________________
प्रथमोऽध्यायः ।
२४१ आगमादेव तत्सिद्धौ भेदसिद्धिस्तथा न किम् । निर्वाधादेव चेत्तव्यं न प्रमाणांतरादृते ॥९९॥ तदागमस्य निश्चेतुं शक्यं जातु परीक्षकैः । न चागमस्ततो भिन्नः समस्ति परमार्थतः॥१०॥ तद्विवर्तस्त्वविद्यात्मा तस्य प्रज्ञापकः कथं । न चाविनिश्चिते तत्त्वे फेनबुद्धदवद्भिदा ॥१०१॥ मायेयं बत दुःपारा विपश्चिदिति पश्यति । येनाविद्या विनिर्णीता विद्यां गमयति ध्रुवम्१०२ भ्रांते/जाविनाभावादनुमात्रैवमागता । ततो नैव परं ब्रह्मास्त्यनादिनिधनात्मकम् ॥ १०३॥ विवर्तेतार्थभावेन प्रक्रिया जगतो यतः ।
न हि भ्रांतिरियमखिलभेदप्रतीतिरित्यनिश्चये तदन्यथानुपपत्त्या तबीजभूतं शब्दतत्त्वमनादिनिधनं ब्रह्म सिद्ध्यति । नापि तदसिद्धौ भेदप्रतीतिभ्रांतिरिति परस्पराश्रयणात्कथमिदमवतिष्ठते "अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं । विवर्तेतार्थभावेन प्रक्रिया जगतो यतः ॥” इति यतस्तस्य चतस्रोवस्था वैखर्यादयः संभाव्यते सत्योसत्यो वा । न च तदसंभवेनायं सर्वत्र प्रत्यये शब्दानुगमः सिद्ध्येत् सूक्ष्मायाः सर्वत्र भावात् । यतोभिधानापेक्षायामक्षादिज्ञानेन्योन्याश्रयोऽनवस्था च न स्यात्सर्वथैकांताभ्युपगमात् ॥
स्थाद्वादिनां पुनर्वाचो द्रव्यभावविकल्पतः । द्वैविध्यं द्रव्यवाग्वधा द्रव्यपर्यायभेदतः ॥१०४॥ श्रोत्रग्राह्यात्र पर्यायरूपा सा वैखरी मता । मध्यमा च परैस्तस्याः कृतं नामांतरं तथा॥१०५॥ द्रव्यरूपा पुनर्भाषावर्गणाः पुद्गलाः स्थिताः । प्रत्ययान्मनसा नापि सर्वप्रत्ययगामिनी।।१०६॥ भाववाग्व्यक्तिरूपात्र विकल्पात्मनिबंधनं । द्रव्यवाचोभिधा तस्याः पश्यंतीत्यनिराकृताः १०७ वाग्विज्ञानावृतिच्छेद विशेषोपहितात्मनः । वक्तुः शक्तिः पुनः सूक्ष्मा भाववागभिधीयताम् १०८ तया विना प्रवर्तते न वाचः कस्यचित्कचित् । सर्वज्ञस्याप्यनंताया ज्ञानशक्तेस्तदुद्भवः ॥१०९ इति चिद्रूपसामान्यात्सवात्मव्यापिनी ननु । विशेषात्मतयेत्युक्ता मतिःप्राङ्नामयोजनात्११० शब्दानुयोजनादेव श्रुतमेवं न बाध्यते । ज्ञानशब्दाद्विना तस्य शक्तिरूपादसंभवात् ॥१११॥ लब्ध्यक्षरस्य विज्ञानं नित्योद्घाटन विग्रहं । श्रुताज्ञानेपि हि प्रोक्तं तत्र सर्वजघन्यके ॥ ११२ ॥ स्पर्शनेंद्रियमात्रोत्थे मत्यज्ञाननिमित्तकं । ततोक्षरादिविज्ञानं श्रुते सर्वत्र संमतम् ॥ ११३ ॥ नाकलंकवचोबाधा संभवत्यत्र जातुचित् । तादृशः संप्रदायस्याविच्छेदाद्युक्त्यनुग्रहात्॥११४॥
ननु च श्रोत्रग्राह्या पर्यायरूपा वैखरी मध्यमा च वागुक्ता शब्दाद्वैतवादिभिर्यतो नामांतरमात्रं तस्याः स्यान्न पुनरर्थभेद इति । नापि पश्यंती वाग वाचकविकल्पलक्षणा सूक्ष्मा वा वाक् शब्दज्ञानशक्तिरूपा । किं तर्हि । स्थानेषूरःप्रभृतिषु विभज्यमाने विवृत्ते वायौ वर्णत्वमापद्यमाना वक्तृप्राणवृत्तिहेतुका वैखरी स्थानेषूरःप्रभृतिषु विभज्यमाने विवृत्ते वायौ कृतवर्णत्वपरिग्रहः । “वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना” इति वचनात् । तथा मध्यमा केवलमेव बुद्ध्युपादाना क्रमरूपानुपातिनी वक्तृप्राणवृत्तिमतिक्रम्य प्रवर्तमाना निश्चिता केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी । “प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते” इति वचनात् । पश्यन्ती पुनरविभागा सर्वतः संहृतकमा प्रत्येया। सूक्ष्मात्र स्वरूपज्योतिरेवान्तरवभासिनी नित्यावगन्तव्या । "अविभागानुपश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागवभासिनी । १।" इति वचनात् । ततो न स्याद्वादिनां कल्पयितुं युक्ताश्चतस्रोऽवस्थाः श्रुतस्य वैखर्यादयस्तदनिष्टलक्षणत्वादिति केचित् । तेऽपि न प्रातीतिकोक्तयः । वैखर्या मध्यमायाश्च श्रोत्रग्राह्यत्वलक्षणानतिक्रमात् । स्थानेषु विवृतो हि वायुर्वक्तृणां प्राणवृत्तिश्च वर्णत्वं परिगृह्णत्या वैखर्याः कारणं । वर्णत्वपरिग्रहस्तु लक्षणं । स च श्रोत्रग्राह्यत्वपरिणाम एव । इति न किञ्चिदनिष्टं । तथा केवला
३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org