________________
२३२
तत्त्वार्थश्लोकवार्तिके
[सू० १९ तया शश्वददृश्येन वेधसा निर्मितं जगत् । कथं निश्चीयते कार्यविशेषाचेत्परैरपि ॥ २९ ॥
यथैवात्रास्मदादिविनिर्मितेतरच्छरीरादिविशिष्टं कार्यमुपलभ्य तस्येश्वरेणात्यंतपरोक्षण निर्मितत्वमनु. मीयते भवता तथा परैरपि विज्ञानं नीलाद्यर्थाकारविशिष्टं कार्यमभिसंवेद्य नीलाद्यर्थोनुमीयत इति समं पश्यामः । यथा च काचाद्यंतरितार्थे प्रत्यक्षता व्यवहारो विभ्रमवशादेवं बहिरर्थेपीति कुतो मतांतरं निराक्रियते ॥
प्रत्यक्षेणाप्रबाधेन बहिरर्थस्य दर्शनम् । ज्ञानस्यांतः प्रसिद्धं चेन्नान्यथा परिकल्प्यते ॥३०॥ काचाचंतरितार्थेपि समानमिदमुत्तरं । काचादेर्भिनदेशस्य तस्यावाधं विनिश्चयात् ॥ ३१ ॥ यथा मुखं निरीक्षते दर्पणे प्रतिबिंवितम् । स्वदेहे संस्पृशंतीति बाधा सिद्धात्र धीमताम् ॥३२॥ तथा न स्फटिकांभोनुपटलावृत्तवस्तुनि । स्वदेशादितया तस्य तदा पश्चाच दर्शनात् ॥३३॥ न च नयनरश्मयः प्रसिद्धाः प्रमाणसामर्थ्यादेः स्फटिकादीन् विभज्य घटादीन् प्रकाशयंतीत्याह;न चेक्षतेस्मदादीनां स्फुरंतश्चक्षुरंशवः । सांधकारनिशीथिन्यामन्यान्वभिभवादपि ॥ ३४ ॥ यद्यनुद्भूतरूपास्ते शक्यंते नेक्षितुं जनैः । तदा प्रमांतरं वाच्यं तत्सद्भावावबोधकम् ॥ ३५ ॥ रश्मिवल्लोचनं सर्व तैजसत्वात् प्रदीपवत् । इति सिद्धं न नेत्रस्य ज्योतिष्कत्वं प्रसाधयेत् ॥३६॥ तैजसं नयनं सत्सु सनिकृष्टरसादिषु । रूपस्य व्यंजकत्वाचेत्प्रदीपादिवदीर्यते ॥ ३७॥ हेतोर्दिननिशानाथमयूखैर्व्यभिचारिता । तैजसं निहिते चंद्रकांतरं तत्क्षितौ भवाः ॥ ३८ ॥ तेजोनुसूत्रिता ज्ञेया गा मूलोष्णवती प्रभा। नान्या मकरतादीनां पार्थिवत्वप्रसिद्धितः ॥३९॥
चक्षुषस्तैजसत्वे साध्ये रूपस्यैव व्यंजकत्वादित्यस्य हेतोश्चंद्राद्युद्योतेन मूलोष्णत्वरहितेन पार्थिवत्वेन व्यभिचारादगमकत्वात्तत्तैजसत्वस्यासिद्धेर्न ततो रश्भिवच्चक्षुषः सिद्ध्येत् ॥
रूपाभिव्यंजने चाक्ष्णां नाशे कापेक्षणं भवेत् । तैजसत्वात्प्रदीपादेवि सर्वस्य देहिनः ॥४०॥ यथैकस्य प्रदीपस्य सुस्पष्टार्थप्रकाशने । मंदत्वादसमर्थस्य द्वितीयादेरपेक्षणम् ॥४१॥ तथाक्ष्णोने विरुधेत सूयोलोकाद्यपेक्षणं । स्वकार्यो हि स्वजातीयं सहकारि प्रतीक्ष्यते॥४२॥ तदसल्लोचनस्सार्थप्रकाशित्वाविनिश्चयात् । कथंचिदपि दीपादिनिरपेक्षस्य प्रदीपवत् ।। ४३ ॥ अंधकारावभासोस्ति विनालोकेन चेन्न वै । प्रसिद्धस्तेंधकारोस्ति ज्ञानाभावात्परोर्थकृत् ॥४४॥ परेष्ट्यास्तीति चेत्तस्याः सिद्धं चक्षुरतैजसं । प्रमाणत्वेन्यथा नांधकारः सिद्येत्ततस्तव ॥४५॥ अतैजसांजनापेक्षि चक्षू रूपं व्यनक्ति यं । नातः समानजातीयसहकारि नियम्यते ॥ ४६॥
तैजसमेवांजनादि रूपप्रकाशने नेत्रस्य सहकारि न पुनः पार्थिवमेव तत्रानुद्भूतस्य तेजोद्रव्यभावादित्ययुक्तं प्रमाणाभावात् । तैजसमंजनादि रूपावभासने नयनसहकारित्वाद्दीपादिवत्यप्यसम्यक्, चंद्रोद्योतादिनानैकांतात् । तस्यापि पक्षीकरणान्न व्यभिचार इति चेन्न, हेतोः कालात्ययापदिष्टत्वप्रसंगात् । पक्षस्य प्रत्यक्षानुमानागमबाधितत्वात् तस्य प्रत्यक्षेणातैजसत्वेनानुभवात् । न तैजसश्चंद्रोद्योतो नयानानंदहेतुत्वात्सलिलादिवदित्यनुमानात् । मूलोष्णवती प्रभा तेज इत्यागमाच्चाब्धिजलकल्लोलैश्चंद्रकांतप्रतिहताः सूर्याशवः प्रद्योतंते शिशिराश्च भवंति । तत एव नयनानंदहेतव इत्यागमस्तु न प्रमाणं, युक्त्याननुगृहीतत्वात् तथाविधागमांतरवत् । तदननुगृहीतस्यापि प्रमाणत्वेतिप्रसंगात् । पुरुषाद्वैतप्रतिपादकागमस्य प्रमाणत्वप्रसंगात् सकलयौगमतविरोधात् । किंच
किमुष्णस्पर्शविज्ञानं तैजसेक्ष्णि न जायते । तस्यानुभूततायां तु रूपानुद्भूतता कुतः ॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org