________________
२३८ तत्त्वार्थश्लोकवार्तिके
[सू०२० विशेषाधानमप्यस्य नाभिव्यक्तिर्विभाव्यते । नित्यस्यातिशयोत्पत्तिविरोधात्वात्मनाशवत्॥२५ कलशादेरभिव्यक्तिींपादेः परिणामिनः । प्रसिद्धेति न सर्वत्र दोषोयमनुषज्यते ॥२६॥ नित्यस्य व्यापिनो व्यक्तिः साकल्येन यदीष्यते । किं न सर्वत्र सर्वस्य सर्वदा तद्विनिश्चयः२७ खादृष्टवशतः पुंसां शाब्दज्ञानविचित्रता । व्यक्तेपि काय॑तः शब्दे भावे सर्वात्मके न किम्२८ देशतस्तदभिव्यक्ती सांशता न विरुध्यते । व्यंजके यत्तु शब्दानामभिन्ने सकलश्रुतिः॥२९॥ तस्य कचिदभिव्यक्ती व्यापारे देशभाक स्वतः । नानारूपे तु नानात्वं कुतस्तस्यावगम्यताम्३० स्वाभिप्रेताभिलापस्य श्रुतेरन्योन्यसंश्रयः । सिद्धे व्यंजकनानात्वे विशिष्टवचसः श्रुतिः॥३१॥ प्रसिद्धायां पुनस्तस्यां तत्प्रसिद्धिर्हि ते मते । यदि प्रत्यक्षसिद्धेयं विशिष्टवचसः श्रुतिः॥३२॥ शेमुपीपूर्वतासिद्धिवोचा किं नानुमन्यते । ननु ज्ञाननिमित्तत्वं वाचामुच्चारणस्य नः॥३३॥ सिद्धं नापूर्वरूपेण प्रादुर्भावः कदाचन । कर्तुरमरण तासां तादृशीनां विशेषतः ॥ ३४ ॥ पुरुषार्थोपयोगत्वभाजामपि महात्मनां । नैवं सर्वनृणां कर्तुः स्मृतेरप्रतिसिद्धितः ॥ ३५॥ तत्कारणं हि काणादाः सरंति चतुराननं । जैनाः कालासुरं बौद्धाः स्वाष्टकात्सकलाः सदा३६ सर्वे स्वसंप्रदायस्याविच्छेदेनाविगानतः । नानाकर्टस्मृतेनोस्ति तासां कर्तेत्यसंगतं ॥ ३७॥ बहुकतेकतासिद्धेः खंडशस्तादृगन्यवत् । कतुरस्मरणं हेतुयोज्ञिकानां यदीष्यते ॥ ३८ ॥ तदा स्वगृहमान्या स्याद्वेदस्थापौरुषेयता । जगतोऽकर्तृताप्येवं परेषामिति चेन वै ॥ ३९ ॥ कतुः स्मरणहेतुस्तत्सिद्धौ तैश्च प्रयुज्यते । महत्त्वं तु न वेदस्य प्रतिवाद्यागमात् स्थितम् ॥४०॥ येनाशक्यक्रियत्वस्य साधनं तत्तव स्मृतेः । पुरुषार्थोपयोगित्वं विवादाध्यासितं कथं ॥४१॥ विशेषणतया हेतोः प्रयोक्तुं युज्यते सतां । वेदाध्ययनवाच्यत्वं वेदाध्ययनपूर्वताम् ॥ ४२ ॥ न वेदाध्ययने शक्तं प्रज्ञापयितुमन्यवत् । यथा हिरण्यगर्भः सोऽध्येता वेदस्य साध्यते॥४३॥ युगादौ प्रथमस्तद्वद्बुद्धादिः खागमस्य च । साक्षात्कृत्यागमस्यार्थवक्ता कर्तागमस्य चेत्॥४४॥ अमिरित्यनिरित्यादिर्वक्ता कर्ता तु तादृशः । पराभ्युपगमात्कर्ता स चेद्वेदे पितामहः ॥४५॥ तत एव न धातास्तु न वा कश्चित्समत्वतः । नानधीतस्य वेदस्याध्येतास्त्यध्यापकाद्विना ४६ न सोस्ति ब्रह्मणोत्रादाविति नाध्येत्ता गतिः । स्वर्गेधीतान् स्वयं वेदाननुस्मृत्येह संभवी॥४७॥ ब्रह्माध्येता परेषां वाध्यापकश्चेद्यथायथं । सर्वेपि कवयः संतु तथाध्येतार एव च ॥४८॥ इत्यकृत्रिमता सर्वशास्त्राणां समुपागता । स्वयं जन्मांतराधीतमधीयामहि संप्रति ॥ ४९ ॥ इति संवेदनाभावात्तेषामध्येत्ता न चेत् । पूर्वानुभूतपानादेस्तदहर्जातदारकाः ॥ ५० ॥ स्मारः कथमेवं स्युस्तथा संवेदनाद्विना । स्मृतिलिंगविशेषाचेत्तेषां तत्र प्रसाध्यते ॥५१॥ कवीनां किं न काव्येषु पूर्वाधीतेषु सान्वया । यदि व्युत्पत्तिवर्णेषु पदेष्वर्थेष्वनेकधा ॥५२॥ वाक्येषु चेह कुर्वतः कवयः काव्यमीक्षिताः । किं न प्रजापतिर्वेदान् कुर्वन्नेवं सतीक्षितः ५३ कश्चित्परीक्षकैलॊकैः सद्भिस्तदेशकालगैः । तथा च श्रूयते सापि गिरा सामानि रुग्निराट् ५४ ऋचः कृता इति केयं वेदस्यापौरुषेयता । प्रत्यभिज्ञायमानत्वं नित्यैकांतं न साधयेत् ॥५५॥ पौर्वापर्यविहीनेर्थे तदयोगाद्विरोधतः । पूर्वदृष्टस्य पश्चाद्या दृश्यमानस्य चैकताम् ॥ ५६ ॥ वेत्ति सा प्रत्यभिज्ञेति प्रायशो विनिवेदितम् । दृष्टत्वदृश्यमानत्वे रूपे पूर्वापरे न चेत् ॥५७॥ भावस्य प्रत्यभिज्ञानं स्यात्तदत्राश्वशंगवत् । तदा नित्यात्मकः शब्दः प्रत्यभिज्ञानतो यथा।।५८॥ देवदत्तादिरित्यस्तु विरुद्धो हेतुरीरितः । दर्शनस्य परार्थत्वादित्यपि परदर्शितः ॥ ५९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org