________________
२३४ तत्त्वार्थश्लोकवार्तिके
[सू० १९ स्याद्वादिनामपि हि चक्षुरप्राप्यकारि केषांचिदतिशयज्ञानभृतामृद्धिमतामस्मदाद्यगोचरं विप्रकृष्टखविषयपरिच्छेदकं तादृशं तदावरणक्षयोपशमविशेषसद्भावात् । अस्मदादीनां तु यथाप्रतीति स्वार्थप्रकाशकं खानुरूपतदावरणक्षयोपशमादिति सममदृष्टवैचित्र्यं ज्ञानवैचित्र्यनिबंधनमुभयेषां । ततो न नयनाप्राप्यकारित्वं बाध्यते केनचित् घ्राणादिप्राप्यकारित्ववदिति न तदागमस्य बाधोस्ति येन बाधको न स्यात् पक्षस्य । तदेवंप्रत्यक्षेणानुमानेन स्वागमेन च बाधितः । पक्षः प्राप्तिपरिच्छेदकारि चक्षुरिति स्थितः ॥७५॥ कालात्ययापदिष्टश्च हेतुर्बाडेंद्रियत्वतः । इत्यप्राप्तार्थकारित्वे घ्राणादेवि वांछिते ॥ ७६ ॥ न हि पक्षस्यैवं प्रमाणबाधायां हेतुः प्रवर्तमानः साध्यसाधनायालमतीतकालत्वादन्यथातिप्रसंगात् ॥ एतेन भौतिकत्वादि साधनं तत्र वारितं । प्रत्येतव्यं प्रमाणेन पक्षबाधस्य निर्णयात् ॥ ७७ ॥
प्राप्यकारि चक्षुभौतिकत्वात्करणत्वात् प्राणादिवदित्यत्र न केवलं पक्षः प्रत्यक्षादिबाधितः । कालात्ययापदिष्टश्चेद्धेतुः पूर्ववदुक्तः । किं तर्खनैकांतिकश्चेति कथयन्नाह;
अयस्कांतादिना लोहमप्राप्याकर्षता स्वयं । अनैकांतिकता हेतोभौतिकार्थस्य बाध्यते ॥ ७८॥ कायांतर्गतलोहस्य बहिर्देशस्य वक्ष्यते । नायस्कांतादिना प्राप्तिस्तत्करर्वोक्तकर्मणि ॥ ७९ ॥ यथा कस्तूरिकाद्रव्ये वियुक्तेपि पटादितः । तत्र सौगंध्यतः प्राप्तिस्तद्धाणुभिरिष्यते ॥८॥ अयस्कांताणुभिः कैश्चित्तथा लोहेपि सेष्यतां । विभक्तेपि ततस्तत्राकृष्ट्यादेदृष्टितस्तदा ॥८१॥ इत्ययुक्तमयस्कांतमप्राप्तं प्रति दर्शनात् । लोहाकृष्टेः परिप्राप्तास्तदंशास्तु न जातुचित् ॥८२॥ यथा कस्तूरिकाद्यर्थ गंधादिपरमाणवः । स्वाधिष्ठानाभिमुख्येन ता नयंति पटादिगाः ॥८३॥ तथायस्कांतपाषाणं सूक्ष्मभागाश्च लोहगाः । इत्यायातमितोप्राप्तायस्कांतो लोहकर्मकृत् ॥८४॥
ननु यथा हरीतकी प्राप्य मलमंगाद्विरेचयति तथायस्कांतपरमाणवः शरीरांतर्गतं शल्यं प्राप्याकर्षति शरीरादिति मन्यमानं प्रत्याहः
प्राप्ता हरीतकी शक्ता कर्तुं मलविरेचनं । मलं न पुनरानेतुं हरीतक्यंतरं प्रति ॥ ८५ ॥
तर्हि यथाननान्निर्गतो वायुः पद्मनीलादिगः प्राप्य पानीयमाननं प्रत्याकर्षति तथायस्कांतांतरगाः परमाणवो बहिरवस्थितायस्कांतावयविनो निर्गताः प्राप्य लोहं तं प्रत्येवाकर्षतीति शंकमानं प्रत्याह;
आकर्षणप्रयत्नेन विनाननकृतानिलः । पद्मनालादिगोंभांसि नाकर्षति मुखं प्रति ॥ ८६ ॥ तर्हि पुरुषप्रयत्ननिरपेक्षा यथादित्यरश्मयः प्राप्य भूगतं तोयं तमेव प्रति नयंति तथायस्कांतपरमाणवोपीत्यभिमन्यमानं प्रत्याह;
सूर्याशवो नयंत्यंभः प्राप्य तत्सूर्यमंडलं । चित्रभानुत्विषो नास्तमिति स्वेच्छोपकल्पितम् ॥८७।।
निःप्रमाणकमुदाहरणमाश्रित्यायस्कांतस्य प्राप्यकारित्वं व्यवस्थापयत्कथं न खेच्छाकारि ? तदागमात्सिद्धमिति चेन्न, तस्य प्रत्यागमे सर्वत्र दृष्टेष्टाविरुद्धेन प्रमाणतामात्मसात्कुर्वता प्रतिहतत्वात् वयं युक्ताननुगृहीतस्य प्रमाणत्वानभ्युपगमाच न ततस्तत्सिद्धिः यतोयस्कांतस्य प्राप्यकारित्वसिद्धौ तेनानैकांतिकत्वं भौतिकत्वस्य न स्यात् ॥
तथैव कारणत्वस्य मनसा व्यभिचारिता । मंत्रेण च भुजंगाद्युच्चाटकादिकरेण वा ॥ ८८॥ शब्दात्मनो हि मंत्रस्य प्राप्तिने भुजगादिना । मनागावर्तमानस्य दूरस्थेन प्रतीयते ॥ ८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org