________________
प्रथमोऽध्यायः !
२३३
तेजोद्रव्यं ह्यनुद्भूतस्पर्शमुद्भूतरूपभृत् । दृष्टं यथा प्रदीपस्य प्रभाभारः समंततः ॥ ४८ ॥ तथानुद्भूतरूपं तदुद्भूतस्पर्शमीक्षितम् । यथोष्णोदकसंयुक्तं परमुद्भूततद्वयम् ॥ ४९ ॥ नानुभूतद्वयं तेजो दृष्टं चक्षुर्यतस्तथा । अदृष्टवशतस्तच्चेत्सर्वमक्षं तथा न किम् ॥ ५० ॥ सुवर्णघटवत्तत्स्यादित्यसिद्धं निदर्शनं । प्रमाणबलतस्तस्य तैजसत्वाप्रसिद्धितः ॥ ५१ ॥ नोष्णवीर्यत्वतस्तस्य तैजसत्वं प्रसिद्ध्यति । व्यभिचारान्मरीचादिद्रव्येण तैजसेन वः ॥ ५२ ॥ ततो नासिद्धता हेतोः सिद्धसाध्यस्य बुध्यते । चक्षुषत्वादितोध्वानेनित्यत्वस्य यथैव हि ॥५३॥ तदेवं तैजसत्वादित्यस्य हेतोरसिद्धत्वान्न चक्षुषि रश्मिवत्त्वसिद्धि निबंधनत्वं यतस्तस्य रश्मयोर्थप्रकाशनशक्तयः स्युः सतामपि तेषां बृहत्तरगिरिपरिच्छेदनमयुक्तं मनसोधिष्ठाने सर्वथेत्याह ;
संतोपि रश्मयो नेत्रे मनसाधिष्ठिता यदि । विज्ञानहेतवोर्थेषु प्राप्तेष्वेवेति मन्यते ॥ ५४ ॥ मनसोणुत्वतश्चक्षुर्मयूखेष्वनधिष्ठितेः । भिन्नदेशेषु भूयस्त्वपरमाणुवदेकशः ॥ ५५ ॥ महीयसो महीभ्रस्य परिच्छित्तिर्न युज्यते । क्रमेणाधिष्ठितौ तस्य तदंशेष्वेव संविदः ॥ ५६ ॥ निरंशोarat शैलो महीयानपि रोचिषा । नयनेन परिच्छेद्यो मनसाधिष्ठितेन चेत् ॥ ५७ ॥ न स्यान्मेचकविज्ञानं नानावयवगोचरम् । तद्देशिविषयं चास्य मनोहीनैर्दृगंशुभिः ॥ ५८ ॥ शैलचंद्रमसोचापि प्रत्यासन्नदविष्ठयोः । सह ज्ञानेन युज्येत प्रसिद्धमपि सद्धियाम् ।। ५९ ।। कालेन यावता शैलं प्रयांति नयनांशवः । केचिचंद्रमसं चान्ये तावतैवेति युज्यते ॥ ६० ॥ तयोश्च क्रमतो ज्ञानं यदि स्यात्ते मनोद्वयं । नान्यथैकस्य मनसस्तदधिष्ठित्यसंभवात् ॥ ६१ ॥ विकीर्णानेक नेत्रांशुराशेरप्राप्यकारिणः । मनसोधिष्ठितौ कायस्यैकदेशेपि तिष्ठतः ॥ ६२ ॥ सहाक्षपंचकस्यैतत्किं नाधिष्ठायकं मतं । यतो न क्रमतोभीष्टं रूपादिज्ञानपंचकम् ॥ ६३ ॥ तथा च युगपज्ज्ञानानुत्पत्तेरप्रसिद्धितः । साध्ये मनसि लिंगत्वं न स्यादिति मनः कुतः || ६४ || मनोनधिष्ठिताश्चक्षूरश्मयो यदि कुर्वते । स्वार्थज्ञानं तदप्येतदूषणं दुरतिक्रमम् || ६५ ॥ ततोक्षिरश्मयो भित्त्वा काचादीनर्थभासिनः । तेषामभावतो भावेप्युक्तदोषानुषंगतः ।। ६६ ।। काचाद्यंतरितार्थानां ग्रहणं चक्षुषः स्थितम् । अप्राप्यकारितालिंगं परपक्षस्य बाधकम् ॥ ६७ ॥
एवं पक्षस्याध्यक्षबाधामनुमानबाधां च प्ररूप्यागमबाधां च दर्शयन्नाह ;
स्पृष्टं शब्दं शृणोत्यक्षमस्पृष्टं रूपमीक्ष्यते । स्पृष्टं बद्धं च जानाति स्पर्श गंधं रसं तथा ॥६८॥ इत्यागमश्च तस्यास्ति बाधको बाधवर्जितः । चक्षुषोप्राप्यकारित्वसाधनः शुद्धधीमतः ॥ ६९ ॥ ननु नयनाप्राप्यकारित्वसाधनस्यागमस्य बाधारहितत्वमसिद्धमिति पराकूतमुपदर्श्य दूषयन्नाह ;मनोबुद्धिप्रकृष्टार्थग्राहकत्वानुषंजनं । नेत्रस्याप्राप्यकारित्वे बाधकं येन गीयते ॥ ७० ॥ तस्य प्राप्तानुगंधादिग्रहणस्य प्रसंजनम् । घ्राणादेः प्राप्यकारित्वे बाधकं केन बाध्यते ॥ ७१ ॥ सूक्ष्मे महति च प्राप्तेरविशेषेपि योग्यता । गृहीतुं चेन्महद्रव्यं दृश्यं तस्य न चापरम् ॥ ७२ ॥ तर्ह्यप्राप्तेरभेदेपि चक्षुषः शक्तिरीदृशी । यथा किंचिद्धि दूरार्थमविदिकं प्रपश्यति ॥ ७३ ॥ ननु च घ्राणादींद्रियं प्राप्यकारि प्राप्तमपि तत्राणुगंधादियोगिनः परिच्छिनत्ति नास्मदादेस्तादृशादृष्टविशेषस्याभावात् महत्त्वाद्युपेतद्रव्यं गंधादि तु परिच्छिनत्ति तादृगदृष्टविशेषस्य सद्भावादित्यदृष्टवैचित्र्यात्तद्विज्ञानभावाभाववैचित्र्यं मन्यमानान् प्रत्याह;
समं चादृष्टवैचित्र्यं ज्ञानवैचित्र्यकारणं । स्याद्वादिनां परेषां चेत्यलं वादेन तत्र नः ॥ ७४ ॥
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org