________________
२३५
प्रथमोऽध्यायः । प्राप्यकारि चक्षुः करणत्वाद्दात्रादिवदित्यत्राप्यंशतः सर्वान् प्रत्युद्योतकरेणोक्तो हेतुरनैकांतिको मनसा मंत्रेण च सर्वाद्याकृष्टिकारिणा प्रत्येयः पक्षश्च प्रमाणाबाधितः पूर्ववत् ।।
तदेवं चक्षुषः प्राप्यकारित्वे नास्ति साधनं । मनसश्च ततस्ताभ्यां व्यंजनावग्रहः कुतः॥९॥
यत्र करणत्वमपि चक्षुषि प्राप्यकारित्वसाधनाय नालं च तत्रान्यत्साधनं दूरोत्सारितमेवेति मनोवद• प्राप्यकारि चक्षुः सिद्धं । ततश्च न चक्षुर्मनोभ्यां व्यंजनस्यावग्रह इति व्यवतिष्ठते ॥
दूरे शब्दं शृणोमीति व्यवहारस्य दर्शनात् । श्रोत्रमप्राप्यकारीति केचिदाहुस्तदप्यसत् ॥११॥ दूरे जिघ्राम्यहं गंधमिति व्यवहृतीक्षणात् । घ्राणस्याप्राप्यकारित्वप्रसक्तिरिष्टहानितः॥९२॥ गंधाधिष्ठानभूतस्य द्रव्यप्राप्तस्य कस्यचित् । दूरत्वेन तथा वृत्तौ व्यवहारोत्र चेन्नृणाम् ॥९३॥ समं शब्दे समाधानमिति यत्किंचनेदृशं । चोथं मीमांसकादीनामप्रातीतिकवादिनाम् ॥१४॥ कुट्यादिव्यवधानेपि शब्दस्य श्रवणादि । श्रोत्रमप्राप्यकारीष्टं तथा घ्राणं तथेष्यतां ॥९५॥ द्रव्यांतरितगंधस्य घातसूक्ष्मस्य तस्य चेत् । घ्राणप्राप्तस्य संवित्तिः श्रोत्रप्राप्तस्य नो ध्वनेः॥९६ यथा गंधाणवः केचिच्छक्ताः कुट्यादिभेदने । सूक्ष्मास्तथैव नः सिद्धाः प्रमाणध्वनिपुद्गलाः९७
पुद्गलपरिणामः शब्दो बाडेंद्रियविषयत्वात् गंधादिवदित्यादि प्रमाणसिद्धाः शब्दपरिणतपुद्गलाः इत्यग्रे समर्थयिष्यामहे । ते च गंधपरिणतपुद्गलवत् कुट्यादिकं भित्वा खेंद्रियं प्राप्नवंतः परिच्छेद्या इति न तेषामप्राप्तानामिंद्रियेण ग्रहणं । कथं मूर्ताः स्कंधाः श्रावणखभावाः कुट्यादिना मूर्तिमता न प्रतिहन्यते इति चेत् , तवापि वायवीया ध्वनयः शब्दाभिव्यंजकाः कथं ते न प्रतिहन्यते इति समानं चोद्यं । तत्प्रतिघाते तत्र शब्दस्याभिव्यक्तेरयोगादनभिव्यक्तस्य च श्रवणासंभवादप्रतिघातः तस्य कुट्यादिना सिद्धस्तदंतरितस्य श्रवणान्यथानुपपत्तिरिति चेत् , तत एव शब्दात्मनां पुद्गलानामप्रतिघातोस्तु दृढपरिहारात् । दृष्टो हि गंधात्मपुद्गलानामप्रतिघातस्तद्वच्छब्दानां न विरुध्यते । यदि पुनरमूर्तस्य सर्वगतस्य च शब्दस्य परिकल्पनात्तद्व्यंजकानामेवाप्रतिघाताच्छ्वणमित्यभिनिवेशः तथा गंधस्यामूर्तस्य कस्तूरिकादिद्रव्यविशेषसंयोगजनितावयवा व्यंजकामूर्तद्रव्यांतरेणाप्रतिहतास्तथा घ्राणहेतवः इति कल्पनानुषज्यमाना कथं निवारणीया ? गंधस्यैवं पृथिवीगुणत्वविरोध इति चेत् शब्दस्यापि पुद्गलत्वविरोधस्तथा परैः शब्दस्य द्रव्यांतरत्वेनाभ्युपगमाददोष इति चेत्तथा गंधोपि द्रव्यांतरमभ्युपगम्यतां प्रमाणबलायातस्य परिहर्तुमशक्तेः । स्पर्शादीनामप्येवं द्रव्यांतरत्वप्रसंग इति चेत् , तान्यपि द्रव्यांतराणि संतु । निर्गुणत्वात्तेषामद्रव्यत्वमिति चेत् , तत एव गंधस्पर्शादीनां द्रव्यत्वमस्तु । तेषूपचरितमहत्त्वादय इति चेत् शब्देप्युपचरिताः संतु । कुतः शब्देन तदुपचार इतिचेत् गंधादिषु कुतः? खाश्रयमहत्त्वादिति चेत् तत एव शब्देपि मुख्यमहत्त्वादेरसंभवः । शब्दे किमवगतः ? त्वयापि गंधादौ स किमु निश्चितः । गंधादयो न मुख्यमहत्त्वाद्युपेताः शश्वदखतंत्रत्वादभाववदित्यतोनुमानात्तदसंभवो निश्चित इति चेत् , तत एव शब्देपि स निश्चीयतां । शब्दे तदसिद्धेर्न तन्निश्चेयः सर्वदा तस्याखतंत्रस्योपलब्धेरिति चेत् गंधादावपि तत एव तदसिद्धेः । कुतस्तु तन्निश्चयः तस्य क्षित्यादिद्रव्यतंत्रत्वेन प्रतीतेरस्वतंत्रत्वसिद्धिरिति चेत् शब्दस्यापि वक्तृभेर्यादिद्रव्यतंत्रस्योपलब्धेरखतंत्रत्वसिद्धरस्तु । तस्य तदभिव्यंजकध्वनिनिबंधनत्वातंत्रत्वोपलब्धेरिति चेत् तर्हि क्षित्यादिद्रव्यस्यापि गंधादिव्यंजकवायुविशेषनिबंधनत्वात्तु गंधादेस्तंत्रत्वोपपत्तिः । शब्दस्य वक्तुरन्यत्रोपलब्धेर्न तंत्रत्वं सर्वदेति चेत् गंधादेरपि कस्तूरिकादिद्रव्यादन्यत्रोपलंभात्तत्परतंत्रत्वं सर्वदा मा भूत् । ततोन्यत्रापि सूक्ष्मद्रव्याश्रिता गंधादयः प्रतीयते इति चेत् शब्दोपि ताल्वादिभ्योऽन्यत्र सूक्ष्मपुद्गलाश्रित एव श्रूयत इति कथमिव खतंत्रः । तदाश्रयद्रव्यस्य चक्षुषोपलब्धिः स्यादिति चेत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org