात्प्रतिपाद्यस्य तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरागमफलमेव ततोऽप्रमाणांतरमिति चेत्तर्ह्राप्तोपदिष्टोपमानवाक्यादपि तत्प्रतिपत्तिरागमज्ञानमेवेति नोपमानं श्रुतात्प्रमाणान्तरं, सिंहासनस्थो राजा मंचके महादेवी सुवर्णपीठे सचिवः एतस्मात्पूर्वत एतस्मादुतरत एतस्माद्दक्षित एतन्नामाणवयं ग्रामवानक (?) मित्यादिवाक्या हितसंस्कारस्य पुनस्तथैव दर्शनात्सो१ मानापमानादिषु इति पाठः सम्यक् ।
२४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org