________________
२३७
प्रथमोऽध्यायः। लिंगादिवचनश्रोत्रमतिपूर्वात्तदर्थगात् श्रुताच्छृतमिति सिद्धं लिंगादिविषयं विदाम् ।। नन्वेवं केवलज्ञानपूर्वकं भगवदह प्रभाषितं द्रव्यश्रुतं विरुध्यत इति मन्यमानं प्रत्याह;न च केवलपूर्वत्वात्सर्वज्ञवचनात्मनः । श्रुतस्य मतिपूर्वत्वनियमोत्र विरुध्यते ॥ ७॥
ज्ञानात्मनस्तथाभावप्रोक्ते गणभृतामपि । मतिप्रकर्षपूर्वत्वादहत्प्रोक्तार्थसंविदः ॥८॥ • श्रुतज्ञानं हि मतिपूर्व साक्षात्पारंपर्येण वेति नियम्यते न पुनः शब्दमात्रं यतस्तस्य केवलपूर्वत्वेन विरोधः स्यात् । न च गणधरदेवादीनां श्रुतज्ञानं केवलपूर्वकं तन्निमित्तशब्दविषयमतिज्ञानातिशयपूर्वकत्वात्तस्येति निरवद्यं ॥
मतिसामान्यनिर्देशान्न श्रोत्रमतिपूर्वकं । श्रुतं नियम्यतेऽशेषमतिपूर्वस्य वीक्षणात् ॥९॥ श्रुत्वा शब्दं यथा तस्मात्तदर्थ लक्षयेदयं । तथोपलभ्य रूपादीनर्थ तनांतरीयकम् ॥१०॥
यथा हि शब्दः स्ववाच्यमविनाभाविनां प्रत्यापयति तथा रूपादयोपि खाविनाभाविनमर्थ प्रत्यापयंतीति श्रोत्रमतिपूर्वकमेव श्रुतज्ञानमीक्ष्यते । ततो न श्रोत्रमतिपूर्वमेव तदिति नियमः श्रेयान् , मतिसामान्यवचनात् ॥
न स्मृत्यादि मतिज्ञानं श्रुतमेवं प्रसज्यते । मतिपूर्वत्वनियमात्तस्यास्य तु मतित्वतः ॥११॥ श्रुतज्ञानावृतिच्छेदविशेषापेक्षणस्य च । स्मृत्यादिष्वंतरंगस्याभावान श्रुततास्थितिः ॥१२॥ मतिर्हि बहिरंगं श्रुतस्य कारणं अंतरंगं तु श्रुतज्ञानावरणक्षयोपशमविशेषः । स च स्मृत्यादेर्मतिविशेषणस्य नास्तीति न श्रुतत्वम् ॥ मतिपूर्व ततो ज्ञेयं श्रुतमस्पष्टतर्कणम् । न तु सर्वमतिव्याप्तिप्रसंगादिष्टवाधनात् ॥ १३ ॥
श्रुतमस्पष्टतर्कणमित्यपि मतिपूर्व नानार्थप्ररूपणं श्रुतज्ञानावरणक्षयोपशमापेक्षमित्यवगंतव्यमन्यथा स्मृत्यादीनामस्पष्टाक्षज्ञानानां च श्रुतत्वप्रसंगात् सिद्धांतविरोधापत्तिरिति सूक्तं मतिपूर्व श्रुतं । तच्चद्विभेदमंगबाह्यत्वादंगरूपत्वतः श्रुतम् । अनेकभेदमत्रैकं कालिकोत्कालिकादिकम् ॥ १४॥ द्वादशावस्थमंगात्मतदाचारादिभेदतः । प्रत्येकं भेदशब्दस्य संबंधादिति वाक्यभित् ॥ १५॥ मुख्या ज्ञानात्मका भेदप्रभेदास्तस्य सूत्रिताः। शब्दात्मकाः पुनर्गौणाः श्रुतस्येति विभिद्यते१६ तत्र श्रुतज्ञानस्य मतिपूर्वकत्वेपि सर्वेषां विप्रतिपत्तिमुपदर्शयतिशब्दज्ञानस्य सर्वेपि मतिपूर्वत्वमादृताः । वादिनः श्रोत्रविज्ञानाभावे तस्य समुद्भवात् ॥१७॥ भवतु नाम श्रुतज्ञानं मतिपूर्वकं याज्ञिकानामपि तत्राविप्रतिपत्तेः "शब्दादुदेत्य विज्ञानमप्रत्यक्षेथ वस्तुनि । शाब्दं तदिति मन्यते प्रमाणांतरवादिनः" इति वचनात् । शब्दात्मकं तु श्रुतं वेदनाख्यं न मतिपूर्वकं तस्य नित्यत्वादिति मन्यमानं प्रत्याह
शब्दात्मकं पुनर्येषां श्रुतमज्ञानपूर्वकं । नित्यं तेषां प्रमाणेन विरोधो बहुचोदितः ।। १८ ॥ प्रत्यक्षबाधनं तावदग्निमीळे पुरोहितं । इत्येवमादिशब्दस्य ज्ञानपूर्वत्ववेदनात् ॥ १९ ॥ तब्यक्तेः ज्ञानपूर्वत्वं स्वयं संवेद्यते न तु । शब्दस्येति न साधीयो व्यक्तेः शब्दात्मकत्वतः॥२०॥ शब्दाद्यर्थातरं व्यक्तिः शब्दस्य कथमुच्यते । संबंधाच्चेति संबंधः स्वभाव इति सैकता ॥२१॥ शब्दव्यक्तेरभिन्नैकसंबंधात्मत्वतो न किम् । संबंधस्यापि तद्भेदेनवस्था केन वार्यते ॥ २२॥ भिन्नाभिन्नात्मकत्वे तु संबंधस्य ततस्तव । शब्दस्य बुद्धिपूर्वत्वं व्यक्तेरिव कथंचन ॥ २३॥ व्यक्तिवर्णस्य संस्कारः श्रोत्रस्याथोभयस्य वा । तद्बुद्धितावृतिच्छेदः साप्येतेनैव दृषिता ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org