________________
प्रथमोऽध्यायः ।
२३९
विरुद्ध हेतुरित्येवं शब्दैकत्वप्रसाधने । ततोऽकृतकता सिद्धेरभावान्नयशक्तितः ॥ ६० ॥ वेदस्य प्रथमोध्येता कर्तेति मतिपूर्वतः । पदवाक्यात्मकत्वाच्च भारतादिवदन्यथा ॥ ६१ ॥ तदयोगाद्विरुध्येत संगिरौ च महानसः । सर्वेषां हि विशेषाणां क्रिया शक्या वचोत्तरे ॥ ६२ ॥ वेदवाक्येषु दृश्यानामन्येषां चेति हेतुता । युक्तान्यथा न धूमादेरन्यादिषु भवेदसौ ॥ ६३ ॥ ततः सर्वानुमानानामुच्छेदस्ते दुरुत्तरः । प्रमाणं न पुनर्वेदवचसोकृत्रिमत्वतः ॥ ६४ ॥ साध्यते चेद्भवेदर्थवादस्यापि प्रमाणता । अदुष्टहेतुजन्यत्वं तद्वत्प्रामाण्यसाधने ॥ ६५ ॥ हेत्वाभासनमित्युक्तमपूर्वार्थत्वमप्यदः । बाधवर्जितता हेतुस्तत्र चेलैगिकादिवत् ॥ ६६ ॥ किमकृत्रिमता तस्य पोष्यते कारणं विना । पुंसो दोषाश्रयत्वेन पौरुषेयस्य दुष्टता ॥ ६७ ॥ शक्यते तज्जसंवित्तेरतो बाधनशंकनं । निःसंशयं पुनर्वाधवर्जितत्वं प्रसिद्ध्यति ।। ६८ ।। कर्तृहीनवचो वित्तेरित्यकृत्रिमतार्थकृत् । परेषामागमस्येष्टं गुणवक्तृत्वतः ॥ ६९ ॥ साधीयसीति यो वक्ति सोपि मीमांसकः कथं । समत्वादक्षलिंगादेः कस्यचिद्दुष्टता दृशः ७० शब्दज्ञानवदाशंकापतेस्तज्जन्मसंविदः । मिथ्याज्ञाननिमित्तस्य यद्यक्षादेस्तदा न ताः ॥ ७१ ॥ तादृशः किं न वाक्यस्य श्रुत्याभासत्वमिष्यते । गुणवद्वत्तृकत्वं तु परैरिष्टं यदागमे ॥ ७२ ॥ तत्साधनांतरं तस्य प्रामाण्ये कांचन प्रति । सुनिर्बाधत्वहेतोर्वा समर्थनपरं भवेत् ॥ ७३ ॥ तन्नो न पौरुषेयत्वं भवतस्तत्र तादृशं । मंत्रार्थवादनिष्ठस्य पौरुषेयस्य बाधनात् ॥ ७४ ॥ वेदस्यापि पयोदादिध्वनेर्नैष्फल्यदर्शनात् । सत्यं श्रुतं सुनिर्णीतासंभवद्वाधकत्वतः ॥ ७५ ॥ प्रत्यक्षादिवदित्येतत्सम्यक् प्रामाण्यसाधनं । कदाचित्स्यादप्रमाणं शुक्तौ रजतबोधवत् ॥ ७६ ॥ नापेक्षं संभवद्वाधं देशकालनरांतरं । स्वेष्टज्ञानवदित्यस्य नानैकांतिकता स्थितिः ॥ ७७ ॥ न च हेतुरसिद्धोयमव्यक्तार्थवचोविदः । प्रत्यक्षबाधनाभावादनेकांते कदाचन ॥ ७८ ॥ अनुमेयेनुमानेन बाधवैधुर्यनिर्णयात् । तृतीयस्थानसंक्रांते त्वागमावयवेन च ॥ ७९ ॥ परागमे प्रमाणत्वं नैवं संभाव्यते सदा । दृष्टेष्टबाधनात्सर्वशून्यत्वागमबोधवत् ॥ ८० ॥ भावाद्येकांतवाचानां स्थितं दृष्टेष्टबाधनं । सामंतभद्रतो न्यायादिति नात्र प्रपंचितम् ॥ ८१ ॥ करिष्यते च तद्वत्स यथावसरमग्रतः । युक्त्या सर्वत्र तत्त्वार्थे परमागमगोचरम् ॥ ८२ ॥ प्रोक्तभेदप्रभेदं तच्छ्रुतमेव हि तद्दृढं । प्रामाण्यमात्मसात्कुर्यादिति नश्चिंतयात्र किम् ॥ ८३ ॥ तदेवं श्रुतस्यापौरुषेयतैकांतमपाकृत्य कथंचिदपौरुषेयत्वेपि चोदनायाः प्रामाण्यसाधनासंभवं विभाव्य स्याद्वादस्य च सुनिश्चितासंभवद्वाधकत्वं प्रामाण्यसाधनं व्यवस्थाप्य सर्वथैकांतानां तदसंभवं भगवत्समंत - भद्राचार्यन्यायाद्भावाद्येकांतनिराकरणप्रवणादावेद्य वक्ष्यमाणाच्च न्यायात्संक्षेपतः प्रवचनप्रामाण्यदार्थमवधार्य तत्र निश्चितं नामात्मसात्कृत्य संप्रति श्रुतस्वरूपप्रतिपादकम कलंकग्रंथमनुवादपुरस्सरं विचारयति ;
--
अत्र प्रचक्षते केचिच्छ्रतं शब्दानुयोजनात् । तत्पूर्वनियमाद्युक्तं नान्यथेष्टविरोधतः ॥ ८४ ॥ शब्दानुयोजनादेव श्रुतं हि यदि कथ्यते । तदा श्रोत्रमतिज्ञानं न स्यान्नान्यमतौ भवम् ॥ ८५ ॥ यद्यपेक्षवचस्तेषां श्रुतं सांव्यवहारिकं । स्वेष्टस्य बाधनं न स्यादिति संप्रतिपद्यते ॥ ८६ ॥ न सोस्ति प्रत्ययो लोके यः शब्दानुगमादृते । इत्येकांतं निराकर्तुं तथोक्तं तैरिहेति वा ॥८७॥ ज्ञानमाद्यं स्मृतिः संज्ञा चिंता चाभिनिवोधिकं । प्रानामसंसृतं शेषं श्रुतं शब्दानुयोजनात् ८८ अत्राकलंक देवाः प्राहुः "ज्ञानमाद्यं स्मृतिः संज्ञा चिंता चाभिनिबोधिकं । प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् ॥” इति तत्रेदं विचार्यते मतिज्ञानादाद्यादाभिनिबोधिकपर्यंताच्छेषं श्रुतं शब्दानुयोजना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org