________________
२३६ तत्त्वार्थश्लोकवार्तिके
[सू०२० गंधाद्याश्रयस्य किं न स्यात् ? सूक्ष्मत्वादिति चेत् तत एव शब्दाश्रयद्रव्यस्यापि न चक्षुषोपलब्धिरिति सर्व समं पश्यामः । ततो यदि गंधादीनां शश्वदखतंत्रत्वान्महत्त्वाद्युपेतत्वाभावादाख्यातो न द्रव्यत्वं तदा शब्दस्यापि न तत् । ननु शब्दस्याद्रव्यत्वेप्यसर्वगतद्रव्याश्रयत्वे कथं सकृत्सर्वत्रोपलंभः यथा गंधादेः समानपरिणामभृतां पुद्गलानां खकारणवशात् समंततो विसर्पणात् वृक्षाव्यवहितानां विसर्पणं कथं न तेषामितिचेत् , यथा गंधद्रव्यस्कंधानां तथा परिणामात् तदेव गंधादिकृतिप्रतिविधानया दूरादेकोत्करः शब्दे समस्तो नावतरतीति तद्वत्प्राप्तस्येंद्रियेण ग्रहणं निरारेकमवतिष्ठते तथाप्रतीतेरित्याह;तबारेकोत्करः सर्वो गंधद्रव्ये समस्थितः । समाधिश्चेति न व्यासेनासाभिरभिधीयते ॥९८॥ प्रपंचतो विचारितमेतदन्यत्रास्माभिरिति नेहोच्यते ॥
श्रुतं मतिपूर्वं घनेकद्वादशभेदम् ॥ २० ॥ किमर्थमिदमुपदिष्टं मतिज्ञानप्ररूपणानंतरमित्याह;किं निमित्तं श्रुतज्ञानं किं भेदं किं प्रभेदकम् । परोक्षमिति निर्णेतुं श्रुतमित्यादि सूत्रितम् ॥१॥
किं निमित्तं श्रुतज्ञानं नित्यशब्दनिमित्तमन्यनिमित्तं चेति शंकामपनुदति मतिपूर्वकमिति वचनात् । किं भेदं तत् ? षड्भेदं द्विभेदमित्यभेदं वेति संशयं सहस्रप्रभेदं द्वादशप्रभेदमनेकभेदं वेति चारेकामपाकरोति यनेकद्वादशभेदमिति वचनात् । तत्र किमिदं श्रुतमित्याह;
श्रुतेनेकार्थतासिद्धे ज्ञानमित्यनुवर्तनात् । श्रवणं हि श्रुतज्ञानं न पुनः शब्दमात्रकम् ॥२॥ कथमेवं शब्दात्मकं श्रुतमिह प्रसिद्धं सिद्धांतविदामित्याह;तच्चोपचारतो ग्राह्यं श्रुतशब्दप्रयोगतः । शब्दभेदप्रभेदोक्तः स्वयं तत्कारणत्वतः ॥३॥
तच्च शब्दमानं श्रुतमिह ज्ञेयमुपचारात् धनेकद्वादशभेदमित्यनेन शब्दसंदर्भस्य भेदप्रभेदयोर्वचनात् स्वयं सूत्रकारेण श्रुतशब्दप्रयोगाच्च । स हि श्रूयतेस्मेति श्रुतं प्रवचनमित्यस्येष्टार्थस्य संग्रहार्थः श्रेयो नान्यथा स्पष्टज्ञानाभिधायिनः शब्दस्य प्रयोगार्हत्वात् । कुतः पुनरुपचारः तत्कारणत्वात् । श्रुतज्ञानकारणं हि प्रवचनं श्रुतमित्युपचर्यते मुख्यस्य श्रुतज्ञानस्य भेदप्रतिपादनं कथमुपपन्नं तज्ज्ञानस्य भेदप्रभेदरूपत्वोपपत्तेः द्विभेदप्रवचनजनितं हि ज्ञानं द्विभेदं अंगबाह्यप्रवचनजनितस्य ज्ञानस्यांगबाह्यत्वात् अंगप्रविष्टवचनजनितस्य चांगप्रविष्टत्वात् । तथानेकद्वादशप्रभेदवचनजनितं ज्ञानमनेकद्वादशप्रभेदकं कालिकोत्कालिकादिवचनजनितस्यानेकप्रभेदरूपत्वात् , आचारादिवचनजनितस्य च द्वादशप्रभेदत्वादिदमुपचरितं च श्रुतं यनेकद्वादशभेदमिहैव वक्ष्यते । द्विभेदमनेकद्वादशभेदमिति प्रत्येकं भेदशब्दस्याभिसंबंधात् तथा चतुर्भेदो वेदः षडंगः सहस्रशाखः इत्यादि श्रुताभासनिवृत्तिरप्रमाणत्वप्रत्यक्षत्वादिनिवृत्तिश्च कृता भवति । कथमित्याह;
सम्यगित्यधिकारात्तु श्रुताभासनिवर्तनम् । तस्याप्रामाण्यविच्छेदः प्रमाणपदवृत्तितः ॥४॥ परोक्षाविष्कृतेस्तस्य प्रत्यक्षत्वनिराक्रिया । नावध्यादिनिमित्तत्वं मतिपूर्वमिति श्रुतेः ॥ ५ ॥
न नित्यत्वं द्रव्यश्रुतस्य भावश्रुतस्य वा न नित्यनिमित्तत्वमिति सामर्थ्यादवसीयते मतिपूर्वत्ववचनादवध्याद्यनिमित्तत्ववत् । श्रुतनिमित्तत्वं श्रुतस्यैव बाध्येतेति न शंकनीयं । कुतः ?
पूर्व शब्दप्रयोगस्य व्यवधानेपि दर्शनात् । न साक्षान्मतिपूर्वस्य श्रुतस्येष्टस्य बाधनम् ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org