________________
२४० तत्त्वार्थश्लोकवार्तिके
[सू०२० देवेत्यवधारणं श्रुतमेव शब्दानुयोजनादिति वा ? यदि श्रुतमेव शब्दानुयोजनादिति पूर्वनियमस्तदा न कश्चिद्विरोधः शब्दसंसृष्टज्ञानस्याश्रुतज्ञानत्वव्यवच्छेदात् । अथ शब्दानुयोजनादेव श्रुतमिति नियमस्तदा श्रोत्रमतिपूर्वकमेव श्रुतं न चक्षुरादिमतिपूर्वकमिति सिद्धांतविरोधः स्यात् । सांव्यवहारिकं शाब्दं ज्ञानं श्रुतमित्यपेक्षया तथा नियमे तु नेष्टबाधास्ति चक्षुरादिमतिपूर्वकस्यापि श्रुतस्य परमार्थतोभ्युपगमात् खसमयसंप्रतिपत्तेः । अथवा "न सोस्ति प्रत्ययो लोके यः शब्दानुगाते । अनुविद्धमिवाभाति सवै. शब्दे प्रतिष्ठितं ॥” इत्येकांतं निराकर्तुं प्राग्रामयोजनादाद्यमिष्टं न तु तन्नामसंसृष्टमिति व्याख्यानमाकलंकमनुसर्तव्यं । तथा सति यदाह परः “वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी" इति तदपास्तं भवति तया विनैवाभिनिबोधिकस्य प्रकाशनादित्यावेदयतिवाग्रूपता ततो न स्यायोक्ता प्रत्यवमर्शिनी । मतिज्ञानं प्रकाशेत सदा तद्धि तया विना॥८९॥
न हींद्रियज्ञानं वाचा संसृष्टमन्योन्याश्रयप्रसंगात् । तथाहि । न तावदज्ञात्वा वाचा संसृजेदतिप्रसंगात् । ज्ञात्वा संसृजतीति चेत् तेनैव संवेदनेनान्येव वा ? तेनैव चेदन्योन्याश्रयणमन्येन चेदनवस्थानं । अत्र शब्दाद्वैतवादिनामज्ञत्वमुपदय दूषयन्नाह;वैखरी मध्यमां वाचं विनाक्षज्ञानमात्मनः । स्वसंवेदनमिष्टं नोन्योन्याश्रयणमन्यथा ॥९॥ पश्यंत्या नु विना नैतद्यवसायात्मवेदनम् । युक्तं न चात्र संभाव्यः प्रोक्तोन्योन्यसमाश्रयः९१ व्यापिन्या सूक्ष्मया वाचा व्याप्तं सर्व च वेदनं । तया विना हि पश्यंती विकल्पात्मा कुतः पुनः९२ मध्यमा तदभावे क निर्बीजा वैखरी वात् । ततः सा शाश्वती सर्ववेदनेषु प्रकाशते ॥ ९३॥ इति येपि समादध्युस्तेप्यनालोचितोक्तयः । शब्दब्रह्मणि निर्भागे तथा वक्तुमशक्तितः ॥१४॥ न ह्यवस्था च श्रोत्रस्य सत्याद्वैतप्रसंगतः । न च तासामविद्यात्वं तत्त्वासिद्धौ प्रसिद्ध्यति ।।९५
चतुर्विधा हि वाग्वैखरी मध्यमा पश्यंती सूक्ष्मा चेति । तत्राज्ञानं विनैव वैखर्या मध्यमया चात्मनः प्रभवति खसंवेदनं च अन्यथान्योन्याश्रयणस्य दुर्निवारत्वात् । तत एवानवस्थापरिहारोपि । न चैवं वाग्रूपता सर्ववेदनेषु प्रत्यवमर्शिनीति विरुध्यते पश्यत्या वाचा विनाक्षज्ञानादेरप्यसंभवात् । तद्धि यदि व्यवसायात्मकं तदा व्यवसायरूपां पश्यंतीवाचं कस्तत्र निराकुर्यादव्यवसायात्मकत्वप्रसंगात् । न चैवमन्योन्याश्रयोनवस्था वा युगपत्स्वकारणवशाद्वाक्संवेदनयोस्तादात्म्यमापन्नयोर्भावात् । यत्पुनरव्यवसायात्मकं दर्शनं तत्पश्यंत्यापि विनोपजायमानं न वाचाननुगतं सूक्ष्मया वाचा सहोत्पद्यमानत्वात् तस्याः सकलसंवेदनानुयायिस्वभावत्वात् । तया विना पुनः पश्यंत्या मध्यमाया वैखर्याश्चोत्पत्तिविरोधादन्यथा निर्बीजत्वप्रसंगात् । ततस्तद्वीजमिच्छता तदुत्पादनशक्तिरूपा सूक्ष्मा वाक् व्यापिनी सततं प्रकाशमानाभ्युपगंतव्या । सैवानुपरिहरत्यभिधानाद्यपेक्षायां भवदन्योन्यसंश्रय इति दूषणं "अभिलापतद्वशानामभिलापविवेकतः । अप्रमाणप्रमेयत्वमवश्यमनुषज्यते” इत्यनवस्थानं च अभिलापस्य तद्भागानां वा पराभिलापेन वैखरीरूपेण मध्यमारूपेण च विनिबाधसंवेदनोत्पत्तेरप्रमाणप्रमेयत्वानुषंगाभावादिति ये समादधते तेप्यनालोचितोक्तय एव, निरंशशब्दब्रह्मणि तथा वक्तुमशक्तेः । तस्यावस्थानां चतसृणां सत्यत्वेऽद्वैतविरोधात् । तासामविद्यात्वाददोष इति चेन्न, शब्दब्रह्मणोनंशस्य विद्यात्वंसिद्धौ तदवस्थानाम विद्यात्वाप्रसिद्धेः । तद्धि शब्दब्रह्म निरंशमिंद्रियप्रत्यक्षादनुमानात्वसंवेदनप्रत्यक्षादागमाद्वा न प्रसिद्ध्यतीत्याह
ब्रह्मणो न व्यवस्थानमक्षज्ञानात् कुतश्चन । स्वप्नादाविव मिथ्यात्वात्तस्य साकल्यतः स्वयम्९६ नानुमानात्ततोर्थानां प्रतीतेदुर्लभत्वतः । परप्रसिद्धिरप्यस्य प्रसिद्धा नाप्रमाणिका ॥ ९७ ॥ खतः संवेदनासिद्धिः क्षणिकानंशवित्तिवत् । न परब्रह्मणो नापि सा युक्ता साधनाद्विना९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org